अध्याय 142, Verse 1
ब्रह्मोवाच ।
देवस्थानमिति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् ।
तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद ॥ १४२.१॥
Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
देवस्थानमिति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् ।
तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद ॥ १४२.१॥
पुरा कृतयुगस्यादौ देवदानवसंगरे ।
प्रवृत्ते वा सिंहिकेति विख्याता दैत्यसुन्दरी ॥ १४२.२॥
तस्याः पुत्रो महादैत्यो राहुर्नाम महाबलः ।
अमृते तु समुत्पन्ने सैंहिकेये च भेदिते ॥ १४२.३॥
तस्य पुत्रो महादैत्यो मेघहास इति श्रुतः ।
पितरं घातितं श्रुत्वा तपस्तेपेऽतिदुःखितः ॥ १४२.४॥
तपस्यन्तं राहुसुतं गौतमीतीरमाश्रितम् ।
देवाश्च ऋषयः सर्वे तमूचुरतिभीतवत् ॥ १४२.५॥
देवर्षय ऊचुः ।
तपो जहि महाबाहो यत् ते मनसि संस्थितम् ।
सर्वं भवतु नामेदं शिवगङ्गाप्रसादतः ।
शिवगङ्गाप्रसादेन किं नामास्त्यत्र दुर्लभम् ॥ १४२.६॥
मेघहास उवाच ।
परिभूतः पिता पूज्यो युष्माभिर्मम दैवतम् ।
तस्यापि मम चात्यन्तं प्रीतिश्च क्रियते यदि ॥ १४२.७॥
भवद्भिस्तपसोऽस्माच्च अहं वैरान् निवर्तये ।
वैरनिर्यातनं कार्यं पुत्रेण पितुरादरात् ।
प्रार्थयन्ते भवन्तश्चेत् पूर्णास्तन् मे मनोरथाः ॥ १४२.८॥
ब्रह्मोवाच ।
ततः सुरगणाः सर्वे राहुं चक्रुर्ग्रहानुगम् ।
तं चापि मेघहासं ते चक्रू राक्षसपुंगवम् ॥ १४२.९॥
ततोऽभवद् राहुसुतो नैरृताधिपतिः प्रभुः ।
पुनश्चाह सुरान् दैत्यो मम ख्यातिर्यथा भवेत् ॥ १४२.१०॥
तीर्थस्यास्य प्रभावश्च दातव्य इति मे मतिः ।
तथेत्युक्त्वा ददुर्देवाः सर्वमेव मनोगतम् ॥ १४२.११॥
दैत्येश्वरस्य देवर्षे तन्नाम्ना तीर्थमुच्यते ।
देवा यतोऽभवन् सर्वे तत्र स्थाने महामते ॥ १४२.१२॥
देवस्थानं तु तत् तीर्थं देवानामपि दुर्लभम् ।
यत्र देवेश्वरो देवो देवतीर्थं ततः स्मृतम् ॥ १४२.१३॥
तत्राष्टादश तीर्थानि दैत्यपूज्यानि नारद ।
तेषु स्नानं च दानं च महापातकनाशनम् ॥ १४२.१४॥