अध्याय 127, Verse 1
ब्रह्मोवाच ।
देवतीर्थमिति ख्यातं गङ्गाया उत्तरे तटे ।
तस्य प्रभावं वक्ष्यामि सर्वपापप्रणाशनम् ॥ १२७.१॥
Containing 64 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
देवतीर्थमिति ख्यातं गङ्गाया उत्तरे तटे ।
तस्य प्रभावं वक्ष्यामि सर्वपापप्रणाशनम् ॥ १२७.१॥
आर्ष्टिषेण इति ख्यातो राजा सर्वगुणान्वितः ।
तस्य भार्या जया नाम साक्षाल्लक्ष्मीरिवापरा ॥ १२७.२॥
तस्य पुत्रो भरो नाम मतिमान् पितृवत्सलः ।
धनुर्वेदे च वेदे च निष्णातो दक्ष एव च ॥ १२७.३॥
तस्य भार्या रूपवती सुप्रभेत्यभिविश्रुता ।
आर्ष्टिषेणस्ततो राजा पुत्रे राज्यं निवेश्य सः ॥ १२७.४॥
पुरोधसा च मुख्येन दीक्षां चक्रे नरेश्वरः ।
सरस्वत्यास्ततस्तीरे हयमेधाय यत्नवान् ॥ १२७.५॥
ऋत्विग्भिरृषिमुख्यैश्च वेदशास्त्रपरायणैः ।
दीक्षितं तं नृपश्रेष्ठं ब्राह्मणाग्निसमीपतः ॥ १२७.६॥
मिथुर्दानवराट् शूरः पापबुद्धिः प्रतापवान् ।
मखं विध्वस्य नृपतिं सभार्यं सपुरोहितम् ॥ १२७.७॥
आदाय वेगात् स प्रागाद् रसातलतलं मुने ।
नीते तस्मिन् नृपवरे यज्ञे नष्टे ततोऽमराः ॥ १२७.८॥
ऋत्विजश्च ययुः सर्वे स्वं स्वं स्थानं मखात् ततः ।
पुरोहितसुतो राज्ञो देवापिरिति विश्रुतः ॥ १२७.९॥
बालस्तां मातरं दृष्ट्वा आत्मनः पितरं न च ।
दृष्ट्वा सविस्मयो भूत्वा दुःखितोऽतीव चाभवत् ॥ १२७.१०॥
स मातरं तु पप्रच्छ पिता मे क्व गतोऽम्बिके ।
पितृहीनो न जीवेयं मातः सत्यं वदस्व मे ॥ १२७.११॥
धिग् धिक् पितृविहीनानां जीवितं पापकर्मणाम् ।
न वक्षि यदि मे मातर्जलमग्निमथाविशे ॥ १२७.१२॥
पुत्रं प्रोवाच सा माता राज्ञो भार्या पुरोधसः ।
दानवेन तलं नीतो राज्ञा सह पिता तव ॥ १२७.१३॥
देवापिरुवाच ।
क्व नीतः केन वा नीतः कथं नीतः क्व कर्मणि ।
केषु पश्यत्सु किं स्थानं दानवस्य वदस्व मे ॥ १२७.१४॥
मातोवाच ।
दीक्षितं यज्ञसदसि सभार्यं सपुरोधसम् ।
राजानं तं मिथुर्दैत्यो नीतवान् स रसातलम् ।
पश्यत्सु देवसंघेषु वह्निब्राह्मणसंनिधौ ॥ १२७.१५॥
ब्रह्मोवाच ।
तन् मातृवचनं श्रुत्वा देवापिः कृत्यमस्मरत् ।
देवान् पश्येऽथवाग्निं वा ऋत्विजो वासुरांस्तथा ॥ १२७.१६॥
एतेष्वेव पितान्वेष्यो नान्यत्रेति मतिर्मम ।
इति निश्चित्य देवापिर्भरं प्राह नृपात्मजम् ॥ १२७.१७॥
देवापिरुवाच ।
तपसा ब्रह्मचर्येण व्रतेन नियमेन च ।
आनेतव्या मया सर्वे नीता ये च रसातलम् ॥ १२७.१८॥
जाते पराभवे घोरे यो न कुर्यात् प्रतिक्रियाम् ।
नराधमेन किं तेन जीवता वा मृतेन वा ॥ १२७.१९॥
त्वं प्रशाधि महीं कृत्स्नामार्ष्टिषेणः पिता यथा ।
माता मम त्वया पाल्या राजन् यावन् ममागतिः ।
भवेच्च कृतकार्यस्य अनुजानीहि मां भर ॥ १२७.२०॥
ब्रह्मोवाच ।
भरेणोक्तः स देवापिः सर्वं निश्चित्य
भर उवाच ।
सिद्धिं कुरु सुखं याहि मा चिन्तामल्पिकां
ब्रह्मोवाच ।
ततो देवापिरमर+ ।
राजाङ्घ्रिध्यानतत्परः ।
ऋत्विजोऽन्वेष्य यत्नेन नत्वा तान् ऋत्विजः पृथक् ।
कृताञ्जलिपुटो बालो देवापिर्वाक्यमब्रवीत् ॥ १२७.२३॥
देवापिरुवाच ।
भवद्भिश्च मखो रक्ष्यो यजमानश्च दीक्षितः ।
पुरोधाश्च तथा रक्ष्यः पत्नी या दीक्षितस्य तु ॥ १२७.२४॥
भवत्सु तत्र पश्यत्सु यज्ञं विध्वस्य दैत्यराट् ।
राजादयस्तेन नीतास्तन् न युक्ततमं भवेत् ॥ १२७.२५॥
अथाप्येतद् अहं मन्ये भवन्तस्तान् अरोगिणः ।
दातुमर्हन्ति तान् सर्वान् अन्यथा शापमर्हथ ॥ १२७.२६॥
ऋत्विज ऊचुः ।
मखेऽग्निः प्रथमं पूज्यो ह्यग्निरेवात्र दैवतम् ।
तस्माद् वयं न जानीमो ह्यग्नीनां परिचारकाः ॥ १२७.२७॥
स एव दाता भोक्ता च हर्ता कर्ता च हव्यवाट् ॥ १२७.२८॥
ब्रह्मोवाच ।
ऋत्विजः पृष्ठतः कृत्वा देवापिर्जातवेदसम् ।
पूजयित्वा यथान्यायमग्नये तन् न्यवेदयत् ॥ १२७.२९॥
अग्निरुवाच ।
यथर्त्विजस्तथा चाहं देवानां परिचारकः ।
हव्यं वहामि देवानां भोक्तारो रक्षकाश्च ते ॥ १२७.३०॥