अध्याय 141, Verse 1
ब्रह्मोवाच ।
कपिलासंगमं नाम तीर्थं त्रैलोक्यविश्रुतम् ।
तत्र नारद वक्ष्यामि कथां पुण्यामनुत्तमाम् ॥ १४१.१॥
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
कपिलासंगमं नाम तीर्थं त्रैलोक्यविश्रुतम् ।
तत्र नारद वक्ष्यामि कथां पुण्यामनुत्तमाम् ॥ १४१.१॥
कपिलो नाम तत्त्वज्ञो मुनिरासीन् महायशाः ।
क्रूरश्चापि प्रसन्नश्च तपोव्रतपरायणः ॥ १४१.२॥
तपस्यन्तं मुनिश्रेष्ठं गौतमीतीरमाश्रितम् ।
तमागत्य महात्मानं वामदेवादयोऽब्रुवन् ॥ १४१.३॥
हत्वा वेनं ब्रह्मशापैर्नष्टधर्मे त्वराजके ।
कपिलं सिद्धमाचार्यमूचुर्मुनिगणास्तदा ॥ १४१.४॥
मुनिगणा ऊचुः ।
गते वेदे गते धर्मे किं कर्तव्यं मुनीश्वर ॥ १४१.५॥
ब्रह्मोवाच ।
ततोऽब्रवीन् मुनिर्ध्यात्वा कपिलस्त्वागतान् मुनीन् ॥ १४१.६॥
कपिल उवाच ।
वेनस्योरुर्विमथ्योऽभूत् ततः कश्चिद्
ब्रह्मोवाच ।
तथैव चक्रुर्मुनयो वेनस्योरुं विमथ्य वै ।
तत्रोत्पन्नो महापापः कृष्णो रौद्रपराक्रमः ॥ १४१.८॥
तं दृष्ट्वा मुनयो भीता निषीदस्वेति चाब्रुवन् ।
निषादः सोऽभवत् तस्मान् निषादाश्चाभवंस्ततः ॥ १४१.९॥
वेनबाहुं ममन्थुस्ते दक्षिणं धर्मसंहितम् ।
ततः पृथुस्वरश्चैव सर्वलक्षणलक्षितः ॥ १४१.१०॥
राजाभवत् पृथुः श्रीमान् ब्रह्मसामर्थ्यसंयुतः ।
तमागत्य सुराः सर्वे अभिनन्द्य वराञ् शुभान् ॥ १४१.११॥
तस्मै ददुस्तथास्त्राणि मन्त्राणि गुणवन्ति च ।
ततोऽब्रुवन् मुनिगणास्तं पृथुं कपिलेन च ॥ १४१.१२॥
मुनय ऊचुः ।
आहारं देहि जीवेभ्यो भुवा ग्रस्तौषधीरपि ॥ १४१.१३॥
ब्रह्मोवाच ।
ततः स धनुरादाय भुवमाह नृपोत्तमः ॥ १४१.१४॥
पृथुरुवाच ।
ओषधीर्देहि या ग्रस्ताः प्रजानां हितकाम्यया ॥ १४१.१५॥
ब्रह्मोवाच ।
तमुवाच मही भीता पृथुं तं
मह्युवाच ।
मयि जीर्णा महौषध्यः कथं दातुमहं क्षमा ॥ १४१.१७॥
ब्रह्मोवाच ।
ततः सकोपो नृपतिस्तामाह पृथिवीं पुनः ॥ १४१.१८॥
पृथुरुवाच ।
नो चेद् ददास्यद्य त्वां वै हत्वा दास्ये
भूमिरुवाच ।
कथं हंसि स्त्रियं राजञ् ज्ञानी भूत्वा नृपोत्तम ।
विना मया कथं चेमाः प्रजाः संधारयिष्यसि ॥ १४१.२०॥
पृथुरुवाच ।
यत्रोपकारोऽनेकानामेकनाशे भविष्यति ।
न दोषस्तत्र पृथिवि तपसा धारये प्रजाः ॥ १४१.२१॥
न दोषमत्र पश्यामि नाचक्षेऽनर्थकं वचः ।
यस्मिन् निपातिते सौख्यं बहूनामुपजायते ।
मुनयस्तद्वधं प्राहुरश्वमेधशताधिकम् ॥ १४१.२२॥
ब्रह्मोवाच ।
ततो देवाश्च ऋषयः सान्त्वयित्वा नृपोत्तमम् ।
महीं च मातरं देवीमूचुः सुरगणास्तदा ॥ १४१.२३॥
देवा ऊचुः ।
भूमे गोरूपिणी भूत्वा पयोरूपा महौषधीः ।
देहि त्वं पृथवे राज्ञे ततः प्रीतो भवेन् नृपः ।
प्रजासंरक्षणं च स्यात् ततः क्षेमं भविष्यति ॥ १४१.२४॥
ब्रह्मोवाच ।
ततो गोरूपमास्थाय भूम्यासीत् कपिलान्तिके ।
दुदोह च महौषध्यो राजा वेनकरोद्भवः ॥ १४१.२५॥
यत्र देवाः सगन्धर्वा ऋषयः कपिलो मुनिः ।
महीं गोरूपमापन्नां नर्मदायां महामुने ॥ १४१.२६॥
सरस्वत्यां भागीरथ्यां गोदावर्यां विशेषतः ।
महानदीषु सर्वासु दुदुहेऽसौ पयो महत् ॥ १४१.२७॥
सा दुह्यमाना पृथुना पुण्यतोयाभवन् नदी ।
गौतम्या संगता चाभूत् तद् अद्भुतमिवाभवत् ॥ १४१.२८॥
ततः प्रभृति तत् तीर्थं कपिलासंगमं विदुः ।
तत्राष्टाशीतिः पूज्यानि सहस्राणि महामते ॥ १४१.२९॥
तीर्थान्याहुर्मुनिगणाः स्मरणाद् अपि नारद ।
पावनानि जगत्यस्मिंस्तानि सर्वाण्यनुक्रमात् ॥ १४१.३०॥