अध्याय 140, Verse 1
ब्रह्मोवाच ।
आत्रेयमिति विख्यातमन्विन्द्रं तीर्थमुत्तमम् ।
तस्य प्रभावं वक्ष्यामि भ्रष्टराज्यप्रदायकम् ॥ १४०.१॥
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
आत्रेयमिति विख्यातमन्विन्द्रं तीर्थमुत्तमम् ।
तस्य प्रभावं वक्ष्यामि भ्रष्टराज्यप्रदायकम् ॥ १४०.१॥
गौतम्या उत्तरे तीर आत्रेयो भगवान् ऋषिः ।
अन्वारेभेऽथ सत्त्राणि ऋत्विग्भिर्मुनिभिर्वृतः ॥ १४०.२॥
तस्य होताभवत् त्वग्निर्हव्यवाहन एव च ।
एवं सत्त्रे तु सम्पूर्ण इष्टिं माहेश्वरीं पुनः ॥ १४०.३॥
कृत्वैश्वर्यमगाद् विप्रः सर्वत्र गतिमेव च ।
इन्द्रस्य भवनं रम्यं स्वर्गलोकं रसातलम् ॥ १४०.४॥
स्वेच्छया याति विप्रेन्द्रः प्रभावात् तपसः शुभात् ।
स कदाचिद् दिवं गत्वा इन्द्रलोकमगात् पुनः ॥ १४०.५॥
तत्रापश्यत् सहस्राक्षं सुरैः परिवृतं शुभैः ।
स्तूयमानं सिद्धसाध्यैः प्रेक्षन्तं नृत्यमुत्तमम् ।
शृण्वानं मधुरं गीतमप्सरोभिश्च वीजितम् ॥ १४०.६॥
उपोपविष्टैः सुरनायकैस्तैः ।
सम्पूज्यमानं महदासनस्थम् ।
जयन्तमङ्के विनिधाय सूनुम् ।
शच्या युतं प्राप्तरतिं महिष्ठम् ॥ १४०.७॥
सतां शरण्यं वरदं महेन्द्रम् ।
समीक्ष्य विप्राधिपतिर्महात्मा ।
विमोहितोऽसौ मुनिरिन्द्रलक्ष्म्या ।
समीहयामास तद् इन्द्रराज्यम् ॥ १४०.८॥
सम्पूजितो देवगणैर्यथावत् ।
स्वमाश्रमं वै पुनराजगाम ।
समीक्ष्य तां शक्रपुरीं सुरम्याम् ।
रत्नैर्युतां पुण्यगुणैः सुपूर्णाम् ॥ १४०.९॥
स्वमाश्रमं निष्प्रभहेमवर्ज्यम् ।
समीक्ष्य विप्रो विरमं जगाम ।
समीहमानः सुरराज्यमाशु ।
प्रियां तदोवाच महात्रिपुत्रः ॥ १४०.१०॥
आत्रेय उवाच ।
भोक्तुं न शक्तोऽस्मि फलानि मूलान्य् ।
अनुत्तमान्यप्यतिसंस्कृतानि ।
स्मृत्वामृतं पुण्यतमं च तत्र ।
भक्ष्यं च भोज्यं च वरासनानि ।
स्तुतिं च दानं च सभां शुभां च ।
अस्त्रं च वासांसि पुरीं वनानि ॥ १४०.११॥
ब्रह्मोवाच ।
ततो महात्मा तपसः प्रभावात् ।
त्वष्टारमाहूय वचो बभाषे ॥ १४०.१२॥
आत्रेय उवाच ।
इच्छेयमिन्द्रत्वमहं महात्मन् ।
कुरुष्व शीघ्रं पदमैन्द्रमत्र ।
ब्रूषेऽन्यथा चेन् मदुदीरितं त्वम् ।
भस्मीकरोम्येव न संशयोऽत्र ॥ १४०.१३॥
ब्रह्मोवाच ।
तदत्रिवाक्यात् त्वरितः प्रजानाम् ।
स्रष्टा विभुर्विश्वकर्मा तदैव ।
चकार मेरुं च पुरीं सुराणाम् ।
कल्पद्रुमान् कल्पलतां च धेनुम् ॥ १४०.१४॥
चकार वज्रादिविभूषितानि ।
गृहाणि शुभ्राण्यतिचित्रितानि ।
चकार सर्वावयवानवद्याम् ।
शचीं स्मरस्येव विहारशालाम् ॥ १४०.१५॥
सभां सुधर्माणमहो क्षणेन ।
तथा चकाराप्सरसो मनोज्ञाः ।
चकार चोच्चैःश्रवसं गजं च ।
वज्रादि चास्त्राणि सुरान् अशेषान् ॥ १४०.१६॥
निवार्यमाणः प्रिययात्रिपुत्रः ।
शचीसमामात्मवधूं चकार ।
तदात्रिपुत्रोऽत्रिमुखैः समेतो ।
वज्रादिरूपं च चकार चास्त्रम् ॥ १४०.१७॥
नृत्यादि गीतादि च सर्वमेव ।
चकार शक्रस्य पुरे च दृष्टम् ।
तत् सर्वमासाद्य तदा मुनीन्द्रः ।
प्रहृष्टचेताः सुतरां बभूव ॥ १४०.१८॥
आपातरम्येष्वपि कस्य नाम ।
भवत्यपेक्षा नहि गोचरेषु ।
श्रुत्वा च दैत्या दनुजाः समेता ।
रक्षांसि कोपेन युतानि सद्यः ॥ १४०.१९॥
स्वर्गं परित्यज्य कुतो हरिर्भुवम् ।
समागतो न्वेष मिथः सुखाय ।
तस्माद् वयं याम इतो नु योद्धुम् ।
वृत्रस्य हन्तारमदीर्घसत्त्रम् ॥ १४०.२०॥
ततः समागत्य तदात्रिपुत्रम् ।
संवेष्टयामासुरथासुरास्ते ।
संवेष्टयित्वा पुरमत्रिपुत्र+ ।
कृतं तथा चेन्द्रपुराभिधानम् ।
तैर्वध्यमानः शस्त्रपातैर्महद्भिस्- ।
ततो भीतो वाक्यमिदं जगाद ॥ १४०.२१॥
आत्रेय उवाच ।
यो जात एव प्रथमो मनस्वान् ।
देवो देवान् क्रतुना पर्यभूषत् ।
यस्य शुष्माद् रोदसी अभ्यसेताम् ।
नृम्णस्य मह्ना स जनास इन्द्रः ॥ १४०.२२॥
ब्रह्मोवाच ।
इत्यादिसूक्तेन रिपून् उवाच ।
हरिं च तुष्टाव तदात्रिपुत्रः ॥ १४०.२३॥
आत्रेय उवाच ।
नाहं हरिर्नैव शची मदीया ।
नेयं पुरी नैव वनं तद् ऐन्द्रम् ।
स एव चेन्द्रो वृत्रहन्ता स वज्री ।
सहस्राक्षो गोत्रभिद् वज्रबाहुः ॥ १४०.२४॥
अहं तु विप्रो वेदविद् ब्रह्मवृन्दैः ।
समाविष्टो गौतमीतीरसंस्थः ।
यत्रायत्यां नाद्य वा सौख्यहेतुस्- ।
तच्चाकार्षं कर्म दुर्दैवयोगात् ॥ १४०.२५॥
असुरा ऊचुः ।
संहरस्वेदमात्रेय यद् इन्द्रस्य विडम्बनम् ।
क्षेमस्ते भविता सत्यं नान्यथा मुनिसत्तम ॥ १४०.२६॥
ब्रह्मोवाच ।
तदात्रेयोऽब्रवीद् वाक्यं यथा वक्ष्यन्ति मामिह ।
करोम्येव महाभागाः सत्येनाग्निं समालभे ॥ १४०.२७॥
एवमुक्त्वा स दैतेयांस्त्वष्टारं पुनरब्रवीत् ॥ १४०.२८॥
आत्रेय उवाच ।
यत् कृतं त्वत्र मत्प्रीत्यै ऐन्द्रं संहरस्व पुनः शीघ्रं रक्ष मां ब्राह्मणं मुनिम् ॥ १४०.२९॥
पुनर्देहि पदं मह्यमाश्रमं मृगपक्षिणः ।
वृक्षांश्च वारि यत्रासीन् न मे दिव्यैः प्रयोजनम् ।
सर्वमक्रममायातं न सुखाय मनीषिणाम् ॥ १४०.३०॥