Brahma Purana

अध्याय 148

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Brahma Purana

अध्याय 148, Verse 1

ब्रह्मोवाच ।

कोटितीर्थमिति ख्यातं गङ्गाया दक्षिणे तटे ।

यस्यानुस्मरणाद् एव सर्वपापैः प्रमुच्यते ॥ १४८.१॥

Brahma Purana

अध्याय 148, Verse 2

यत्र कोटीश्वरो देवः सर्वं कोटिगुणं भवेत् ।

कोटिद्वयं तत्र पूर्णं तीर्थानां शुभदायिनाम् ॥ १४८.२॥

Brahma Purana

अध्याय 148, Verse 3

तत्र व्युष्टिं प्रवक्ष्यामि श‍ृणु नारद तन्मनाः ।

कण्वस्य तु सुतो ज्येष्ठो बाह्लीक इति विश्रुतः ॥ १४८.३॥

Brahma Purana

अध्याय 148, Verse 4

काण्वश्चेति जनैः ख्यातो वेदवेदाङ्गपारगः ।

इष्टीः पार्वायणानीर्याः सभार्यो वेदपारगः ॥ १४८.४॥

Brahma Purana

अध्याय 148, Verse 5

कुर्वन्न् आस्ते स गौतम्यास्तीरस्थो लोकपूजितः ।

प्रातःकाले सभार्योऽसौ जुह्वद् अग्नौ समाहितः ॥ १४८.५॥

Brahma Purana

अध्याय 148, Verse 6

सर्वदास्ते कदाचित् तु हवनाय समुद्यतः ।

एकाहुतिं स हुत्वा तु समिद्धे हव्यवाहने ॥ १४८.६॥

Brahma Purana

अध्याय 148, Verse 7

आहुत्यन्तरदानाय हविर्द्रव्यं करेऽग्रहीत् ।

एतस्मिन्न् अन्तरे वह्निरुपशान्तोऽभवत् तदा ॥ १४८.७॥

Brahma Purana

अध्याय 148, Verse 8

ततश्चिन्तापरः काण्वः कर्तव्यं किं भवेद् इति ।

अन्तर्विचारयामास विषादं परमं गतः ॥ १४८.८॥

Brahma Purana

अध्याय 148, Verse 9

आहुत्योश्च द्वयोर्मध्य उपशान्तो हुताशनः ।

अग्न्यन्तरमुपादेयं वैदिकं लौकिकं तथा ॥ १४८.९॥

Brahma Purana

अध्याय 148, Verse 10

क्व होष्यं स्याद् द्वितीयं तु आहुत्यन्तरमेव च ।

एवं मीमांसमाने तु दैवी वाग् अब्रवीत् तदा ॥ १४८.१०॥

Brahma Purana

अध्याय 148, Verse 11

अग्न्यन्तरं नैव तेऽत्र उपादेयं भविष्यति ।

यानि तत्र भविष्यन्ति शकलानि समीपतः ॥ १४८.११॥

Brahma Purana

अध्याय 148, Verse 12

अर्धदग्धेषु काष्ठेषु विप्रराज प्रहूयताम् ।

नेत्युवाच तदा काण्वः सैव वाग् अब्रवीत् पुनः ॥ १४८.१२॥

Brahma Purana

अध्याय 148, Verse 13

अग्नेः पुत्रो हिरण्यस्तु पिता पुत्रः स एव तु ।

पुत्रे दत्तं प्रियायैव पितुः प्रीत्यै भविष्यति ॥ १४८.१३॥

Brahma Purana

अध्याय 148, Verse 14

पित्रे देयं सुते दद्यात् कोटिप्रीतिगुणं भवेत् ।

दैवी वाग् अब्रवीद् एवं ततः सर्वे महर्षयः ॥ १४८.१४॥

Brahma Purana

अध्याय 148, Verse 15

निश्चित्य धर्मसर्वस्वं तथा चक्रुर्यथोदितम् ।

एतज्ज्ञात्वा जगत्यत्र पुत्रे दत्तं पितुर्भवेत् ॥ १४८.१५॥

Brahma Purana

अध्याय 148, Verse 16

अपत्याद्युपकारेण पित्रोः प्रीतिर्यथा भवेत् ।

तथा नान्येन केनापि जगत्येतद् धि विश्रुतम् ॥ १४८.१६॥

Brahma Purana

अध्याय 148, Verse 17

सुप्रसिद्धं जगत्येतत् सर्वलोकेषु पूजितम् ।

तस्मिन् दत्ते भवेत् पुण्यं सर्वं कोटिगुणं सुत ॥ १४८.१७॥

Brahma Purana

अध्याय 148, Verse 18

मनोग्लानिनिवृत्तिश्च जायते च महत् सुखम् ।

पुनरप्याह सा वाणी काण्वेऽस्मिंस्तीर्थ उत्तमे ॥ १४८.१८॥

Brahma Purana

अध्याय 148, Verse 19

अभवत् तन् महत् तीर्थं काण्व पुण्यप्रभावतः ।

लोकत्रयाश्रयाशेष+ ।

तीर्थेभ्योऽपि महाफलम् ॥ १४८.१९॥

Brahma Purana

अध्याय 148, Verse 20

स्नानदानादिकं किंचिद् भक्त्या कुर्वन् समाहितः ।

फलं प्राप्स्यस्यशेषेण सर्वं कोटिगुणं मुने ॥ १४८.२०॥

Brahma Purana

अध्याय 148, Verse 21

यत् किंचित् क्रियते चात्र स्नानदानादिकं नरैः ।

सर्वं कोटिगुणं विद्यात् कोटितीर्थं ततो विदुः ॥ १४८.२१॥

Brahma Purana

अध्याय 148, Verse 22

यत्रैतद् वृत्तमाग्नेयं काण्वं पौत्रं हिरण्यकम् ।

वाणीसंज्ञं कोटितीर्थं कोटितीर्थफलं यतः ॥ १४८.२२॥

Brahma Purana

अध्याय 148, Verse 23

कोटितीर्थस्य माहात्म्यमत्र वक्तुं न शक्यते ।

वाचस्पतिप्रभृतिभिरथवान्यैः सुरैरपि ॥ १४८.२३॥

Brahma Purana

अध्याय 148, Verse 24

यत्रानुष्ठीयमानं हि सर्वं कर्म यथा तथा ।

गोदावर्याः प्रसादेन सर्वं कोटिगुणं भवेत् ॥ १४८.२४॥

Brahma Purana

अध्याय 148, Verse 25

कोटितीर्थे द्विजाग्र्याय गामेकां यः प्रयच्छति ।

तस्य तीर्थस्य माहात्म्याद् गोकोटिफलमश्नुते ॥ १४८.२५॥

Brahma Purana

अध्याय 148, Verse 26

तस्मिंस्तीर्थे शुचिर्भूत्वा भूमिदानं करोति यः ।

श्रद्धायुक्तेन मनसा स्यात् तत्कोटिगुणोत्तरम् ॥ १४८.२६॥

Brahma Purana

अध्याय 148, Verse 27

सर्वत्र गौतमीतीरे पितृणां दानमुत्तमम् ।

विशेषतः कोटितीर्थे तद् अनन्तफलप्रदम् ।

अत्रैकन्यूनपञ्चाशत् तीर्थानि मुनयो विदुः ॥ १४८.२७॥