अध्याय 144, Verse 1
ब्रह्मोवाच ।
परुष्णीसंगमं चेति तीर्थं त्रैलोक्यविश्रुतम् ।
तस्य स्वरूपं वक्ष्यामि शृणु पापविनाशनम् ॥ १४४.१॥
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
परुष्णीसंगमं चेति तीर्थं त्रैलोक्यविश्रुतम् ।
तस्य स्वरूपं वक्ष्यामि शृणु पापविनाशनम् ॥ १४४.१॥
अत्रिराराधयामास ब्रह्मविष्णुमहेश्वरान् ।
तेषु तुष्टेषु स प्राह पुत्रा यूयं भविष्यथ ॥ १४४.२॥
तथा चैका रूपवती कन्या मम भवेत् सुराः ।
तथा पुत्रत्वमापुस्ते ब्रह्मविष्णुमहेश्वराः ॥ १४४.३॥
कन्यां च जनयामास शुभात्रेयीति नामतः ।
दत्तः सोमोऽथ दुर्वासाः पुत्रास्तस्य महात्मनः ॥ १४४.४॥
अग्नेरङ्गिरसो जातो ह्यङ्गारैरङ्गिरा यतः ।
तस्माद् अङ्गिरसे प्रादाद् आत्रेयीमतिरोचिषम् ॥ १४४.५॥
अग्नेः प्रभावात् परुषमात्रेयीं सर्वदावदत् ।
आत्रेय्यपि च शुश्रूषां कुर्वती सर्वदाभवत् ॥ १४४.६॥
तस्यामाङ्गिरसा जाता महाबलपराक्रमाः ।
अङ्गिराः परुषं वादीद् आत्रेयीं नित्यमेव च ॥ १४४.७॥
पुत्रास्त्वाङ्गिरसा नित्यं पितरं शमयन्ति ते ।
सा कदाचिद् भर्तृवाक्याद् उद्विग्ना परुषाक्षरात् ।
कृताञ्जलिपुटा दीना प्राब्रवीच्छ्वशुरं गुरुम् ॥ १४४.८॥
आत्रेय्युवाच ।
अत्रिजाहं हव्यवाह भार्या तव सुतस्य वै ।
शुश्रूषणपरा नित्यं पुत्राणां भर्तुरेव च ॥ १४४.९॥
पतिर्मां परुषं वक्ति वृथैवोद्वीक्षते रुषा ।
प्रशाधि मां सुरज्येष्ठ भर्तारं मम दैवतम् ॥ १४४.१०॥
ज्वलन उवाच ।
अङ्गारेभ्यः समुद्भूतो भर्ता ते ह्यङ्गिरा ऋषिः ।
यथा शान्तो भवेद् भद्रे तथा नीतिर्विधीयताम् ॥ १४४.११॥
आग्नेयोऽग्निं समायातो तव भर्ता वरानने ।
तदा त्वं जलरूपेण प्लावयेथा मदाज्ञया ॥ १४४.१२॥
आत्रेय्युवाच ।
सहेयं परुषं वाक्यं मा भर्ताग्निं समाविशेत् ।
भर्तरि प्रतिकूलानां योषितां जीवनेन किम् ॥ १४४.१३॥
इच्छेयं शान्तिवाक्यानि भर्तारं लभते तथा ॥ १४४.१४॥
ज्वलन उवाच ।
अग्निस्त्वप्सु शरीरेषु स्थावरे जङ्गमे तथा ।
तव भर्तुरहं धाम नित्यं च जनको मतः ॥ १४४.१५॥
योऽहं सोऽहमिति ज्ञात्वा न चिन्तां कर्तुमर्हसि ।
किं चापो मातरो देव्यो ह्यग्निः श्वशुर इत्यपि ।
इति बुद्ध्या विनिश्चित्य मा विषण्णा भव स्नुषे ॥ १४४.१६॥
स्नुषोवाच ।
आपो जनन्य इति यद् बभाषे ।
अग्नेरहं तव पुत्रस्य भार्या ।
कथं भूत्वा जननी चापि भार्या ।
विरुद्धमेतज्जलरूपेण नाथ ॥ १४४.१७॥
ज्वलन उवाच ।
आदौ तु पत्नी भरणात् तु भार्या ।
जनेस्तु जाया स्वगुणैः कलत्रम् ।
इत्यादिरूपाणि बिभर्षि भद्रे ।
कुरुष्व वाक्यं मदुदीरितं यत् ॥ १४४.१८॥
योऽस्यां प्रजातः स तु पुत्र एव ।
सा तस्य मातैव न संशयोऽत्र ।
तस्माद् वदन्ति श्रुतितत्त्वविज्ञाः ।
सा नैव योषित् तनयेऽभिजाते ॥ १४४.१९॥
ब्रह्मोवाच ।
श्वशुरस्य तु तद् वाक्यं श्रुत्वात्रेयी तदैव तत् ।
आग्नेयं रूपमापन्नमम्भसाप्लावयत् पतिम् ॥ १४४.२०॥
उभौ तौ दम्पती ब्रह्मन् संगतौ गाङ्गवारिणा ।
शान्तरूपधरौ चोभौ दम्पती सम्बभूवतुः ॥ १४४.२१॥
लक्ष्म्या युक्तो यथा विष्णुरुमया शंकरो यथा ।
रोहिण्या च यथा चन्द्रस्तथाभून् मिथुनं तदा ॥ १४४.२२॥
भर्तारं प्लावयन्ती सा दधाराम्बुमयं वपुः ।
परुष्णी चेति विख्याता गङ्गया संगता नदी ॥ १४४.२३॥
गोशतार्पणजं पुण्यं परुष्णीस्नानतो भवेत् ।
तत्र चाङ्गिरसाश्चक्रुर्यज्ञांश्च बहुदक्षिणान् ॥ १४४.२४॥
तत्र त्रीणि सहस्राणि तीर्थान्याहुः पुराणगाः ।
उभयोस्तीरयोस्तात पृथग् यागफलं विदुः ॥ १४४.२५॥
तेषु स्नानं च दानं च वाजपेयाधिकं मतम् ।
विशेषतस्तु गङ्गायाः परुष्ण्या सह संगमे ॥ १४४.२६॥
स्नानदानादिभिः पुण्यं यत् तद् वक्तुं न शक्यते ॥ १४४.२७॥