अध्याय 129, Verse 1
ब्रह्मोवाच ।
इन्द्रतीर्थमिति ख्यातं तत्रैव च वृषाकपम् ।
फेनायाः संगमो यत्र हनूमतं तथैव च ॥ १२९.१॥
Containing 127 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
इन्द्रतीर्थमिति ख्यातं तत्रैव च वृषाकपम् ।
फेनायाः संगमो यत्र हनूमतं तथैव च ॥ १२९.१॥
अब्जकं चापि यत् प्रोक्तं यत्र देवस्त्रिविक्रमः ।
तत्र स्नानं च दानं च पुनरावृत्तिदुर्लभम् ॥ १२९.२॥
तत्र वृत्तान्यथाख्यास्ये गङ्गाया दक्षिणे तटे ।
इन्द्रेश्वरं चोत्तरे च शृणु भक्त्या यतव्रतः ॥ १२९.३॥
नमुचिर्बलवान् आसीद् इन्द्रशत्रुर्मदोत्कटः ।
तस्येन्द्रेणाभवद् युद्धं फेनेनेन्द्रोऽहरच्छिरः ॥ १२९.४॥
अपां च नमुचेः शत्रोस्तत्फेनवज्ररूपधृक् ।
शिरश्छित्त्वा तच्च फेनं गङ्गाया दक्षिणे तटे ॥ १२९.५॥
न्यपतद् भूमिं भित्त्वा तु रसातलमथाविशत् ।
रसातलभवं गाङ्गं वारि यद् विश्वपावनम् ॥ १२९.६॥
वज्रादिष्टेन मार्गेण व्यगमद् भूमिमण्डलम् ।
तज्जलं फेननाम्ना तु नदी फेनेति गद्यते ॥ १२९.७॥
तस्यास्तु संगमः पुण्यो गङ्गया लोकविश्रुतः ।
सर्वपापक्षयकरो गङ्गायमुनयोरिव ॥ १२९.८॥
हनूमदुपमाता वै यत्राप्लवनमात्रतः ।
मार्जारत्वाद् अभून् मुक्ता विष्णुगङ्गाप्रसादतः ॥ १२९.९॥
मार्जारं चेति तत् तीर्थं पुरा प्रोक्तं मया तव ।
हनूमतं च तत् प्रोक्तं तत्राख्यानं पुरोदितम् ॥ १२९.१०॥
वृषाकपं चाब्जकं च तत्रेदं प्रयतः शृणु ।
हिरण्य इति विख्यातो दैत्यानां पूर्वजो बली ॥ १२९.११॥
तपस्तप्त्वा सुरैः सर्वैरजेयोऽभूत् सुदारुणः ।
तस्यापि बलवान् पुत्रो देवानां दुर्जयः सदा ॥ १२९.१२॥
महाशनिरिति ख्यातस्तस्य भार्या पराजिता ।
तेनेन्द्रस्याभवद् युद्धं बहुकालं निरन्तरम् ॥ १२९.१३॥
महाशनिर्महावीर्यः सततं रणमूर्धनि ।
जित्वा नागेन सहितं शक्रं पित्रे न्यवेदयत् ॥ १२९.१४॥
बद्ध्वा हस्तिसमायुक्तं स्वसारं वीक्ष्य तां तदा ।
विहाय क्रूरतां दैत्यो हिरण्याय न्यवेदयत् ॥ १२९.१५॥
महाशनिपिता दैत्यः पूर्वेषां पूर्ववत्तरः ।
शचीकान्तं तले स्थाप्य तस्य रक्षामथाकरोत् ॥ १२९.१६॥
महाशनिर्हरिं जित्वा जेतुं वरुणमभ्यगात् ।
वरुणोऽपि महाबुद्धिः प्रादात् कन्यां महाशनेः ॥ १२९.१७॥
उदधिं स्वालयं प्रादाद् वरुणस्तु महाशनेः ।
तयोश्च सख्यमभवद् वरुणस्य महाशनेः ॥ १२९.१८॥
वारुणी चापि या कन्या सा प्रियाभून् महाशनेः ।
वीर्येण यशसा चापि शौर्येण च बलेन च ॥ १२९.१९॥
महाशनिर्महादैत्यस्त्रैलोक्ये नोपमीयते ।
निरिन्द्रत्वं गते लोके देवाः सर्वे न्यमन्त्रयन् ॥ १२९.२०॥
देवा ऊचुः ।
विष्णुरेवेन्द्रदाता स्याद् दैत्यहन्ता स एव च ।
मन्त्रदृग् वा स एव स्याद् इन्द्रं चान्यं करिष्यति ॥ १२९.२१॥
ब्रह्मोवाच ।
एवं सम्मन्त्र्य ते देवा विष्णोर्मन्त्रं न्यवेदयन् ।
ममावध्यो महादैत्यो महाशनिरिति ब्रुवन् ॥ १२९.२२॥
प्रायाद् वारीश्वरं विष्णुः श्वशुरं वरुणं तदा ।
केशवो वरुणं गत्वा प्राहेन्द्रस्य पराभवम् ॥ १२९.२३॥
तथा त्वयैतत् कर्तव्यं यथायाति पुरंदरः ।
तद्विष्णुवचनाच्छीघ्रं ययौ जलपतिर्मुने ॥ १२९.२४॥
सुतापतिं हिरण्यसुतं विक्रान्तं तं महाशनिम् ।
अतिसम्मानितस्तेन जामात्रा वरुणः प्रभुः ॥ १२९.२५॥
पप्रच्छागमनं दैत्यो विनयाच्छ्वशुरं तदा ।
वरुणः प्राह तं दैत्यं यद् आगमनकारणम् ॥ १२९.२६॥
वरुण उवाच ।
इन्द्रं देहि महाबाहो यस्त्वया निर्जितः पुरा ।
बद्धं रसातलस्थं तं देवानामधिपं सखे ॥ १२९.२७॥
अस्माकं सर्वदा मान्यं देहि त्वं मम शत्रुहन् ।
बद्ध्वा विमोक्षणं शत्रोर्महते यशसे सताम् ॥ १२९.२८॥
ब्रह्मोवाच ।
तथेत्युक्त्वा कथंचित् स दैत्येशो वरुणाय तम् ।
प्रादाद् इन्द्रं शचीकान्तं वारणेन समन्वितम् ॥ १२९.२९॥
स दैत्यमध्येऽतिविराजमानो ।
हरिं तदोवाच जलेशसंनिधौ ।
सम्पूज्य चैवाथ महोपचारैर् ।
महाशनिर्मघवन्तं बभाषे ॥ १२९.३०॥