अध्याय 145, Verse 1
ब्रह्मोवाच ।
मार्कण्डेयं नाम तीर्थं सर्वपापविमोचनम् ।
सर्वक्रतुफलं पुण्यमघौघविनिवारणम् ॥ १४५.१॥
Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
मार्कण्डेयं नाम तीर्थं सर्वपापविमोचनम् ।
सर्वक्रतुफलं पुण्यमघौघविनिवारणम् ॥ १४५.१॥
तस्य प्रभावं वक्ष्यामि शृणु नारद यत्नतः ।
मार्कण्डेयो भरद्वाजो वसिष्ठोऽत्रिश्च गौतमः ॥ १४५.२॥
याज्ञवल्क्यश्च जाबालिर्मुनयोऽन्येऽपि नारद ।
एते शास्त्रप्रणेतारो वेदवेदाङ्गपारगाः ॥ १४५.३॥
पुराणन्यायमीमांसा+ ।
कथासु परिनिष्ठिताः ।
मिथः समूचुर्विद्वांसो मुक्तिं प्रति यथामति ॥ १४५.४॥
केचिज्ज्ञानं प्रशंसन्ति केचित् कर्म तथोभयम् ।
एवं विवदमानास्ते मामूचुरुभयं मतम् ॥ १४५.५॥
मदीयं तु मतं ज्ञात्वा ययुश्चक्रगदाधरम् ।
तस्य चापि मतं ज्ञात्वा ऋषयस्ते महौजसः ॥ १४५.६॥
पुनर्विवदमानास्ते शंकरं प्रष्टुमुद्यताः ।
गङ्गायां च भवं पूज्य तमेवार्थं शशंसिरे ॥ १४५.७॥
कर्मणस्तु प्रधानत्वमुवाच त्रिपुरान्तकः ।
क्रियारूपं च तज्ज्ञानं क्रिया सैव तद् उच्यते ॥ १४५.८॥
तस्मात् सर्वाणि भूतानि कर्मणा सिद्धिमाप्नुयुः ।
कर्मैव विश्वतोव्यापि तदृते नास्ति किंचन ॥ १४५.९॥
विद्याभ्यासो यज्ञकृतिर्योगाभ्यासः शिवार्चनम् ।
सर्वं कर्मैव नाकर्मी प्राणी क्वाप्यत्र विद्यते ॥ १४५.१०॥
कर्मैव कारणं तस्माद् अन्यद् उन्मत्तचेष्टितम् ।
ऋषीणां यत्र संवादो यत्र देवो महेश्वरः ॥ १४५.११॥
चकार निर्णयं सर्वं कर्मणावाप्यते नृभिः ।
मार्कण्डं मुख्यतः कृत्वा ततो मार्कण्डमुच्यते ॥ १४५.१२॥
तीर्थम् ऋषिगणाकीर्णं गङ्गाया उत्तरे तटे ।
पितृणां पावनं पुण्यं स्मरणाद् अपि सर्वदा ॥ १४५.१३॥
तत्राष्टौ नवतिस्तात तीर्थान्याह जगन्मयः ।
वेदेन चापि तत् प्रोक्तम् ऋषयो मेनिरे च तत् ॥ १४५.१४॥