अध्याय 147, Verse 1
ब्रह्मोवाच ।
अप्सरोयुगमाख्यातमप्सरासंगमं ततः ।
तीरे च दक्षिणे पुण्यं स्मरणात् सुभगो भवेत् ॥ १४७.१॥
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
अप्सरोयुगमाख्यातमप्सरासंगमं ततः ।
तीरे च दक्षिणे पुण्यं स्मरणात् सुभगो भवेत् ॥ १४७.१॥
मुक्तो भवत्यसंदेहं तत्र स्नानादिना नरः ।
स्त्री सती संगमे तस्मिन्न् ऋतुस्नाता च नारद ॥ १४७.२॥
वन्ध्यापि जनयेत् पुत्रं त्रिमासात् पतिना सह ।
स्नानदानेन वर्तन्ती नान्यथा मद्वचो भवेत् ॥ १४७.३॥
अप्सरोयुगमाख्यातं तीर्थं येन च हेतुना ।
तत्रेदं कारणं वक्ष्ये शृणु नारद यत्नतः ॥ १४७.४॥
स्पर्धासीन् महती ब्रह्मन् विश्वामित्रवसिष्ठयोः ।
तपस्यन्तं गाधिसुतं ब्राह्मण्यार्थे यतव्रतम् ॥ १४७.५॥
गङ्गाद्वारे समासीनं प्रेरितेन्द्रेण मेनका ।
तं गत्वा तपसो भ्रष्टं कुरु भद्रे ममाज्ञया ॥ १४७.६॥
तदोक्तेन्द्रेण सा मेना विश्वामित्रं तपश्च्युतम् ।
कृत्वा कन्यां तथा दत्त्वा जगामेन्द्रपुरं पुनः ॥ १४७.७॥
तस्यां गतायां सस्मार गाधिपुत्रोऽखिलं कृतम् ।
तं तु देशं परित्यज्य तीर्थं तु सुरवल्लभम् ॥ १४७.८॥
जगाम दक्षिणां गङ्गां यत्र कालञ्जरो हरः ।
तपस्यन्तं तदोवाच पुनरिन्द्रः सहस्रदृक् ॥ १४७.९॥
उर्वशीं च ततो मेनां रम्भां चापि तिलोत्तमाम् ।
नैवेत्यूचुर्भयत्रस्ताः पुनराह शचीपतिः ॥ १४७.१०॥
गम्भीरां चातिगम्भीरामुभे ये गर्विते तदा ।
ते ऊचतुरुभे देवं सहस्राक्षं पुरंदरम् ॥ १४७.११॥
गम्भीरातिगम्भीरे ऊचतुः ।
आवां गत्वा तपस्यन्तं च्यावयावो नृत्यगीतै रूपयौवनसम्पदा ॥ १४७.१२॥
यासामपाङ्गे हसिते वाचि विभ्रमसम्पदि ।
नित्यं वसति पञ्चेषुस्ताभिः कोऽत्र न जीयते ॥ १४७.१३॥
ब्रह्मोवाच ।
तथेत्युक्ते सहस्राक्षे ते आगत्य महानदीम् ।
ददृशाते तपस्यन्तं विश्वामित्रं महामुनिम् ॥ १४७.१४॥
मृत्योरपि दुराधर्षं भूमिस्थमिव धूर्जटिम् ।
सहस्रमेकं वर्षाणामीक्षितुं न च शक्नुतः ॥ १४७.१५॥
दूरे स्थिते नृत्यगीत+ ॅहाटुकाररते तदा ।
विलोक्य मुनिशार्दूलस्ततः कोपाकुलोऽभवत् ॥ १४७.१६॥
प्रतीपाचरणं दृष्ट्वा क्रोधः कस्य न जायते ।
निस्पृहोऽपि महाबाहुस्तमिन्द्रं प्रहसन्न् इव ॥ १४७.१७॥
आभ्यां मुक्तः सहस्राक्षो ह्यप्सरोभ्यां ब्रुवन्न् इव ।
शशाप ते स गाधेयो द्रवरूपे भविष्यथः ॥ १४७.१८॥
द्रवितुं मां समायाते यतस्त्विह ततो लघु ।
ततः प्रसादितस्ताभ्यां शापमोक्षं चकार सः ॥ १४७.१९॥
भवेतां दिव्यरूपे वां गङ्गया संगते यदा ।
तच्छापात् ते नदीरूपे तत्क्षणात् सम्बभूवतुः ॥ १४७.२०॥
अप्सरोयुगमाख्यातं नदीद्वयमतोऽभवत् ।
ताभ्यां परस्परं चापि ताभ्यां गङ्गासुसंगमः ॥ १४७.२१॥
सर्वलोकेषु विख्यातो भुक्तिमुक्तिप्रदः शिवः ।
तत्रास्ते दृष्ट एवासौ सर्वसिद्धिप्रदायकः ॥ १४७.२२॥
तत्र स्नात्वा तु तं दृष्ट्वा मुच्यते सर्वबन्धनात् ॥ १४७.२३॥