अध्याय 132, Verse 1
ब्रह्मोवाच ।
यक्षिणीसंगमं नाम तीर्थं सर्वफलप्रदम् ।
तत्र स्नानेन दानेन सर्वान् कामान् अवाप्नुयात् ॥ १३२.१॥
Containing 9 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
यक्षिणीसंगमं नाम तीर्थं सर्वफलप्रदम् ।
तत्र स्नानेन दानेन सर्वान् कामान् अवाप्नुयात् ॥ १३२.१॥
यत्र यक्षेश्वरो देवो दर्शनाद् भुक्तिमुक्तिदः ।
तत्र च स्नानमात्रेण सत्त्रयागफलं लभेत् ॥ १३२.२॥
विश्वावसोः स्वसा नाम्ना पिप्पला गुरुहासिनी ।
ऋषीणां सत्त्रमगमद् गौतमीतीरवर्तिनाम् ॥ १३२.३॥
दृष्ट्वा तत्र ऋषीन् क्षामान् सा जहासातिगर्विता ।
या गत्वाश्रावय वौषड् अस्तु श्रौषड् इति स्थिरम् ॥ १३२.४॥
विस्वरेण ब्रुवती तां ते शेपुः स्राविणी भव ।
ततो नद्यभवत् तत्र यक्षिणीति सुविश्रुता ॥ १३२.५॥
ततो विश्वावसुः पूज्य ऋषीन् देवं त्रिलोचनम् ।
संगम्य चैव गौतम्या तां विशापामथाकरोत् ॥ १३२.६॥
ततः प्रभृति तत् तीर्थं यक्षिणीसंगमं स्मृतम् ।
तत्र स्नानादिदानेन सर्वान् कामान् अवाप्नुयात् ॥ १३२.७॥
विश्वावसोः प्रसन्नोऽभूद् यत्र शम्भुः शिवान्वितः ।
शैवं तत् परमं तीर्थं दुर्गातीर्थं च विश्रुतम् ॥ १३२.८॥
सर्वपापौघहरणं सर्वदुर्गतिनाशनम् ।
सर्वेषां तीर्थमुख्यानां तद् धि सारं महामुने ।
तीर्थं मुनिवरैः ख्यातं सर्वसिद्धिप्रदं नृणाम् ॥ १३२.९॥