अध्याय 138, Verse 1
ब्रह्मोवाच ।
भानुतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् ।
तत्रेदं वृत्तमाख्यास्ये महापातकनाशनम् ॥ १३८.१॥
Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
भानुतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् ।
तत्रेदं वृत्तमाख्यास्ये महापातकनाशनम् ॥ १३८.१॥
शर्यातिरिति विख्यातो राजा परमधार्मिकः ।
तस्य भार्या स्थविष्ठेति रूपेणाप्रतिमा भुवि ॥ १३८.२॥
मधुच्छन्दा इति ख्यातो वैश्वामित्रो द्विजोत्तमः ।
पुरोधास्तस्य नृपतेर्ब्रह्मर्षिः शमिनां प्रभुः ॥ १३८.३॥
दिशो विजेतुं स जगाम राजा ।
पुरोधसा तेन नृपप्रवीरः ।
पुरोधसं प्राह महानुभावम् ।
जित्वा दिशश्चाध्वनि संनिविष्टः ॥ १३८.४॥
पप्रच्छेदं केन खेदं गतोऽसि ।
हेतुं वदस्वेति महानुभाव ।
त्वमेव राज्ये मम सर्वमान्यः ।
समस्तविद्यानिरवद्यबोधः ॥ १३८.५॥
विधूतपापः परितापशून्यः ।
किमन्यचेता इव लक्ष्यसे त्वम् ।
जितेयमुर्वी विजिता नरेन्द्रा ।
हर्षस्य हेतौ महतीह जाते ॥ १३८.६॥
किं त्वं कृशो मे वद सत्यमेव ।
द्विजातिवर्यातिमहानुभाव ।
सम्बोध्य शर्यातिमुवाच विप्रश् ।
छन्दोमधुः प्रेममयीं प्रियोक्तिम् ॥ १३८.७॥
मधुच्छन्दा उवाच ।
शृणु भूपाल मद्वाक्यं भार्यया यद् उदीरितम् ।
स्थिते यामे वयं यामो यामिनी चार्धगामिनी ॥ १३८.८॥
स्वामिनी चास्य देहस्य कामिनी मां प्रतीक्षते ।
स्मृत्वा तत् कामिनीवाक्यं शोषं याति कलेवरम् ।
विकारे स्मरसंजाते जीवातुर्नलिनानना ॥ १३८.९॥
ब्रह्मोवाच ।
विहस्य चाब्रवीद् राजा पुरोधसमरिंदमः ॥ १३८.१०॥
राजोवाच ।
त्वं गुरुर्मम मित्रं च किमात्मानं विडम्बसे ।
किमनेन महाप्राज्ञ मम वाक्येन मानद ।
क्षणविध्वंसिनि सुखे का नामास्था महात्मनाम् ॥ १३८.११॥
ब्रह्मोवाच ।
एतद् आकर्ण्य मतिमान् मधुच्छन्दा वचोऽब्रवीत् ॥ १३८.१२॥
मधुच्छन्दा उवाच ।
यत्रानुकूल्यं दम्पत्योस्त्रिवर्गस्तत्र वर्धते ।
न चेदं दूषणं राजन् भूषणं चातिमन्यताम् ॥ १३८.१३॥
ब्रह्मोवाच ।
आजगाम स्वकं देशं महत्या सेनया वृतः ।
परीक्षार्थं च तत्प्रेम पुर्यां वार्त्तामदीदिशत् ॥ १३८.१४॥
दिशो विजेतुं शर्यातौ याते राक्षसपुंगवः ।
हत्वा रसातलं यातो राजानं सपुरोधसम् ॥ १३८.१५॥
राज्ञो भार्या निश्चयाय प्रवृत्ता मुनिसत्तम ।
वार्त्तां श्रुत्वा दूतमुखान् मधुच्छन्दःप्रिया पुनः ॥ १३८.१६॥
तदैवाभूद् गतप्राणा तद् विचित्रमिवाभवत् ।
तस्या वृत्तं तु ते दृष्ट्वा दूता राज्ञे न्यवेदयन् ॥ १३८.१७॥
यत् कृतं राजपत्नीभिः प्रियया च पुरोधसः ।
विस्मितो दुःखितो राजा पुनर्दूतान् अभाषत ॥ १३८.१८॥
राजोवाच ।
शीघ्रं गच्छन्तु हे दूता ब्राह्मण्या यत् कलेवरम् ।
रक्षन्तु वार्त्तां कुरुत राजागन्ता पुरोधसा ॥ १३८.१९॥
ब्रह्मोवाच ।
इति चिन्तातुरे राज्ञि वाग् उवाचाशरीरिणी ॥ १३८.२०॥
आकाशवाग् उवाच ।
विधास्यत्यखिलं गङ्गा राजंस्तव समीहितम् ।
सर्वाभिषङ्गशमनी पावनी भुवि गौतमी ॥ १३८.२१॥
ब्रह्मोवाच ।
एतच्छ्रुत्वा स शर्यातिर्गौतमीतटमाश्रितः ।
ब्राह्मणेभ्यो धनं दत्त्वा तर्पयित्वा पितृन् द्विजान् ॥ १३८.२२॥
पुरोहितं द्विजश्रेष्ठं प्रेषयित्वा धनान्वितम् ।
अन्यत्र तीर्थे सार्थेषु दानं देहि प्रयत्नतः ॥ १३८.२३॥
एतत् सर्वं न जानाति राज्ञः कृत्यं पुरोहितः ।
गते तस्मिन् गुरौ राजा वैश्वामित्रे महात्मनि ॥ १३८.२४॥
सर्वं बलं प्रेषयित्वा गङ्गातीरेऽग्निमाविशत् ।
इत्युक्त्वा स तु राजेन्द्रो गङ्गां भानुं सुरान् अपि ॥ १३८.२५॥
यदि दत्तं यदि हुतं यदि त्राता प्रजा मया ।
तेन सत्येन सा साध्वी ममायुष्येण जीवतु ॥ १३८.२६॥
इत्युक्त्वाग्नौ प्रविष्टे तु शर्यातौ नृपसत्तमे ।
तदैव जीविता भार्या राज्ञस्तस्य पुरोधसः ॥ १३८.२७॥
अग्निप्रविष्टं राजानं श्रुत्वा विस्मयकारणम् ।
पतिव्रतां तथा भार्यां मृतां जीवान्वितां पुनः ॥ १३८.२८॥
तदर्थं चापि राजानं त्यक्तात्मानं विशेषतः ।
आत्मनश्च पुनः कृत्यमस्मरन् नृपतेर्गुरुः ॥ १३८.२९॥
अहमप्यग्निमावेक्ष्य उत यास्ये प्रियान्तिकम् ।
अथवेह तपस्तप्स्ये ततो निश्चयवान् द्विजः ॥ १३८.३०॥