अध्याय 14, Verse 1
लोमहर्षण उवाच ।
गान्धारी चैव माद्री च क्रोष्टोर्भार्ये बभूवतुः ।
गान्धारी जनयामास अनमित्रं महाबलम् ॥ १४.१॥
Containing 57 sacred Sanskrit shlokas with multi-author commentaries and translations.
लोमहर्षण उवाच ।
गान्धारी चैव माद्री च क्रोष्टोर्भार्ये बभूवतुः ।
गान्धारी जनयामास अनमित्रं महाबलम् ॥ १४.१॥
माद्री युधाजितं पुत्रं ततोऽन्यं देवमीढुषम् ।
तेषां वंशस्त्रिधा भूतो वृष्णीनां कुलवर्धनः ॥ १४.२॥
माद्र्याः पुत्रौ तु जज्ञाते श्रुतौ वृष्ण्यन्धकावुभौ ।
जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकस्तथा ॥ १४.३॥
श्वफल्कस्तु मुनिश्रेष्ठा धर्मात्मा यत्र वर्तते ।
नास्ति व्याधिभयं तत्र नावर्षस्तपमेव च ॥ १४.४॥
कदाचित् काशिराजस्य विषये मुनिसत्तमाः ।
त्रीणि वर्षाणि पूर्णानि नावर्षत् पाकशासनः ॥ १४.५॥
स तत्र चानयामास श्वफल्कं परमार्चितम् ।
श्वफल्कपरिवर्तेन ववर्ष हरिवाहनः ॥ १४.६॥
श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत ।
गान्दिनीं नाम गां सा च ददौ विप्राय नित्यशः ॥ १४.७॥
दाता यज्वा च वीरश्च श्रुतवान् अतिथिप्रियः ।
अक्रूरः सुषुवे तस्माच्छ्वफल्काद् भूरिदक्षिणः ॥ १४.८॥
उपमद्गुस्तथा मद्गुर्मेदुरश्चारिमेजयः ।
अविक्षितस्तथाक्षेपः शत्रुघ्नश्चारिमर्दनः ॥ १४.९॥
धर्मधृग् यतिधर्मा च धर्मोक्षान्धकरुस्तथा ।
आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना ॥ १४.१०॥
अक्रूरेणोग्रसेनायां सुगात्र्यां द्विजसत्तमाः ।
प्रसेनश्चोपदेवश्च जज्ञाते देववर्चसौ ॥ १४.११॥
चित्रकस्याभवन् पुत्राः पृथुर्विपृथुरेव च ।
अश्वग्रीवोऽश्वबाहुश्च स्वपार्श्वकगवेषणौ ॥ १४.१२॥
अरिष्टनेमिरश्वश्च सुधर्मा धर्मभृत् तथा ।
सुबाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ ॥ १४.१३॥
असिक्न्यां जनयामास शूरं वै देवमीढुषम् ।
महिष्यां जज्ञिरे शूरा भोज्यायां पुरुषा दश ॥ १४.१४॥
वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः ।
जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्राणदन् दिवि ॥ १४.१५॥
आनकानां च संह्रादः सुमहान् अभवद् दिवि ।
पपात पुष्पवर्षश्च शूरस्य जनने महान् ॥ १४.१६॥
मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि ।
यस्यासीत् पुरुषाग्र्यस्य कान्तिश्चन्द्रमसो यथा ॥ १४.१७॥
देवभागस्ततो जज्ञे तथा देवश्रवाः पुनः ।
अनाधृष्टिः कनवको वत्सवान् अथ गृञ्जमः ॥ १४.१८॥
श्यामः शमीको गण्डूषः पञ्च चास्य वराङ्गनाः ।
पृथुकीर्तिः पृथा चैव श्रुतदेवा श्रुतश्रवा ॥ १४.१९॥
राजाधिदेवी च तथा पञ्चैता वीरमातरः ।
श्रुतश्रवायां चैद्यस्तु शिशुपालोऽभवन् नृपः ॥ १४.२०॥
हिरण्यकशिपुर्योऽसौ दैत्यराजोऽभवत् पुरा ।
पृथुकीर्त्यां तु संजज्ञे तनयो वृद्धशर्मणः ॥ १४.२१॥
करूषाधिपतिर्वीरो दन्तवक्रो महाबलः ।
पृथां दुहितरं चक्रे कुन्तिस्तां पाण्डुरावहत् ॥ १४.२२॥
यस्यां स धर्मविद् राजा धर्मो जज्ञे युधिष्ठिरः ।
भीमसेनस्तथा वाताद् इन्द्राच्चैव धनंजयः ॥ १४.२३॥
लोके प्रतिरथो वीरः शक्रतुल्यपराक्रमः ।
अनमित्राच्छनिर्जज्ञे कनिष्ठाद् वृष्णिनन्दनात् ॥ १४.२४॥
शैनेयः सत्यकस्तस्माद् युयुधानश्च सात्यकिः ।
उद्धवो देवभागस्य महाभागः सुतोऽभवत् ॥ १४.२५॥
पण्डितानां परं प्राहुर्देवश्रवसमुत्तमम् ।
अश्मक्यं प्राप्तवान् पुत्रमनाधृष्टिर्यशस्विनम् ॥ १४.२६॥
निवृत्तशत्रुं शत्रुघ्नं श्रुतदेवा त्वजायत ।
श्रुतदेवात्मजास्ते तु नैषादिर्यः परिश्रुतः ॥ १४.२७॥
एकलव्यो मुनिश्रेष्ठा निषादैः परिवर्धितः ।
वत्सवते त्वपुत्राय वसुदेवः प्रतापवान् ।
अद्भिर्ददौ सुतं वीरं शौरिः कौशिकमौरसम् ॥ १४.२८॥
गण्डूषाय ह्यपुत्राय विष्वक्सेनो ददौ सुतान् ।
चारुदेष्णं सुदेष्णं च पञ्चालं कृतलक्षणम् ॥ १४.२९॥
असंग्रामेण यो वीरो नावर्तत कदाचन ।
रौक्मिणेयो महाबाहुः कनीयान् द्विजसत्तमाः ॥ १४.३०॥