अध्याय 139, Verse 1
ब्रह्मोवाच ।
खड्गतीर्थमिति ख्यातं गौतम्या उत्तरे तटे ।
तत्र स्नानेन दानेन मुक्तिभागी भवेन् नरः ॥ १३९.१॥
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
खड्गतीर्थमिति ख्यातं गौतम्या उत्तरे तटे ।
तत्र स्नानेन दानेन मुक्तिभागी भवेन् नरः ॥ १३९.१॥
तत्र वृत्तं प्रवक्ष्यामि शृणु नारद यत्नतः ।
पैलूष इति विख्यातः कवषस्य सुतो द्विजः ॥ १३९.२॥
कुटुम्बभारात् परितो ह्यर्थार्थी परिधावति ।
न किमप्याससादासौ ततो वैराग्यमास्थितः ॥ १३९.३॥
अत्यन्तविमुखे दैवे व्यर्थीभूते तु पौरुषे ।
न वैराग्याद् अन्यद् अस्ति पण्डितस्यावलम्बनम् ॥ १३९.४॥
इति संचिन्तयामास तदासौ निःश्वसन् मुहुः ।
क्रमागतं धनं नास्ति पोष्याश्च बहवो मम ॥ १३९.५॥
मानी चात्मा न कष्टार्हो हा धिग् दुर्दैवचेष्टितम् ।
स कदाचिद् वृत्तियुतो वृत्तिभिः परिवर्तयन् ॥ १३९.६॥
न लेभे तद् धनं वृत्तेर्विरागमगमत् तदा ।
सेवा निषिद्धा या काचिद् गहना दुष्करं तपः ॥ १३९.७॥
बलाद् आकर्षतीयं मां तृष्णा सर्वत्र दुष्कृते ।
त्वयापकृतमज्ञानात् तस्मात् तृष्णे नमोऽस्तु ते ॥ १३९.८॥
एवं विचिन्त्य मेधावी तृष्णाछेदाय किं भवेत् ।
इत्यालोच्य स पैलूषः पितरं वाक्यमब्रवीत् ॥ १३९.९॥
पैलूष उवाच ।
ज्ञानासिना क्रोधलोभौ संसृतिं चातिदुस्तराम् ।
छेद्मीमां केन हे तात तमुपायं वद प्रभो ॥ १३९.१०॥
कवष उवाच ।
ईश्वराज्ज्ञानमन्विच्छेद् इत्येषा वैदिकी श्रुतिः ।
तस्माद् आराधयेशानं ततो ज्ञानमवाप्स्यसि ॥ १३९.११॥
ब्रह्मोवाच ।
तथेत्युक्त्वा स पैलूषो ज्ञानायेश्वरमार्चयत् ।
ततस्तुष्टो महेशानो ज्ञानं प्रादाद् द्विजातये ।
प्राप्तज्ञानो महाबुद्धिर्गाथाः प्रोवाच मुक्तिदाः ॥ १३९.१२॥
पैलूष उवाच ।
क्रोधस्तु प्रथमं शत्रुर्निष्फलो देहनाशनः ।
ज्ञानखड्गेन तं छित्त्वा परमं सुखमाप्नुयात् ॥ १३९.१३॥
तृष्णा बहुविधा माया बन्धनी पापकारिणी ।
छित्त्वैतां ज्ञानखड्गेन सुखं तिष्ठति मानवः ॥ १३९.१४॥
सङ्गस्तु परमोऽधर्मो देवादीनामिति श्रुतिः ।
असङ्गस्यात्मनो ह्यस्य सङ्गोऽयं परमो रिपुः ॥ १३९.१५॥
छित्त्वैनं ज्ञानखड्गेन शिवैकत्वमवाप्नुयात् ।
संशयः परमो नाशो धर्मार्थानां विनाशकृत् ॥ १३९.१६॥
छित्त्वैनं संशयं जन्तुः परमेप्सितमाप्नुयात् ।
पिशाचीव विशत्याशा निर्दहत्यखिलं सुखम् ।
पूर्णाहन्तासिना छित्त्वा जीवन् मुक्तिमवाप्नुयात् ॥ १३९.१७॥
ब्रह्मोवाच ।
ततो ज्ञानमवाप्यासौ गङ्गातीरं समाश्रितः ।
ज्ञानखड्गेन निर्मोहस्ततो मुक्तिमवाप सः ॥ १३९.१८॥
ततः प्रभृति तत् तीर्थं खड्गतीर्थमिति स्मृतम् ।
ज्ञानतीर्थं च कवषं पैलूषं सर्वकामदम् ॥ १३९.१९॥
इत्यादिषट्सहस्राणि तीर्थान्याहुर्महर्षयः ।
अशेषपापतापौघ+ अराणीष्टप्रदानि च ॥ १३९.२०॥