अध्याय 134, Verse 1
ब्रह्मोवाच ।
चक्रतीर्थमिति ख्यातं स्मरणात् पापनाशनम् ।
तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद ॥ १३४.१॥
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
चक्रतीर्थमिति ख्यातं स्मरणात् पापनाशनम् ।
तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद ॥ १३४.१॥
ऋषयः सप्त विख्याता वसिष्ठप्रमुखा मुने ।
गौतम्यास्तीरमाश्रित्य सत्त्रयज्ञमुपासते ॥ १३४.२॥
तत्र विघ्न उपक्रान्ते रक्षोभिरतिभीषणे ।
मामभ्येत्याथ मुनयो रक्षःकृत्यं न्यवेदयन् ॥ १३४.३॥
तदाहं प्रमदारूपं माययासृज्य नारद ।
यस्याश्च दर्शनाद् एव नाशं यान्त्यथ राक्षसाः ॥ १३४.४॥
एवमुक्त्वा तु तां प्रादाम् ऋषिभ्यः प्रमदां मुने ।
मद्वाक्याद् ऋषयो मायामादाय पुनरागमन् ॥ १३४.५॥
अजैका या समाख्याता कृष्णलोहितरूपिणी ।
मुक्तकेशीत्यभिधया सास्तेऽद्यापि स्वरूपिणी ॥ १३४.६॥
लोकत्रितयसम्मोह+ ।
दायिनी कामरूपिणी ।
तद्बलात् स्वस्थमनसः सर्वे च मुनिपुंगवः ॥ १३४.७॥
गौतमीं सरितां श्रेष्ठां पुनर्यज्ञाय दीक्षिताः ।
पुनस्तन्मखनाशाय राक्षसाः समुपागमन् ॥ १३४.८॥
यक्षवाटान्तिके मायां दृष्ट्वा राक्षसपुंगवाः ।
ततो नृत्यन्ति गायन्ति हसन्ति च रुदन्ति च ॥ १३४.९॥
माहेश्वरी महामाया प्रभावेणातिदर्पिता ।
तेषां मध्ये दैत्यपतिः शम्बरो नाम वीर्यवान् ॥ १३४.१०॥
मायारूपां तु प्रमदां भक्षयामास नारद ।
तद् अद्भुतमतीवासीत् तन्मायाबलदर्शिनाम् ॥ १३४.११॥
मखे विध्वंस्यमाने तु ते विष्णुं शरणं ययुः ।
प्रादाद् विष्णुश्चक्रमथो मुनीनां रक्षणाय तु ॥ १३४.१२॥
चक्रं तद् राक्षसान् आजौ दैत्यांश्च दनुजांस्तथा ।
चिच्छेद तद्भयाद् एव मृता राक्षसपुंगवाः ॥ १३४.१३॥
ऋषिभिस्तन् महासत्त्रं सम्पूर्णमभवत् तदा ।
विष्णोः प्रक्षालितं चक्रं गङ्गाम्भोभिः सुदर्शनम् ॥ १३४.१४॥
ततः प्रभृति तत् तीर्थं चक्रतीर्थमुदाहृतम् ।
तत्र स्नानेन दानेन सत्त्रयागफलं लभेत् ॥ १३४.१५॥
तत्र पञ्च शतान्यासंस्तीर्थानां पापहारिणाम् ।
तेषु स्नानं तथा दानं प्रत्येकं मुक्तिदायकम् ॥ १३४.१६॥