अध्याय 137, Verse 1
ब्रह्मोवाच ।
लक्ष्मीतीर्थमिति ख्यातं साक्षाल्लक्ष्मीविवर्धनम् ।
अलक्ष्मीनाशनं पुण्यमाख्यानं शृणु नारद ॥ १३७.१॥
Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
लक्ष्मीतीर्थमिति ख्यातं साक्षाल्लक्ष्मीविवर्धनम् ।
अलक्ष्मीनाशनं पुण्यमाख्यानं शृणु नारद ॥ १३७.१॥
संवादश्च पुरा त्वासील्लक्ष्म्याः पुत्र दरिद्रया ।
परस्परविरोधिन्यावुभे विश्वं समीयतुः ॥ १३७.२॥
ताभ्यामव्यापृतं वस्तु तन् नास्ति भुवनत्रये ।
मम ज्यैष्ठ्यं मम ज्यैष्ठ्यमित्यूचतुरुभे मिथः ।
अहं पूर्वं समुद्भूता इत्याह श्रियमोजसा ॥ १३७.३॥
श्रीलक्ष्मीरुवाच ।
कुलं शीलं जीवितं वा देहिनामहमेव तु ।
मया विना देहभाजो जीवन्तोऽपि मृता इव ॥ १३७.४॥
ब्रह्मोवाच ।
दरिद्रया च सा प्रोक्ता सर्वेभ्यो ह्यधिका ह्यहम् ।
मुक्तिर्मदाश्रिता नित्यं दरिद्रैवं वचोऽब्रवीत् ॥ १३७.५॥
कामः क्रोधश्च लोभश्च मदो मात्सर्यमेव च ।
यत्राहमस्मि तत्रैते न तिष्ठन्ति कदाचन ॥ १३७.६॥
न भयोद्भूतिरुन्माद ईर्ष्या उद्धतवृत्तिता ।
यत्राहमस्मि तत्रैते न तिष्ठन्ति कदाचन ॥ १३७.७॥
दरिद्राया वचः श्रुत्वा लक्ष्मीस्तां प्रत्यभाषत ॥ १३७.८॥
लक्ष्मीरुवाच ।
अलंकृतो मया जन्तुः सर्वो भवति पूजितः ।
निर्धनः शिवतुल्योऽपि सर्वैरप्यभिभूयते ॥ १३७.९॥
देहीति वचनद्वारा देहस्थाः पञ्च देवताः ।
सद्यो निर्गत्य गच्छन्ति धीश्रीह्रीशान्तिकीर्तयः ॥ १३७.१०॥
तावद् गुणा गुरुत्वं च यावन् नार्थयते परम् ।
अर्थी चेत् पुरुषो जातः क्व गुणाः क्व च गौरवम् ॥ १३७.११॥
तावत् सर्वोत्तमो जन्तुस्तावत् सर्वगुणालयः ।
नमस्यः सर्वलोकानां यावन् नार्थयते परम् ॥ १३७.१२॥
कष्टमेतन् महापापं निर्धनत्वं शरीरिणाम् ।
न मानयति नो वक्ति न स्पृशत्यधनं जनः ॥ १३७.१३॥
अहमेव ततः श्रेष्ठा दरिद्रे शृणु मे वचः ॥ १३७.१४॥
ब्रह्मोवाच ।
तल्लक्ष्मीवचनं श्रुत्वा दरिद्रा वाक्यमब्रवीत् ॥ १३७.१५॥
दरिद्रोवाच ।
वक्तुं न लक्ष्मीर्ज्येष्ठाहमिति वै लज्जसे मुहुः ।
पापेषु रमसे नित्यं विहाय पुरुषोत्तमम् ॥ १३७.१६॥
विश्वस्तवञ्चका नित्यं भवती श्लाघसे कथम् ।
सुखं न तादृक् त्वत्प्राप्तौ पश्चात्तापो यथा गुरुः ॥ १३७.१७॥
न तथा जायते पुंसां सुरया दारुणो मदः ।
त्वत्संनिधानमात्रेण यथा वै विदुषामपि ॥ १३७.१८॥
सदैव रमसे लक्ष्मीः प्रायस्त्वं पापकारिषु ।
अहं वसामि योग्येषु धर्मशीलेषु सर्वदा ॥ १३७.१९॥
शिवविष्ण्वनुरक्तेषु कृतज्ञेषु महत्सु च ।
सदाचारेषु शान्तेषु गुरुसेवोद्यतेषु च ॥ १३७.२०॥
सत्सु विद्वत्सु शूरेषु कृतबुद्धिषु साधुषु ।
निवसामि सदा लक्ष्मीस्तस्माज्ज्यैष्ठ्यं मयि स्थितम् ॥ १३७.२१॥
ब्राह्मणेषु शुचिष्मत्सु व्रतचारिषु भिक्षुषु ।
निर्भयेषु वसिष्यामि लक्ष्मीस्त्वं शृणु ते स्थितिम् ॥ १३७.२२॥
राजवर्तिषु पापेषु निष्ठुरेषु खलेषु च ।
पिशुनेषु च लुब्धेषु विकृतेषु शठेषु च ॥ १३७.२३॥
अनार्येषु कृतघ्नेषु धर्मघातिषु सर्वदा ।
मित्रद्रोहिष्वनिष्टेषु भग्नचित्तेषु वर्तसे ॥ १३७.२४॥
ब्रह्मोवाच ।
एवं विवदमाने ते जग्मतुर्मामुभे अपि ।
तयोर्वाक्यमुपश्रुत्य मयोक्ते ते उभे अपि ॥ १३७.२५॥
मत्तः पूर्वतरा पृथ्वी आपः पूर्वतरास्ततः ।
स्त्रीणां विवादं ता एव स्त्रियो जानन्ति नेतरे ॥ १३७.२६॥
विशेषतः पुनस्ताभ्यः कमण्डलुभवाश्च याः ।
तत्रापि गौतमी देवी निश्चयं कथयिष्यति ॥ १३७.२७॥
सैव सर्वार्तिसंहर्त्री सैव संदेहकर्तरी ।
ते मद्वाक्याद् भुवं गत्वा भूम्या च सहिते अपि ॥ १३७.२८॥
अद्भिश्च सहिताः सर्वा गौतमीं ययुरापगाम् ।
भूमिरापस्तयोर्वाक्यं गौतम्यै क्रमशः स्फुटम् ॥ १३७.२९॥
सर्वं निवेदयामासुर्यथावृत्तं प्रणम्य ताम् ।
दरिद्रायाश्च लक्ष्म्याश्च वाक्यं मध्यस्थवत् तदा ॥ १३७.३०॥