अध्याय 149, Verse 1
ब्रह्मोवाच ।
नारसिंहमिति ख्यातं गङ्गाया उत्तरे तटे ।
तस्यानुभावं वक्ष्यामि सर्वरक्षाविधायकम् ॥ १४९.१॥
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
नारसिंहमिति ख्यातं गङ्गाया उत्तरे तटे ।
तस्यानुभावं वक्ष्यामि सर्वरक्षाविधायकम् ॥ १४९.१॥
हिरण्यकशिपुः पूर्वमभवद् बलिनां वरः ।
तपसा विक्रमेणापि देवानामपराजितः ॥ १४९.२॥
हरिभक्तात्मजद्वेष+ ।
कलुषीकृतमानसः ।
आविर्भूय सभास्तम्भाद् विश्वात्मत्वं प्रदर्शयन् ॥ १४९.३॥
तं हत्वा नरसिंहस्तत्+ ।
सैन्यमद्रावयत् तदा ।
सर्वान् हत्वा महादैत्यान् क्रमेणाजौ महामृगः ॥ १४९.४॥
रसातलस्थाञ् शत्रूंश्च जित्वा स्वर्लोकमीयिवान् ।
तत्र जित्वा भुवं गत्वा दैत्यान् हत्वा नगस्थितान् ॥ १४९.५॥
समुद्रस्थान् नदीसंस्थान् ग्रामस्थान् वनवासिनः ।
नानारूपधरान् दैत्यान् निजघान मृगाकृतिः ॥ १४९.६॥
आकाशगान् वायुसंस्थाञ् ज्योतिर्लोकमुपागतान् ।
वज्रपाताधिकनखः समुद्धूतमहासटः ॥ १४९.७॥
दैत्यगर्भस्राविगर्जी निर्जिताशेषराक्षसः ।
महानादैर्वीक्षितैश्च प्रलयानलसंनिभैः ॥ १४९.८॥
चपेटैरङ्गविक्षेपैरसुरान् पर्यचूर्णयत् ।
एवं हत्वा बहुविधान् गौतमीमगमद् धरिः ॥ १४९.९॥
स्वपदाम्बुजसम्भूतां मनोनयननन्दिनीम् ।
तत्राम्बर्य इति ख्यातो दण्डकाधिपते रिपुः ॥ १४९.१०॥
देवानां दुर्जयो योद्धा बलेन महतावृतः ।
तेनाभवन् महारौद्रं भीषणं लोमहर्षणम् ॥ १४९.११॥
शस्त्रास्त्रवर्षणं युद्धं हरिणा दैत्यसूनुना ।
निजघान हरिः श्रीमांस्तं रिपुं ह्युत्तरे तटे ॥ १४९.१२॥
गङ्गायां नारसिंहं तु तीर्थं त्रैलोक्यविश्रुतम् ।
स्नानदानादिकं तत्र सर्वपापग्रहार्दनम् ॥ १४९.१३॥
सर्वरक्षाकरं नित्यं जरामरणवारणम् ।
यथा सुराणां सर्वेषां न कोऽपि हरिणा समः ॥ १४९.१४॥
तीर्थानामप्यशेषाणां तथा तत् तीर्थमुत्तमम् ।
तत्र तीर्थे नरः स्नात्वा कुर्यान् नृहरिपूजनम् ॥ १४९.१५॥
स्वर्गे मर्त्ये तले वापि तस्य किंचिन् न दुर्लभम् ।
इत्याद्यष्टौ मुने तत्र महातीर्थानि नारद ॥ १४९.१६॥
पृथक् पृथक् तीर्थकोटि+ ।
फलमाहुर्मनीषिणः ।
अश्रद्धयापि यन्नाम्नि स्मृते सर्वाघसंक्षयः ॥ १४९.१७॥
भवेत् साक्षान् नृसिंहोऽसौ सर्वदा यत्र संस्थितः ।
तत् तीर्थसेवासंजातं फलं कैरिह वर्ण्यते ॥ १४९.१८॥
यथा न देवो नृहरेरधिकः क्वापि वर्तते ।
तथा नृसिंहतीर्थेन समं तीर्थं न कुत्रचित् ॥ १४९.१९॥