अध्याय 135, Verse 1
ब्रह्मोवाच ।
वाणीसंगममाख्यातं यत्र वागीश्वरो हरः ।
तत् तीर्थं सर्वपापानां मोचनं सर्वकामदम् ॥ १३५.१॥
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
वाणीसंगममाख्यातं यत्र वागीश्वरो हरः ।
तत् तीर्थं सर्वपापानां मोचनं सर्वकामदम् ॥ १३५.१॥
तत्र स्नानेन दानेन ब्रह्महत्यादिनाशनम् ।
ब्रह्मविष्ण्वोश्च संवादे महत्त्वे च परस्परम् ॥ १३५.२॥
तयोर्मध्ये महादेवो ज्योतिर्मूर्तिरभूत् किल ।
तत्रैव वाग् उवाचेदं दैवी पुत्र तयोः शुभा ॥ १३५.३॥
अहमस्मि महांस्तत्र अहमस्मीति वै मिथः ।
दैवी वाक् तावुभौ प्राह यस्त्वस्यान्तं तु पश्यति ॥ १३५.४॥
स तु ज्येष्ठो भवेत् तस्मान् मा वादं कर्तुमर्हथः ।
तद्वाक्याद् विष्णुरगमद् अधोऽहं चोर्ध्वमेव च ॥ १३५.५॥
ततो विष्णुः शीघ्रमेत्य ज्योतिःपार्श्व उपाविशत् ।
अप्राप्यान्तमहं प्रायां दूराद् दूरतरं मुने ॥ १३५.६॥
ततः श्रान्तो निवृत्तोऽहं द्रष्टुमीशं तु तं प्रभुम् ।
तदैवं मम धीरासीद् दृष्टश्चान्तो मया भृशम् ॥ १३५.७॥
अस्य देवस्य तद् विष्णोर्मम ज्यैष्ठ्यं स्फुटं भवेत् ।
पुनश्चापि मम त्वेवं मतिरासीन् महामते ॥ १३५.८॥
सत्यैर्वक्त्रैः कथं वक्ष्ये पीडितोऽप्यनृतं वचः ।
नानाविधेषु पापेषु नानृतात् पातकं परम् ॥ १३५.९॥
सत्यैर्वक्त्रैरसत्यां वा वाचं वक्ष्ये कथं त्विति ।
ततोऽहं पञ्चमं वक्त्रं गर्दभाकृतिभीषणम् ॥ १३५.१०॥
कृत्वा तेनानृतं वक्ष्य इति ध्यात्वा चिरं तदा ।
अब्रवं तं हरिं तत्र आसीनं जगतां प्रभुम् ॥ १३५.११॥
अस्य चान्तो मया दृष्टस्तेन ज्यैष्ठ्यं जनार्दन ।
ममेति वदतः पार्श्वे उभौ तौ हरिशंकरौ ॥ १३५.१२॥
एकरूपत्वमापन्नौ सूर्याचन्द्रमसाविव ।
तौ दृष्ट्वा विस्मितो भीतश्चास्तवं तावुभावपि ।
ततः क्रुद्धौ जगन्नाथौ वाचं तामिदमूचतुः ॥ १३५.१३॥
हरिहरावूचतुः ।
दुष्टे त्वं निम्नगा भूया नानृताद्
ब्रह्मोवाच ।
ततः सा विह्वला भूत्वा नदीभावमुपागता ।
तद् दृष्ट्वा विस्मितो भीतस्तामब्रवमहं तदा ॥ १३५.१५॥
यस्माद् असत्यमुक्तासि ब्रह्मवाचि स्थिता सती ।
तस्माद् अदृश्या त्वं भूयाः पापरूपास्यसंशयम् ॥ १३५.१६॥
एतच्छापं विदित्वा तु तौ देवौ प्रणता तदा ।
विशापत्वं प्रार्थयन्ती तुष्टाव च पुनः पुनः ॥ १३५.१७॥
ततस्तुष्टौ देवदेवौ प्रार्थितौ त्रिदशार्चितौ ।
प्रीत्या हरिहरावेवं वाचं वाचमथोचतुः ॥ १३५.१८॥
हरिहरावूचतुः ।
गङ्गया संगता भद्रे यदा त्वं लोकपावनी ।
तदा पुनर्वपुस्ते स्यात् पवित्रं हि सुशोभने ॥ १३५.१९॥
ब्रह्मोवाच ।
तथेत्युक्त्वा सापि देवी गङ्गया संगताभवत् ।
भागीरथी गौतमी च ततश्चापि स्वकं वपुः ॥ १३५.२०॥
देवी सा व्यगमद् ब्रह्मन् देवानामपि दुर्लभम् ।
गौतम्यां सैव विख्याता नाम्ना वाणीति पुण्यदा ॥ १३५.२१॥
भागीरथ्यां सैव देवी सरस्वत्यभिधीयते ।
उभयत्रापि विख्यातः संगमो लोकपूजितः ॥ १३५.२२॥
सरस्वतीसंगमश्च वाणीसंगम एव च ।
गौतम्या संगता देवी वाणी वाचा सरस्वती ॥ १३५.२३॥
सर्वत्र पूजितं तीर्थं तत्र वाचा शिवं प्रभुम् ।
देवेश्वरं पूजयित्वा विशापमगमद् यतः ॥ १३५.२४॥
ब्रह्मा विधूय वाग्दौष्ट्यं स्वं च धामागमत् पुनः ।
तस्मात् तत्र शुचिर्भूत्वा स्नात्वा तत्र च संगमे ॥ १३५.२५॥
वागीश्वरं ततो दृष्ट्वा तावता मुक्तिमाप्नुयात् ।
दानहोमादिकं किंचिद् उपवासादिकां क्रियाम् ॥ १३५.२६॥
यः कुर्यात् संगमे पुण्ये संसारे न भवेत् पुनः ।
एकोनविंशतिशतं तीर्थानां तीरयोर्द्वयोः ।
नानाजन्मार्जिताशेष+ ।
पापक्षयविधायिनाम् ॥ १३५.२७॥