अध्याय 146, Verse 1
ब्रह्मोवाच ।
यायातमपरं तीर्थं यत्र कालञ्जरः शिवः ।
सर्वपापप्रशमनं तद्वृत्तमुच्यते मया ॥ १४६.१॥
Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
यायातमपरं तीर्थं यत्र कालञ्जरः शिवः ।
सर्वपापप्रशमनं तद्वृत्तमुच्यते मया ॥ १४६.१॥
ययातिर्नाहुषो राजा साक्षाद् इन्द्र इवापरः ।
तस्य भार्याद्वयं चासीत् कुललक्षणभूषितम् ॥ १४६.२॥
ज्येष्ठा तु देवयानीति नाम्ना शुक्रसुता शुभा ।
शर्मिष्ठेति द्वितीया सा सुता स्याद् वृषपर्वणः ॥ १४६.३॥
ब्राह्मण्यपि महाप्राज्ञा देवयानी सुमध्यमा ।
ययातेरभवद् भार्या सा तु शुक्रप्रसादतः ॥ १४६.४॥
शर्मिष्ठा चापि तस्यैव भार्या या वृषपर्वजा ।
देवयानी शुक्रसुता द्वौ पुत्रौ समजीजनत् ॥ १४६.५॥
यदुं च तुर्वसुं चैव देवपुत्रसमावुभौ ।
शर्मिष्ठा च नृपाल्लेभे त्रीन् पुत्रान् देवसंनिभान् ॥ १४६.६॥
द्रुह्युं चानुं च पूरुं च ययातेर्नृपसत्तमात् ।
देवयान्याः सुतौ ब्रह्मन् सदृशौ शुक्ररूपतः ॥ १४६.७॥
शर्मिष्ठायास्तु तनयाः शक्राग्निवरुणप्रभाः ।
देवयानी कदाचित् तु पितरं प्राह दुःखिता ॥ १४६.८॥
देवयान्युवाच ।
मम त्वपत्यद्वितयमभाग्याया भृगूद्वह ।
मम दास्याः सभाग्याया अपत्यत्रितयं पितः ॥ १४६.९॥
तद् एतद् अनुमृश्यायं दुःखमत्यन्तमागता ।
मरिष्ये दानवगुरो ययातिकृतविप्रियात् ।
मानभङ्गाद् वरं तात मरणं हि मनस्विनाम् ॥ १४६.१०॥
ब्रह्मोवाच ।
तद् एतत् पुत्रिकावाक्यं श्रुत्वा शुक्रः प्रतापवान् ।
कुपितोऽभ्याययौ शीघ्रं ययातिमिदमब्रवीत् ॥ १४६.११॥
शुक्र उवाच ।
यद् इदं विप्रियं मे त्वं सुतायाः कृतवान् असि ।
रूपोन्मत्तेन राजेन्द्र तस्माद् वृद्धो भविष्यसि ॥ १४६.१२॥
न च भोक्तुं न च त्यक्तुं शक्नोति विषयातुरः ।
स्पृहयन् मनसैवास्ते निःश्वासोच्छ्वासनष्टधीः ॥ १४६.१३॥
वृद्धत्वमेव मरणं जीवतामपि देहिनाम् ।
तस्माच्छीघ्रं प्रयाहि त्वं जरां भूपातिदुर्धराम् ॥ १४६.१४॥
ब्रह्मोवाच ।
एतच्छ्रुत्वा ययातिस्तु शापं शुक्रस्य धीमतः ।
कृताञ्जलिपुटो राजा ययातिः शुक्रमब्रवीत् ॥ १४६.१५॥
ययातिरुवाच ।
नापराध्ये न संकुप्ये नैवाधर्मं प्रवर्तये ।
अधर्मकारिणः पापाः शास्या एव महात्मनाम् ॥ १४६.१६॥
धर्ममेव चरन्तं वै कथं मां शप्तवान् असि ।
देवयानी द्विजश्रेष्ठ वृथा मां वक्ति किंचन ॥ १४६.१७॥
तस्मान् न मम विप्रेन्द्र शापं दातुं त्वमर्हसि ।
विद्वांसोऽपि हि निर्दोषे यदि कुप्यन्ति मोहिताः ।
तदा न दोषो मूर्खाणां द्वेषाग्निप्लुष्टचेतसाम् ॥ १४६.१८॥
ब्रह्मोवाच ।
ययातिवाक्याच्छुक्रोऽपि सस्मार सुतया कृतम् ।
असकृद् विप्रियं तस्य दिवा रात्रौ प्रचण्डया ॥ १४६.१९॥
गतकोपोऽहमित्युक्त्वा काव्यो राजानमब्रवीत् ॥ १४६.२०॥
शुक्र उवाच ।
ज्ञातं मयानयाकारि विप्रियं न वदेऽनृतम् ।
शापस्येमं करिष्यामि शृणुष्वानुग्रहं नृप ॥ १४६.२१॥
यस्मै पुत्राय संदातुं जरामिच्छसि मानद ।
तस्य सा यात्वियं राजञ् जरा पुत्राय मद्वरात् ॥ १४६.२२॥
ब्रह्मोवाच ।
पुनर्ययातिः श्वशुरं शुक्रं प्राह विनीतवत् ॥ १४६.२३॥
ययातिरुवाच ।
यो गृह्णाति मया दत्तां जरां भक्तिसमन्वितः ।
स राजा स्याद् दैत्यगुरो तद् एतद् अनुमन्यताम् ॥ १४६.२४॥
यो मद्वाक्यं नाभिनन्देत् सुतो दैत्यगुरो दृढम् ।
तं शपेयमनुज्ञात्र दातव्यैव त्वया गुरो ॥ १४६.२५॥
ब्रह्मोवाच ।
एवमस्त्विति राजानमुवाच भृगुनन्दनः ।
ततो ययातिः स्वं पुत्रमाहूयेदं वचोऽब्रवीत् ॥ १४६.२६॥
ययातिरुवाच ।
यदो गृहाण मे शापाज्जरां जातां सुतो भवान् ।
ज्येष्ठः सर्वार्थवित् प्रौढः पुत्राणां धुरि संस्थितः ।
पुत्री तेनैव जनको यस्तदाज्ञावशे स्थितः ॥ १४६.२७॥
ब्रह्मोवाच ।
नेत्युवाच यदुस्तातं ययातिं भूरिदक्षिणम् ।
ययातिश्च यदुं शप्त्वा तुर्वसुं काममब्रवीत् ॥ १४६.२८॥
नागृह्णात् तुर्वसुश्चापि पित्रा दत्तां जरां तदा ।
तं शप्त्वा चाब्रवीद् द्रुह्युं गृहाणेमां जरां मम ॥ १४६.२९॥
द्रुह्युश्च नैच्छत् तां दत्तां जरां रूपविनाशिनीम् ।
अनुमप्यब्रवीद् राजा गृहाणेमां जरां मम ॥ १४६.३०॥