अध्याय 130, Verse 1
ब्रह्मोवाच ।
आपस्तम्बमिति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् ।
स्मरणाद् अप्यशेषाघ+ ।
संघविध्वंसनक्षमम् ॥ १३०.१॥
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
आपस्तम्बमिति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् ।
स्मरणाद् अप्यशेषाघ+ ।
संघविध्वंसनक्षमम् ॥ १३०.१॥
आपस्तम्बो महाप्राज्ञो मुनिरासीन् महायशाः ।
तस्य भार्याक्षसूत्रेति पतिधर्मपरायणा ॥ १३०.२॥
तस्य पुत्रो महाप्राज्ञः कर्किनामाथ तत्त्ववित् ।
तस्याश्रममनुप्राप्तो ह्यगस्त्यो मुनिसत्तमः ॥ १३०.३॥
तमगस्त्यं पूजयित्वा आपस्तम्बो मुनीश्वरः ।
शिष्यैरनुगतो धीमांस्तं प्रष्टुमुपचक्रमे ॥ १३०.४॥
आपस्तम्ब उवाच ।
त्रयाणां को नु पूज्यः स्याद् देवानां मुनिसत्तम ।
भुक्तिर्मुक्तिश्च कस्माद् वा स्याद् अनादिश्च को भवेत् ॥ १३०.५॥
अनन्तश्चापि को विप्र देवानामपि दैवतम् ।
यज्ञैः क इज्यते देवः को वेदेष्वनुगीयते ।
एतं मे संशयं छेत्तुं वदागस्त्य महामुने ॥ १३०.६॥
अगस्त्य उवाच ।
धर्मार्थकाममोक्षाणां प्रमाणं शब्द उच्यते ।
तत्रापि वैदिकः शब्दः प्रमाणं परमं मतः ॥ १३०.७॥
वेदेन गीयते यस्तु पुरुषः स परात् परः ।
मृतोऽपरः स विज्ञेयो ह्यमृतः पर उच्यते ॥ १३०.८॥
योऽमूर्तः स परो ज्ञेयो ह्यपरो मूर्त उच्यते ।
गुणाभिव्याप्तिभेदेन मूर्तोऽसौ त्रिविधो भवेत् ॥ १३०.९॥
ब्रह्मा विष्णुः शिवश्चेति एक एव त्रिधोच्यते ।
त्रयाणामपि देवानां वेद्यमेकं परं हि तत् ॥ १३०.१०॥
एकस्य बहुधा व्याप्तिर्गुणकर्मविभेदतः ।
लोकानामुपकारार्थमाकृतित्रितयं भवेत् ॥ १३०.११॥
यस्तत्त्वं वेत्ति परमं स च विद्वान् न चेतरः ।
तत्र यो भेदमाचष्टे लिङ्गभेदी स उच्यते ॥ १३०.१२॥
प्रायश्चित्तं न तस्यास्ति यश्चैषां व्याहरेद् भिदम् ।
त्रयाणामपि देवानां मूर्तिभेदः पृथक् पृथक् ॥ १३०.१३॥
वेदाः प्रमाणं सर्वत्र साकारेषु पृथक् पृथक् ।
निराकारं च यत् त्वेकं तत् तेभ्यः परमं मतम् ॥ १३०.१४॥
आपस्तम्ब उवाच ।
नानेन निर्णयः कश्चिन् मयात्र विदितो भवेत् ।
तत्राप्यत्र रहस्यं यत् तद् विमृश्याशु कीर्त्यताम् ।
निःसंशयं निर्विकल्पं भाजनं सर्वसम्पदाम् ॥ १३०.१५॥
ब्रह्मोवाच ।
एतद् आकर्ण्य भगवान् अगस्त्यो वाक्यमब्रवीत् ॥ १३०.१६॥
अगस्त्य उवाच ।
यद्यप्येषां न भेदोऽस्ति देवानां तु परस्परम् ।
तथापि सर्वसिद्धिः स्याच्छिवाद् एव सुखात्मनः ॥ १३०.१७॥
प्रपञ्चस्य निमित्तं यत् तज्ज्योतिश्च परं शिवः ।
तमेव साधय हरं भक्त्या परमया मुने ।
गौतम्यां सकलाघौघ+ ।
संहर्ता दण्डके वने ॥ १३०.१८॥
ब्रह्मोवाच ।
एतच्छ्रुत्वा मुनेर्वाक्यं परां प्रीतिमुपागतः ।
भुक्तिदो मुक्तिदः पुंसां साकारोऽथ निराकृतिः ॥ १३०.१९॥
सृष्ट्याकारस्ततः शक्तः पालनाकार एव च ।
दाता च हन्ति सर्वं यो यस्माद् एतत् समाप्यते ॥ १३०.२०॥
अगस्त्य उवाच ।
ब्रह्माकृतिः कर्तृरूपा वैष्णवी पालनी तथा ।
रुद्राकृतिर्निहन्त्री सा सर्ववेदेषु पठ्यते ॥ १३०.२१॥
ब्रह्मोवाच ।
आपस्तम्बस्तदा गङ्गां गत्वा स्नात्वा यतव्रतः ।
तुष्टाव शंकरं देवं स्तोत्रेणानेन नारद ॥ १३०.२२॥
आपस्तम्ब उवाच ।
काष्ठेषु वह्निः कुसुमेषु गन्धो ।
बीजेषु वृक्षादि दृषत्सु हेम ।
भूतेषु सर्वेषु तथास्ति यो वै ।
तं सोमनाथं शरणं व्रजामि ॥ १३०.२३॥
यो लीलया विश्वमिदं चकार ।
धाता विधाता भुवनत्रयस्य ।
यो विश्वरूपः सदसत्परो यः ।
सोमेश्वरं तं शरणं व्रजामि ॥ १३०.२४॥
यं स्मृत्य दारिद्र्यमहाभिशाप+ ।
रोगादिभिर्न स्पृश्यते शरीरी ।
यमाश्रिताश्चेप्सितमाप्नुवन्ति ।
सोमेश्वरं तं शरणं व्रजामि ॥ १३०.२५॥
येन त्रयीधर्ममवेक्ष्य पूर्वम् ।
ब्रह्मादयस्तत्र समीहिताश्च ।
एवं द्विधा येन कृतं शरीरम् ।
सोमेश्वरं तं शरणं व्रजामि ॥ १३०.२६॥
यस्मै नमो गच्छति मन्त्रपूतम् ।
हुतं हविर्या च कृता च पूजा ।
दत्तं हविर्येन सुरा भजन्ते ।
सोमेश्वरं तं शरणं व्रजामि ॥ १३०.२७॥
यस्मात् परं नान्यद् अस्ति प्रशस्तम् ।
यस्मात् परं नैव सुसूक्ष्ममन्यत् ।
यस्मात् परं नो महतां महच्च ।
सोमेश्वरं तं शरणं व्रजामि ॥ १३०.२८॥
यस्याज्ञया विश्वमिदं विचित्रम् ।
अचिन्त्यरूपं विविधं महच्च ।
एकक्रियं यद्वद् अनुप्रयाति ।
सोमेश्वरं तं शरणं व्रजामि ॥ १३०.२९॥
यस्मिन् विभूतिः सकलाधिपत्यम् ।
कर्तृत्वदातृत्वमहत्त्वमेव ।
प्रीतिर्यशः सौख्यमनादिधर्मः ।
सोमेश्वरं तं शरणं व्रजामि ॥ १३०.३०॥