अध्याय 13, Verse 1
ब्राह्मणा ऊचुः ।
पुरोर्वंशं वयं सूत श्रोतुमिच्छाम तत्त्वतः ।
द्रुह्यस्यानोर्यदोश्चैव तुर्वसोश्च पृथक् पृथक् ॥ १३.१॥
Containing 213 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्राह्मणा ऊचुः ।
पुरोर्वंशं वयं सूत श्रोतुमिच्छाम तत्त्वतः ।
द्रुह्यस्यानोर्यदोश्चैव तुर्वसोश्च पृथक् पृथक् ॥ १३.१॥
लोमहर्षण उवाच ।
शृणुध्वं मुनिशार्दूलाः पुरोर्वंशं महात्मनः ।
विस्तरेणानुपूर्व्या च प्रथमं वदतो मम ॥ १३.२॥
पुरोः पुत्रः सुवीरोऽभून् मनस्युस्तस्य चात्मजः ।
राजा चाभयदो नाम मनस्योरभवत् सुतः ॥ १३.३॥
तथैवाभयदस्यासीत् सुधन्वा नाम पार्थिवः ।
सुधन्वनः सुबाहुश्च रौद्राश्वस्तस्य चात्मजः ॥ १३.४॥
रौद्राश्वस्य दशार्णेयुः कृकणेयुस्तथैव च ।
कक्षेयुस्थण्डिलेयुश्च सन्नतेयुस्तथैव च ॥ १३.५॥
ऋचेयुश्च जलेयुश्च स्थलेयुश्च महाबलः ।
धनेयुश्च वनेयुश्च पुत्रकाश्च दश स्त्रियः ॥ १३.६॥
भद्रा शूद्रा च मद्रा च शलदा मलदा तथा ।
खलदा च ततो विप्रा नलदा सुरसापि च ॥ १३.७॥
तथा गोचपला च स्त्री+ ।
रत्नकूटा च ता दश ।
ऋषिर्जातोऽत्रिवंशे च तासां भर्ता प्रभाकरः ॥ १३.८॥
भद्रायां जनयामास सुतं सोमं यशस्विनम् ।
स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् ॥ १३.९॥
तमोभिभूते लोके च प्रभा येन प्रवर्तिता ।
स्वस्ति तेऽस्त्विति चोक्त्वा वै पतमानो दिवाकरः ॥ १३.१०॥
वचनात् तस्य विप्रर्षेर्न पपात दिवो महीम् ।
अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः ॥ १३.११॥
यज्ञेष्वत्रेर्बलं चैव देवैर्यस्य प्रतिष्ठितम् ।
स तासु जनयामास पुत्रिकास्वात्मकामजान् ॥ १३.१२॥
दश पुत्रान् महासत्त्वांस्तपस्युग्रे रतांस्तथा ।
ते तु गोत्रकरा विप्रा ऋषयो वेदपारगाः ॥ १३.१३॥
स्वस्त्यात्रेया इति ख्याताः किंच त्रिधनवर्जिताः ।
कक्षेयोस्तनयास्त्वासंस्त्रय एव महारथाः ॥ १३.१४॥
सभानरश्चाक्षुषश्च परमन्युस्तथैव च ।
सभानरस्य पुत्रस्तु विद्वान् कालानलो नृपः ॥ १३.१५॥
कालानलस्य धर्मज्ञः सृञ्जयो नाम वै सुतः ।
सृञ्जयस्याभवत् पुत्रो वीरो राजा पुरंजयः ॥ १३.१६॥
जनमेजयो मुनिश्रेष्ठाः पुरंजयसुतोऽभवत् ।
जनमेजयस्य राजर्षेर्महाशालोऽभवत् सुतः ॥ १३.१७॥
देवेषु स परिज्ञातः प्रतिष्ठितयशा भुवि ।
महामना नाम सुतो महाशालस्य विश्रुतः ॥ १३.१८॥
जज्ञे वीरः सुरगणैः पूजितः सुमहामनाः ।
महामनास्तु पुत्रौ द्वौ जनयामास भो द्विजाः ॥ १३.१९॥
उशीनरं च धर्मज्ञं तितिक्षुं च महाबलम् ।
उशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः ॥ १३.२०॥
नृगा कृमिर्नवा दर्वा पञ्चमी च दृषद्वती ।
उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः ॥ १३.२१॥
तपसा चैव महता जाता वृद्धस्य चात्मजाः ।
नृगायास्तु नृगः पुत्रः कृम्यां कृमिरजायत ॥ १३.२२॥
नवायास्तु नवः पुत्रो दर्वायाः सुव्रतोऽभवत् ।
दृषद्वत्यास्तु संजज्ञे शिबिरौशीनरो नृपः ॥ १३.२३॥
शिबेस्तु शिबयो विप्रा यौधेयास्तु नृगस्य ह ।
नवस्य नवराष्ट्रं तु कृमेस्तु कृमिला पुरी ॥ १३.२४॥
सुव्रतस्य तथाम्बष्ठाः शिबिपुत्रान् निबोधत ।
शिबेस्तु शिबयः पुत्राश्चत्वारो लोकविश्रुताः ॥ १३.२५॥
वृषदर्भः सुवीरश्च केकयो मद्रकस्तथा ।
तेषां जनपदाः स्फीता केकया मद्रकास्तथा ॥ १३.२६॥
वृषदर्भाः सुवीराश्च तितिक्षोस्तु प्रजास्त्विमाः ।
तितिक्षुरभवद् राजा पूर्वस्यां दिशि भो द्विजाः ॥ १३.२७॥
उषद्रथो महावीर्यः फेनस्तस्य सुतोऽभवत् ।
फेनस्य सुतपा जज्ञे ततः सुतपसो बलिः ॥ १३.२८॥
जातो मानुषयोनौ तु स राजा काञ्चनेषुधिः ।
महायोगी स तु बलिर्बभूव नृपतिः पुरा ॥ १३.२९॥
पुत्रान् उत्पादयामास पञ्च वंशकरान् भुवि ।
अङ्गः प्रथमतो जज्ञे वङ्गः सुह्मस्तथैव च ॥ १३.३०॥