अध्याय 126, Verse 1
ब्रह्मोवाच ।
तपस्तीर्थमिति ख्यातं तपोवृद्धिकरं महत् ।
सर्वकामप्रदं पुण्यं पितृणां प्रीतिवर्धनम् ॥ १२६.१॥
Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
तपस्तीर्थमिति ख्यातं तपोवृद्धिकरं महत् ।
सर्वकामप्रदं पुण्यं पितृणां प्रीतिवर्धनम् ॥ १२६.१॥
तस्मिंस्तीर्थे तु यद् वृत्तं शृणु पापप्रणाशनम् ।
अपामग्नेश्च संवादम् ऋषीणां च परस्परम् ॥ १२६.२॥
अपो ज्येष्ठतमाः केचिन् मेनिरेऽग्निं तथापरे ।
एवं ब्रुवन्तो मुनयः संवादं चाग्निवारिणोः ॥ १२६.३॥
विनाग्निं जीवनं क्व स्याज्जीवभूतो यतोऽनलः ।
आत्मभूतो हव्यभूतश्चाग्निना जायतेऽखिलम् ॥ १२६.४॥
अग्निना ध्रियते लोको ह्यग्निर्ज्योतिर्मयं जगत् ।
तस्माद् अग्नेः परं नास्ति पावनं दैवतं महत् ॥ १२६.५॥
अन्तर्ज्योतिः स एवोक्तः परं ज्योतिः स एव हि ।
विनाग्निना किंचिद् अस्ति यस्य धाम जगत्त्रयम् ॥ १२६.६॥
तस्माद् अग्नेः परं नास्ति भूतानां ज्यैष्ठ्यभाजनम् ।
योषित्क्षेत्रेऽर्पितं बीजं पुरुषेण यथा तथा ॥ १२६.७॥
तस्य देहादिका शक्तिः कृशानोरेव नान्यथा ।
देवानां हि मुखं वह्निस्तस्मान् नातः परं विदुः ॥ १२६.८॥
अपरे तु ह्यपां ज्यैष्ठ्यं मेनिरे वेदवादिनः ।
अद्भिः सम्पत्स्यते ह्यन्नं शुचिरद्भिः प्रजायते ॥ १२६.९॥
अद्भिरेव धृतं सर्वमापो वै मातरः स्मृताः ।
त्रैलोक्यजीवनं वारि वदन्तीति पुराविदः ॥ १२६.१०॥
उत्पन्नममृतं ह्यद्भ्यस्ताभ्यश्चौषधिसम्भवः ।
अग्निर्ज्येष्ठ इति प्राहुरापो ज्येष्ठतमाः परे ॥ १२६.११॥
एवं मीमांसमानास्ते ऋषयो वेदवादिनः ।
विरुद्धवादिनो मां च समभ्येत्येदमब्रुवन् ॥ १२६.१२॥
ऋषय ऊचुः ।
अग्नेरपां वद ज्यैष्ठ्यं त्रैलोक्यस्य
ब्रह्मोवाच ।
अहमप्यब्रवं प्राप्तान् ऋषीन् सर्वान् यतव्रतान् ।
उभौ पूज्यतमौ लोक उभाभ्यां जायते जगत् ॥ १२६.१४॥
उभाभ्यां जायते हव्यं कव्यं चामृतमेव च ।
उभाभ्यां जीवनं लोके शरीरस्य च धारणम् ॥ १२६.१५॥
नानयोश्च विशेषोऽस्ति ततो ज्यैष्ठ्यं समं मतम् ।
ततो मद्वचनाज्ज्यैष्ठ्यमुभयोर्नैव कस्यचित् ॥ १२६.१६॥
ज्यैष्ठ्यमन्यतरस्येति मेनिरे ऋषिसत्तमाः ।
न तृप्ता मम वाक्येन जग्मुर्वायुं तपस्विनः ॥ १२६.१७॥
मुनय ऊचुः ।
कस्य ज्यैष्ठ्यं भवान् प्राणो वायो सत्यं
ब्रह्मोवाच ।
वायुराहानलो ज्येष्ठः सर्वमग्नौ प्रतिष्ठितम् ।
नेत्युक्त्वान्योन्यम् ऋषयो जग्मुस्तेऽपि वसुंधराम् ॥ १२६.१९॥
मुनय ऊचुः ।
सत्यं भूमे वद ज्यैष्ठ्यमाधारासि चराचरे ॥ १२६.२०॥
ब्रह्मोवाच ।
भूमिरप्याह विनयाद् आगतांस्तान् ऋषीन् इदम् ॥ १२६.२१॥
भूमिरुवाच ।
ममाप्याधारभूताः स्युरापो देव्यः सनातनाः ।
अद्भ्यस्तु जायते सर्वं ज्यैष्ठ्यमप्सु प्रतिष्ठितम् ॥ १२६.२२॥
ब्रह्मोवाच ।
नेत्युक्त्वान्योन्यम् ऋषयो जग्मुः क्षीरोदशायिनम् ।
तुष्टुवुर्विविधैः स्तोत्रैः शङ्खचक्रगदाधरम् ॥ १२६.२३॥
ऋषय ऊचुः ।
यो वेद सर्वं भुवनं भविष्यद् ।
यज्जायमानं च गुहानिविष्टम् ।
लोकत्रयं चित्रविचित्ररूपम् ।
अन्ते समस्तं च यमाविवेश ॥ १२६.२४॥
यद् अक्षरं शाश्वतमप्रमेयम् ।
यं वेदवेद्यम् ऋषयो वदन्ति ।
यमाश्रिताः स्वेप्सितमाप्नुवन्ति ।
तद् वस्तु सत्यं शरणं व्रजामः ॥ १२६.२५॥
भूतं महाभूतजगत्प्रधानम् ।
न विन्दते योगिनो विष्णुरूपम् ।
तद् वक्तुमेते ऋषयोऽत्र याताः ।
सत्यं वदस्वेह जगन्निवास ॥ १२६.२६॥
त्वमन्तरात्माखिलदेहभाजाम् ।
त्वमेव सर्वं त्वयि सर्वमीश ।
तथापि जानन्ति न केअपि कुत्रापि ।
अहो भवन्तं प्रकृतिप्रभावात् ।
अन्तर्बहिः सर्वत एव सन्तम् ।
विश्वात्मना सम्परिवर्तमानम् ॥ १२६.२७॥
ब्रह्मोवाच ।
ततः प्राह जगद्धात्री दैवी वाग् अशरीरिणी ॥ १२६.२८॥
दैवी वाग् उवाच ।
उभावाराध्य तपसा भक्त्या च नियमेन च ।
यस्य स्यात् प्रथमं सिद्धिस्तद् भूतं ज्येष्ठमुच्यते ॥ १२६.२९॥
ब्रह्मोवाच ।
तथेत्य्तथा ययुः सर्वे ऋषयो लोकपूजिताः ।
श्रान्ताः खिन्नान्तरात्मानः परं वैराग्यमाश्रिताः ॥ १२६.३०॥