अध्याय 131, Verse 1
ब्रह्मोवाच ।
यमतीर्थमिति ख्यातं पितृणां प्रीतिवर्धनम् ।
अशेषपापशमनं तत्र वृत्तमिदं शृणु ॥ १३१.१॥
Containing 57 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
यमतीर्थमिति ख्यातं पितृणां प्रीतिवर्धनम् ।
अशेषपापशमनं तत्र वृत्तमिदं शृणु ॥ १३१.१॥
तत्राख्यानमिदं त्वासीद् इतिहासं पुरातनम् ।
सरमेति प्रसिद्धास्ति नाम्ना देवशुनी मुने ॥ १३१.२॥
तस्याः पुत्रौ महाश्रेष्ठौ श्वानौ नित्यं जनान् अनु ।
गामिनौ पवनाहारौ चतुरक्षौ यमप्रियौ ॥ १३१.३॥
गा रक्षति स्म देवानां यज्ञार्थं कल्पितान् पशून् ।
रक्षन्तीमनुजग्मुस्ते राक्षसा दैत्यदानवाः ॥ १३१.४॥
रक्षन्तीं तां महाप्राज्ञाः श्वानयोर्मातरं शुनीम् ।
प्रलोभयित्वा विविधैर्वाक्यैर्दानैश्च यत्नतः ॥ १३१.५॥
हृता गा राक्षसैः पापैः पश्वर्थे कल्पिताः शुभाः ।
तत आगत्य सा देवान् इदमाह क्रमाच्छुनी ॥ १३१.६॥
सरमोवाच ।
मां बद्ध्वा राक्षसैः पाशैस्ताडयित्वा प्रहारकैः ।
नीता गा यज्ञसिद्ध्यर्थं कल्पिताः पशवः सुराः ॥ १३१.७॥
ब्रह्मोवाच ।
तस्या वाचं निशम्याशु सुरान् प्राह बृहस्पतिः ॥ १३१.८॥
बृहस्पतिरुवाच ।
इयं विकृतरूपास्ते अस्याः पापं च लक्षये ।
अस्या मतेन ता गावो नीता नान्येन हेतुना ।
पापेयं सुकृतीवेति लक्ष्यते देहचेष्टितैः ॥ १३१.९॥
ब्रह्मोवाच ।
तद् गुरोर्वचनाच्छक्रः पदा तां प्राहरच्छुनीम् ।
पदाघातात् तदा तस्या मुखात् क्षीरं प्रसुस्रुवे ॥ १३१.१०॥
पुनः प्राह शचीभर्ता क्षीरं पीतं त्वया शुनि ।
राक्षसैश्च तदा दत्तं तस्मान् नीतास्तु गा मम ॥ १३१.११॥
सरमोवाच ।
नापराधोऽस्ति मे नाथ न चान्यस्यापि कस्यचित् ।
नापराधो न चोपेक्षा ममास्ति त्रिदशेश्वर ।
तस्माद् रुष्टोऽसि किं नाथ रिपवो बलिनस्तु ते ॥ १३१.१२॥
ब्रह्मोवाच ।
ततो ध्यात्वा देवगुरुर्ज्ञात्वा तस्या विचेष्टितम् ।
सत्यं शक्र त्वियं दुष्टा रिपूणां पक्षकारिणी ॥ १३१.१३॥
ततः शशाप तां शक्रः पापिष्ठे त्वं शुनी भव ।
मर्त्यलोके पापभूता अज्ञानात् पापकारिणी ॥ १३१.१४॥
तदेन्द्रस्य तु शापेन मानुषे सा व्यजायत ।
यथा शप्ता मघवता पापात् सा ह्यतिभीषणा ॥ १३१.१५॥
गावो या राक्षसैर्नीतास्तासामानयनाय च ।
यत्नं कुर्वन् सुरपतिर्विष्णवे तन् न्यवेदयत् ॥ १३१.१६॥
विष्णुर्दैत्यांश्च दनुजान् गोहर्तृंश्चैव राक्षसान् ।
हन्तुं प्रयत्नमकरोज्जगृहे च महद् धनुः ॥ १३१.१७॥
शार्ङ्गं यल्लोकविख्यातं दैत्यनाशनमेव च ।
जितारिः पूजितो देवैः स्वयं स्थित्वा जनार्दनः ॥ १३१.१८॥
यत्र वै दण्डकारण्ये शार्ङ्गपाणिर्जगत्प्रभुः ।
तत्रस्थान् दैत्यदनुजान् राक्षसांश्च बलीयसः ॥ १३१.१९॥
पुनर्जघ्ने स वै विष्णुर्गा यैर्नीताश्च राक्षसैः ।
तत्र वै दण्डकारण्ये शार्ङ्गपाणिरिति श्रुतः ॥ १३१.२०॥
युध्यमानस्ततो विष्णुर्दितिजै राक्षसैः सह ।
ते जग्मुर्दक्षिणामाशां विष्णोस्त्रासान् महामुने ॥ १३१.२१॥
अन्वगच्छत् ततो विष्णुस्तान् एव परमेश्वरः ।
गरुत्मता तान् अवाप्य शार्ङ्गमुक्तैर्मनोजवैः ॥ १३१.२२॥
बाणैस्तान् व्याहनद् विष्णुर्गङ्गाया उत्तरे तटे ।
देवारयः क्षयं नीता विष्णुना प्रभविष्णुना ॥ १३१.२३॥
शार्ङ्गमुक्तैर्महावेगैः सुस्वनैश्च सुमन्त्रितैः ।
क्षयं प्राप्ता विष्णुबाणैस्ततस्ते देवशत्रवः ॥ १३१.२४॥
गावो लब्धा यत्र देवैर्बाणतीर्थं तद् उच्यते ।
वैष्णवं लोकविदितं गोतीर्थं चेति विश्रुतम् ॥ १३१.२५॥
पश्वर्थे कल्पिता गावो गङ्गाया दक्षिणे तटे ।
प्रद्रुतास्ते सुराः सर्वे गङ्गायां संन्यवेशयन् ॥ १३१.२६॥
तन्मध्ये कारयामासुर्द्वीपं चैवाश्रयं गवाम् ।
तैर्गोभिस्तत्र गङ्गायां सुरयज्ञो व्यजायत ॥ १३१.२७॥
यज्ञतीर्थं तु तत् प्रोक्तं गोद्वीपं गाङ्गमध्यतः ।
देवानां यजनं तच्च सर्वकामप्रदं शुभम् ॥ १३१.२८॥
स्वयं मूर्तिमती भूत्वा गङ्गाशक्तिर्महाद्युते ।
असारापारसंसार+ ।
सागरोत्तरणे तरिः ॥ १३१.२९॥
विश्वेश्वरी योगमाया सद्भक्ताभयदायिनी ।
गोरक्षं तु ततस्तीर्थं गङ्गाया दक्षिणे तटे ॥ १३१.३०॥