अध्याय 128, Verse 1
ब्रह्मोवाच ।
तपोवनमिति ख्यातं नन्दिनीसंगमं तथा ।
सिद्धेश्वरं तत्र तीर्थं गौतम्या दक्षिणे तटे ॥ १२८.१॥
Containing 84 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
तपोवनमिति ख्यातं नन्दिनीसंगमं तथा ।
सिद्धेश्वरं तत्र तीर्थं गौतम्या दक्षिणे तटे ॥ १२८.१॥
शार्दूलं चेति विख्यातं तेषां वृत्तमिदं शृणु ।
यस्याकर्णनमात्रेण सर्वपापैः प्रमुच्यते ॥ १२८.२॥
अग्निर्होता पुरा त्वासीद् देवानां हव्यवाहनः ।
भार्यां प्राप्तो दक्षसुतां स्वाहानाम्नीं सुरूपिणीम् ॥ १२८.३॥
सानपत्या पुरा चासीत् पुत्रार्थं तप आविशत् ।
तपश्चरन्तीं विपुलं तोषयन्तीं हुताशनम् ।
स भर्ता हुतभुक् प्राह भार्यां स्वाहामनिन्दिताम् ॥ १२८.४॥
अग्निरुवाच ।
अपत्यानि भविष्यन्ति मा तपः कुरु शोभने ॥ १२८.५॥
ब्रह्मोवाच ।
एतच्छ्रुत्वा भर्तृवाक्यं निवृत्ता तपसोऽभवत् ।
स्त्रीणामभीष्टदं नान्यद् भर्तृवाक्यं विना क्वचित् ॥ १२८.६॥
ततः कतिपये काले तारकाद् भय आगते ।
अनुत्पन्ने कार्त्तिकेये चिरकालरहोगते ॥ १२८.७॥
महेश्वरे भवान्या च त्रस्ता देवाः समागताः ।
देवानां कार्यसिद्ध्यर्थमग्निं प्रोचुर्दिवौकसः ॥ १२८.८॥
देवा ऊचुः ।
देव गच्छ महाभाग शम्भुं त्रैलोक्यपूजितम् ।
तारकाद् भयमुत्पन्नं शम्भवे त्वं निवेदय ॥ १२८.९॥
अग्निरुवाच ।
न गन्तव्यं तत्र देशे दम्पत्योः स्थितयो रहः ।
सामान्यमात्रतो न्यायः किं पुनः शूलपाणिनि ॥ १२८.१०॥
एकान्तस्थितयोः स्वैरं जल्पतोर्यः सरागयोः ।
दम्पत्योः शृणुयाद् वाक्यं निरयात् तस्य नोद्धृतिः ॥ १२८.११॥
स स्वाम्यखिललोकानां महाकालस्त्रिशूलवान् ।
निरीक्षणीयः केन स्याद् भवान्या रहसि स्थितः ॥ १२८.१२॥
देवा ऊचुः ।
महाभये चानुगते न्यायः कोऽन्वत्र वर्ण्यते ।
तारकाद् भय उत्पन्ने गच्छ त्वं तारको भवान् ॥ १२८.१३॥
महाभयाब्धौ साधूनां यत् परार्थाय जीवितम् ।
रूपेणान्येन वा गच्छ वाचं वद यथा तथा ॥ १२८.१४॥
विश्राव्य देववचनं शम्भुमागच्छ सत्वरः ।
ततो दास्यामहे पूजामुभयोर्लोकयोः कवे ॥ १२८.१५॥
ब्रह्मोवाच ।
शुको भूत्वा जगामाशु देववाक्याद् धुताशनः ।
यत्रासीज्जगतां नाथो रममाणस्तदोमया ॥ १२८.१६॥
स भीतवद् अथ प्रायाच्छुको भूत्वा तदानलः ।
नाशकद् द्वारदेशे तु प्रवेष्टुं हव्यवाहनः ॥ १२८.१७॥
ततो गवाक्षदेशे तु तस्थौ धुन्वन्न् अधोमुखः ।
तं दृष्ट्वा प्रहसञ् शम्भुरुमां प्राह रहोगतः ॥ १२८.१८॥
शम्भुरुवाच ।
पश्य देवि शुकं प्राप्तं देववाक्याद्
ब्रह्मोवाच ।
लज्जिता चावदद् देवमलं देवेति पार्वती ।
पुरश्चरन्तं देवेशो ह्यग्निं तं द्विजरूपिणम् ॥ १२८.२०॥
आहूय बहुशश्चापि ज्ञातोऽस्यग्नेऽत्र मा वद ।
विदारयस्व स्वमुखं गृहाणेदं नयस्व तत् ॥ १२८.२१॥
इत्युक्त्वा तस्य चास्येऽग्ने रेतः स प्राक्षिपद् बहु ।
रेतोगर्भस्तदा चाग्निर्गन्तुं नैव च शक्तवान् ॥ १२८.२२॥
सुरनद्यास्ततस्तीरं श्रान्तोऽग्निरुपतस्थिवान् ।
कृत्तिकासु च तद् रेतः प्रक्षेपात् कार्त्तिकोऽभवत् ॥ १२८.२३॥
अवशिष्टं च यत् किंचिद् अग्नेर्देहे च शाम्भवम् ।
तद् एव रेतो वह्निस्तु स्वभार्यायां द्विधाक्षिपत् ॥ १२८.२४॥
स्वाहायां प्रियभूतायां पुत्रार्थिन्यां विशेषतः ।
पुरा साश्वासिता तेन संततिस्ते भविष्यति ॥ १२८.२५॥
तद् वह्निनाथ संस्मृत्य तत् क्षिप्तं शाम्भवं महः ।
तद् अग्ने रेतसस्तस्यां जज्ञे मिथुनमुत्तमम् ॥ १२८.२६॥
सुवर्णश्च सुवर्णा च रूपेणाप्रतिमं भुवि ।
अग्नेः प्रीतिकरं नित्यं लोकानां प्रीतिवर्धनम् ॥ १२८.२७॥
अग्निः प्रीत्या सुवर्णां तां प्रादाद् धर्माय धीमते ।
सुवर्णस्याथ पुत्रस्य संकल्पामकरोत् प्रियाम् ।
एवं पुत्रस्य पुत्र्याश्च विवाहमकरोत् कविः ॥ १२८.२८॥
अन्योन्यरेतोव्यतिषङ्गदोषाद् ।
अग्नेरपत्यमुभयं तथैव ।
पुत्रः सुवर्णो बहुरूपरूपी ।
रूपाणि कृत्वा सुरसत्तमानाम् ॥ १२८.२९॥
इन्द्रस्य वायोर्धनदस्य भार्याम् ।
जलेश्वरस्यापि मुनीश्वराणाम् ।
भार्यास्तु गच्छत्यनिशं सुवर्णो ।
यस्याः प्रियं यच्च वपुः स कृत्वा ॥ १२८.३०॥