अध्याय 143, Verse 1
ब्रह्मोवाच ।
सिद्धतीर्थमिति ख्यातं यत्र सिद्धेश्वरो हरः ।
तस्य प्रभावं वक्ष्यामि सर्वसिद्धिकरं नृणाम् ॥ १४३.१॥
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
सिद्धतीर्थमिति ख्यातं यत्र सिद्धेश्वरो हरः ।
तस्य प्रभावं वक्ष्यामि सर्वसिद्धिकरं नृणाम् ॥ १४३.१॥
पुलस्त्यवंशसम्भूतो रावणो लोकरावणः ।
दिशो विजित्य सर्वाश्च सोमलोकमजीगमत् ॥ १४३.२॥
सोमेन सह योत्स्यन्तं दशास्यमहमब्रवम् ।
मन्त्रं दास्ये निवर्तस्व सोमयुद्धाद् दशानन ॥ १४३.३॥
इत्युक्त्वाष्टोत्तरं मन्त्रं शतनामभिरन्वितम् ।
शिवस्य राक्षसेन्द्राय प्रादां नारद शान्तये ॥ १४३.४॥
निःश्रीकाणां विपन्नानां नानाक्लेशजुषां नृणाम् ।
शरणं शिव एवात्र संसारेऽन्यो न कश्चन ॥ १४३.५॥
ततो निवृत्तः स ह मन्त्रियुक्तस्- ।
तत् सोमलोकाज्जयमाप्य रक्षः ।
स पुष्पकारूढगतिः सगर्वो ।
लोकान् पुनः प्राप जवाद् दशास्यः ॥ १४३.६॥
स प्रेक्षमाणो देवमन्तरिक्षम् ।
भुवं च नागांश्च गजांश्च विप्रान् ।
आलोकयामास नगं महान्तम् ।
कैलासमावास उमापतेर्यः ॥ १४३.७॥
दृष्ट्वा स्मयोत्फुल्लदृग् अद्रिराजम् ।
स मन्त्रिणौ रावण इत्युवाच ॥ १४३.८॥
रावण उवाच ।
को वा गिरावत्र वसेन् महात्मा ।
गिरिं नयाम्येनमथाधि भूमेः ।
लङ्कागतोऽयं गिरिराशु शोभाम् ।
लङ्कापि सत्यं श्रियमातनोति ॥ १४३.९॥
ब्रह्मोवाच ।
इत्थं वचो राक्षसमन्त्रिणौ तौ ।
निशम्य रक्षोधिपतेश्च भावम् ।
न युक्तमित्यूचतुरिष्टबुद्ध्या ।
निशाचरस्तद्वचनं न मेने ॥ १४३.१०॥
संस्थाप्य तत् पुष्पकमाशु रक्षः ।
पुप्लाव कैलासगिरेश्च मूले ।
हिन्दोलयामास गिरिं दशास्यो ।
ज्ञात्वा भवः कृत्यमिदं चकार ॥ १४३.११॥
जित्वा दिगीशांश्च सगर्वितस्य ।
कैलासमान्दोलयतः सुरारेः ।
अङ्गुष्ठकृत्यैव रसातलादि+ ।
लोकांश्च यातस्य दशाननस्य ॥ १४३.१२॥
आलूनकायस्य गिरं निशम्य ।
विहस्य देव्या सह दत्तमिष्टम् ।
तस्मै प्रसन्नः कुपितोऽपि शम्भुर् ।
अयुक्तदातेति न संशयोऽत्र ॥ १४३.१३॥
ततोऽयमावाप्य वरान् सुवीरो ।
भवप्रसादात् कुसुमं जगाम ।
गच्छन् स लङ्कां भवपूजनाय ।
गङ्गामगाच्छम्भुजटाप्रसूताम् ॥ १४३.१४॥
सम्पूजयित्वा विविधैश्च मन्त्रैर् ।
गङ्गाजलैः शम्भुमदीनसत्त्वः ।
असिं स लेभे शशिखण्डभूषात् ।
सिद्धिं च सर्वर्द्धिमभीप्सितां च ॥ १४३.१५॥
मद्दत्तमन्त्रं शशिरक्षणाय ।
स साधयामास भवं प्रपूज्य ।
सिद्धे तु मन्त्रे पुनरेव लङ्काम् ।
अयात् स रक्षोधिपतिः स तुष्टः ॥ १४३.१६॥
ततः प्रभृत्येतद् अतिप्रभावम् ।
तीर्थं महासिद्धिदमिष्टदं च ।
समस्तपापौघविनाशनं च ।
सिद्धैरशेषैः परिसेवितं च ॥ १४३.१७॥