अध्याय 136, Verse 1
ब्रह्मोवाच ।
विष्णुतीर्थमिति ख्यातं तत्र वृत्तमिदं शृणु ।
मौद्गल्य इति विख्यातो मुद्गलस्य सुतो ऋषिः ॥ १३६.१॥
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
विष्णुतीर्थमिति ख्यातं तत्र वृत्तमिदं शृणु ।
मौद्गल्य इति विख्यातो मुद्गलस्य सुतो ऋषिः ॥ १३६.१॥
तस्य भार्या तु जाबाला नाम्ना ख्याता सुपुत्रिणी ।
पिता ऋषिस्तथा वृद्धो मुद्गलो लोकविश्रुतः ॥ १३६.२॥
तस्य भार्या तथा ख्याता नाम्ना भागीरथी शुभा ।
स मौद्गल्यः प्रातरेव गङ्गां स्नाति यतव्रतः ॥ १३६.३॥
नित्यमेव त्विदं कर्म तस्यासीन् मुनिसत्तम ।
गङ्गातीरे कुशैर्मृद्भिः शमीपुष्पैरहर्निशम् ॥ १३६.४॥
गुरूदितेन मार्गेण स्वमानससरोरुहे ।
आवाहनं नित्यमेव विष्णोश्चक्रे स मौद्गलिः ॥ १३६.५॥
तेनाहूतस्त्वरन्न् एति लक्ष्मीभर्ता जगत्पतिः ।
वैनतेयमथारुह्य शङ्खचक्रगदाधरः ॥ १३६.६॥
पूजितस्तेन ऋषिणा स मौद्गल्येन यत्नतः ।
प्रब्रूते च कथाश्चित्रा मौद्गल्याय जगत्प्रभुः ॥ १३६.७॥
ततोऽपराह्णसमये विष्णुः प्राह स मौद्गलिम् ।
याहि वत्स स्वभवनं श्रान्तोऽसीति पुनः पुनः ॥ १३६.८॥
एवमुक्तः स देवेन विष्णुना याति स द्विजः ।
जगत्प्रभुस्ततो याति देवैर्युक्तः स्वमन्दिरम् ॥ १३६.९॥
मौद्गल्योऽपि तथाभ्येत्य किंचिद् आदाय नित्यशः ।
स्वमेव भवनं विद्वान् भार्यायै स्वार्जितं धनम् ॥ १३६.१०॥
ददाति स महाविष्णु+ ॅहरणाब्जपरायणः ।
मौद्गल्यस्य प्रिया सापि पतिव्रतपरायणा ॥ १३६.११॥
शाकं मूलं फलं वापि भर्त्रानीतं तु यत्नतः ।
सुसंस्कृत्याप्यतिथीनां बालानां भर्तुरेव च ॥ १३६.१२॥
दत्त्वा तु भोजनं तेभ्यः पश्चाद् भुङ्क्ते यतव्रता ।
भुक्तवत्स्वथ सर्वेषु रात्रौ नित्यं स मौद्गलिः ॥ १३६.१३॥
विष्णोः श्रुताः कथाश्चित्रास्तेभ्यो वक्त्यथ हर्षितः ।
एवं बहुतिथे काले व्यतीते चातिविस्मिता ।
मौद्गल्यस्य रहो भार्या भर्तारं वाक्यमब्रवीत् ॥ १३६.१४॥
जाबालोवाच ।
यदि ते विष्णुरभ्येति समीपं त्रिदशार्चितः ।
तथापि कष्टमस्माकं कस्माद् इति जगत्प्रभुम् ॥ १३६.१५॥
तत् पृच्छ त्वं महाप्राज्ञ यदासौ विष्णुरेति च ।
यस्मिंश्च स्मृतमात्रे तु जराजन्मरुजो मृतिः ।
नाशं यान्ति कुतो दृष्टे तस्मात् पृच्छ जगत्पतिम् ॥ १३६.१६॥
ब्रह्मोवाच ।
तथेत्युक्त्वा प्रियावाक्यान् मौद्गल्यो नित्यवद् धरिम् ।
पूजयित्वा विनीतश्च पप्रच्छ स कृताञ्जलिः ॥ १३६.१७॥
मौद्गल्य उवाच ।
त्वयि स्मृते जगन्नाथ शोकदारिद्र्यदुष्कृतम् ।
नाशं याति विपत्तिर्मे त्वयि दृष्टे कथं स्थिता ॥ १३६.१८॥
श्रीविष्णुरुवाच ।
स्वकृतं भुज्यते भूतैः सर्वैः सर्वत्र सर्वदा ।
न कोऽपि कस्यचित् किंचित् करोत्यत्र हिताहिते ॥ १३६.१९॥
यादृशं चोप्यते बीजं फलं भवति तादृशम् ।
रसालः स्यान् न निम्बस्य बीजाज्जात्वपि कुत्रचित् ॥ १३६.२०॥
न कृता गौतमीसेवा नार्चितौ हरिशंकरौ ।
न दत्तं यैश्च विप्रेभ्यस्ते कथं भाजनं श्रियः ॥ १३६.२१॥
त्वया न दत्तं किंचिच्च ब्राह्मणेभ्यो ममापि च ।
यद् दीयते तद् एवेह परस्मिंश्चोपतिष्ठति ॥ १३६.२२॥
मृद्भिर्वार्भिः कुशैर्मन्त्रैः शुचिकर्म सदैव यत् ।
करोति तस्मात् पूतात्मा शरीरस्य च शोषणात् ॥ १३६.२३॥
विना दानेन न क्वापि भोगावाप्तिर्नृणां भवेत् ।
सत्कर्माचरणाच्छुद्धो विरक्तः स्यात् ततो नरः ॥ १३६.२४॥
ततोऽप्रतिहतज्ञानो जीवन्मुक्तस्ततो भवेत् ।
सर्वेषां सुलभा मुक्तिर्मद्भक्त्या चेह पूर्ततः ॥ १३६.२५॥
भुक्तिर्दानादिना सर्व+ ।
भूतदुःखनिबर्हणात् ।
अथवा लप्स्यसे मुक्तिं भक्त्या भुक्तिं न लप्स्यसे ॥ १३६.२६॥
मौद्गल्य उवाच ।
भक्त्या मुक्तिः कथं भूयाद् भुक्तेर्मुक्तिः सुदुर्लभा ।
जाता चेद् देहिनां मुक्तिः किमन्येन प्रयोजनम् ॥ १३६.२७॥
भक्त्या मुक्तिः सर्वपूज्या तामिच्छेयं जगन्मय ॥ १३६.२८॥
विष्णुरुवाच ।
एतद् एवान्तरं ब्रह्मन् दीयते मामनुस्मरन् ।
ब्राह्मणायाथवार्थिभ्यस्तद् एवाक्षयतां व्रजेत् ॥ १३६.२९॥
मामध्यात्वाथ यद् दद्यात् तत् तन्मात्रफलप्रदम् ।
तत् पुनर्दत्तमेवेह न भोगायात्र कल्पते ॥ १३६.३०॥