अध्याय 133, Verse 1
ब्रह्मोवाच ।
शुक्लतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् ।
यस्य स्मरणमात्रेण सर्वकामान् अवाप्नुयात् ॥ १३३.१॥
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
शुक्लतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् ।
यस्य स्मरणमात्रेण सर्वकामान् अवाप्नुयात् ॥ १३३.१॥
भरद्वाज इति ख्यातो मुनिः परमधार्मिकः ।
तस्य पैठीनसी नाम भार्या सुकलभूषणा ॥ १३३.२॥
गौतमीतीरमध्यास्ते पतिव्रतपरायणा ।
अग्नीषोमीयमैन्द्राग्नं पुरोडाशमकल्पयत् ॥ १३३.३॥
पुरोडाशे श्रप्यमाणे धूमात् कश्चिद् अजायत ।
पुरोडाशं भक्षयित्वा लोकत्रितयभीषणः ॥ १३३.४॥
यज्ञं मे ह्यत्र को हंसि कोपात् त्वमिति तं मुनिः ।
प्रोवाच सत्वरं क्रुद्धो भरद्वाजो द्विजोत्तमः ।
तद् ऋषेर्वचनं श्रुत्वा राक्षसः प्रत्युवाच तम् ॥ १३३.५॥
राक्षस उवाच ।
हव्यघ्न इति विख्यातं भरद्वाज निबोध माम् ।
संध्यासुतोऽहं ज्येष्ठश्च सुतः प्राचीनबर्हिषः ॥ १३३.६॥
ब्रह्मणा मे वरो दत्तो यज्ञान् खाद यथासुखम् ।
ममानुजः कलिश्चापि बलवान् अतिभीषणः ॥ १३३.७॥
अहं कृष्णः पिता कृष्णो माता कृष्णा तथानुजः ।
अहं मखं हनिष्यामि यूपं छेद्मि कृतान्तकः ॥ १३३.८॥
भरद्वाज उवाच ।
रक्ष्यतां मे त्वया यज्ञः प्रियो धर्मः सनातनः ।
जाने त्वां यज्ञहन्तारं सद्द्विजं रक्ष मे क्रतुम् ॥ १३३.९॥
यज्ञघ्न उवाच ।
भरद्वाज निबोधेदं वाक्यं मम समासतः ।
ब्रह्मणाहं पुरा शप्तो देवदानवसंनिधौ ॥ १३३.१०॥
ततः प्रसादितो देवो मया लोकपितामहः ।
अमृतैः प्रोक्षयिष्यन्ति यदा त्वां मुनिसत्तमाः ॥ १३३.११॥
तदा विशापो भविता हव्यघ्न त्वं न चान्यथा ।
एवं करिष्यसि यदा ततः सर्वं भविष्यति ॥ १३३.१२॥
ब्रह्मोवाच ।
भरद्वाजः पुनः प्राह सखा मेऽसि महामते ।
मखसंरक्षणं येन स्यान् मे वद करोमि तत् ॥ १३३.१३॥
सम्भूय देवा दैतेया ममन्थुः क्षीरसागरम् ।
अलभन्तामृतं कष्टात् तद् अस्मत्सुलभं कथम् ॥ १३३.१४॥
प्रीत्या यदि प्रसन्नोऽसि सुलभं यद् वदस्व तत् ।
तद् ऋषेर्वचनं श्रुत्वा रक्षः प्राह तदा मुदा ॥ १३३.१५॥
रक्ष उवाच ।
अमृतं गौतमीवारि अमृतं स्वर्णमुच्यते ।
अमृतं गोभवं चाज्यममृतं सोम एव च ॥ १३३.१६॥
एतैर्मामभिषिञ्चस्व अथवैतैस्तथा त्रिभिः ।
गङ्गाया वारिणाज्येन हिरण्येन तथैव च ।
सर्वेभ्योऽप्यधिकं दिव्यममृतं गौतमीजलम् ॥ १३३.१७॥
ब्रह्मोवाच ।
एतद् आकर्ण्य स ऋषिः परं संतोषमागतः ।
पाणावादाय गङ्गायाः सलिलामृतमादरात् ॥ १३३.१८॥
तेनाकरोद् ऋषी रक्षो ह्यभिषिक्तं तदा मखे ।
पुनश्च यूपे च पशावृत्विक्षु मखमण्डले ॥ १३३.१९॥
सर्वमेवाभवच्छुक्लमभिषेकान् महात्मनः ।
तद् रक्षोऽपि तदा शुक्लो भूत्वोत्पन्नो महाबलः ॥ १३३.२०॥
यः पुरा कृष्णरूपोऽभूत् स तु शुक्लोऽभवत् क्षणात् ।
यज्ञं सर्वं समाप्याथ भरद्वाजः प्रतापवान् ॥ १३३.२१॥
ऋत्विजोऽपि विसृज्याथ यूपं गङ्गोदकेऽक्षिपत् ।
गङ्गामध्ये तद् धि यूपमद्याप्यास्ते महामते ॥ १३३.२२॥
अभिषिक्तं चामृतेन अभिज्ञानं तु तन् महत् ।
तत्र तीर्थे पुना रक्षो भरद्वाजमुवाच ह ॥ १३३.२३॥
रक्ष उवाच ।
अहं यामि भरद्वाज कृतः शुक्लस्त्वया पुनः ।
तस्मात् तवात्र तीर्थे ये स्नानदानादिपूजनम् ॥ १३३.२४॥
कुर्युस्तेषामभीष्टानि भवेयुर्यत् फलं मखे ।
स्मरणाद् अपि पापानि नाशं यान्तु सदा मुने ॥ १३३.२५॥
ततः प्रभृति तत् तीर्थं शुक्लतीर्थमिति स्मृतम् ।
गौतम्यां दण्डकारण्ये स्वर्गद्वारमपावृतम् ॥ १३३.२६॥
उभयोस्तीरयोः सप्त सहस्राण्यपराणि च ।
तीर्थानां मुनिशार्दूल सर्वसिद्धिप्रदायिनाम् ॥ १३३.२७॥