अध्याय 125, Verse 1
ब्रह्मोवाच ।
यमतीर्थमिति ख्यातं पितृणां प्रीतिवर्धनम् ।
दृष्टादृष्टेष्टदं सर्व+ ।
देवर्षिगणसेवितम् ॥ १२५.१॥
Containing 56 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
यमतीर्थमिति ख्यातं पितृणां प्रीतिवर्धनम् ।
दृष्टादृष्टेष्टदं सर्व+ ।
देवर्षिगणसेवितम् ॥ १२५.१॥
तस्य प्रभावं वक्ष्यामि सर्वपापप्रणाशनम् ।
अनुह्राद इति ख्यातः कपोतो बलवान् अभूत् ॥ १२५.२॥
तस्य भार्या हेतिनाम्नी पक्षिणी कामरूपिणी ।
मृत्योः पौत्रो ह्यनुह्रादो दौहित्री हेतिरेव च ॥ १२५.३॥
कालेनाथ तयोः पुत्राः पौत्राश्चैव बभूविरे ।
तस्य शत्रुश्च बलवान् उलूको नाम पक्षिराट् ॥ १२५.४॥
तस्य पुत्राश्च पौत्राश्च आग्नेयास्ते बलोत्कटाः ।
तयोश्च वैरमभवद् बहुकालं द्विजन्मनोः ॥ १२५.५॥
गङ्गाया उत्तरे तीरे कपोतस्याश्रमोऽभवत् ।
तस्याश्च दक्षिणे कूल उलूको नाम पक्षिराट् ॥ १२५.६॥
वासं चक्रे तत्र पुत्रैः पौत्रैश्च द्विजसत्तम ।
तयोश्च युद्धमभवद् बहुकालं विरुद्धयोः ॥ १२५.७॥
पुत्रैः पौत्रैश्च वृतयोर्बलिनोर्बलिभिः सह ।
उलूको वा कपोतो वा नैवाप्नोति जयाजयौ ॥ १२५.८॥
कपोतो यममाराध्य मृत्युं पैतामहं तथा ।
याम्यमस्त्रमवाप्याथ सर्वेभ्योऽप्यधिकोऽभवत् ॥ १२५.९॥
तथोलूकोऽग्निमाराध्य बलवान् अभवद् भृशम् ।
वरैरुन्मत्तयोर्युद्धमभवच्चातिभीषणम् ॥ १२५.१०॥
तत्राग्नेयमुलूकोऽपि कपोतायास्त्रमाक्षिपत् ।
कपोतोऽप्यथ पाशान् वै याम्यान् आक्षिप्य शत्रवे ॥ १२५.११॥
उलूकायाथ दण्डं च मृत्युपाशान् अवासृजत् ।
पुनस्तद् अभवद् युद्धं पुराडिबकयोर्यथा ॥ १२५.१२॥
हेतिः कपोतकी दृष्ट्वा ज्वलनं प्राप्तमन्तिके ।
पतिव्रता महायुद्धे भर्तुः सा दुःखविह्वला ॥ १२५.१३॥
अग्निना वेष्ट्यमानांश्च पुत्रान् दृष्ट्वा विशेषतः ।
सा गत्वा ज्वलनं हेतिस्तुष्टाव विविधोक्तिभिः ॥ १२५.१४॥
हेतिरुवाच ।
रूपं न दानं न परोक्षमस्ति ।
यस्यात्मभूतं च पदार्थजातम् ।
अश्नन्ति हव्यानि च येन देवाः ।
स्वाहापतिं यज्ञभुजं नमस्ये ॥ १२५.१५॥
मुखभूतं च देवानां देवानां हव्यवाहनम् ।
होतारं चापि देवानां देवानां दूतमेव च ॥ १२५.१६॥
तं देवं शरणं यामि आदिदेवं विभावसुम् ।
अन्तः स्थितः प्राणरूपो बहिश्चान्नप्रदो हि यः ।
यो यज्ञसाधनं यामि शरणं तं धनंजयम् ॥ १२५.१७॥
अग्निरुवाच ।
अमोघमेतद् अस्त्रं मे न्यस्तं युद्धे कपोतकि ।
यत्र विश्रमयेद् अस्त्रं तन् मे ब्रूहि पतिव्रते ॥ १२५.१८॥
कपोत्युवाच ।
मयि विश्रम्यतामस्त्रं न पुत्रे न च भर्तरि ।
सत्यवाग् भव हव्येश जातवेदो नमोऽस्तु ते ॥ १२५.१९॥
जातवेदा उवाच ।
तुष्टोऽस्मि तव वाक्येन भर्तृभक्त्या पतिव्रते ।
तवापि भर्तृपुत्राणां हेति क्षेमं ददाम्यहम् ॥ १२५.२०॥
आग्नेयमेतद् अस्त्रं मे न भर्तारं सुतान् अपि ।
न त्वां दहेत् ततो याहि सुखेन त्वं कपोतकि ॥ १२५.२१॥
ब्रह्मोवाच ।
एतस्मिन्न् अन्तरे तत्र उलूकी ददृशे पतिम् ।
वेष्ट्यमानं याम्यपाशैर्यमदण्डेन ताडितम् ।
उलूकी दुःखिता भूत्वा यमं प्रायाद् भयातुरा ॥ १२५.२२॥
उलूक्युवाच ।
त्वद्भीता अनुद्रवन्ते जनास्- ।
त्वद्भीता ब्रह्मचर्यं चरन्ति ।
त्वद्भीताः साधु चरन्ति धीरास्- ।
त्वद्भीताः कर्मनिष्ठा भवन्ति ॥ १२५.२३॥
त्वद्भीता अनाशकमाचरन्ति ।
ग्रामाद् अरण्यमभि यच्चरन्ति ।
त्वद्भीताः सौम्यतामाश्रयन्ते ।
त्वद्भीताः सोमपानं भजन्ते ।
त्वद्भीताश्चान्नगोदाननिष्ठास्- ।
त्वद्भीता ब्रह्मवादं वदन्ति ॥ १२५.२४॥
ब्रह्मोवाच ।
एवं ब्रुवत्यां तस्यां तामाह दक्षिणदिक्पतिः ॥ १२५.२५॥
यम उवाच ।
वरं वरय भद्रं ते दास्येऽहं मनसः
ब्रह्मोवाच ।
यमस्येति वचः श्रुत्वा सा तमाह पतिव्रता ॥ १२५.२७॥
उलूक्युवाच ।
भर्ता मे वेष्टितः पाशैर्दण्डेनाभिहतस्तव ।
तस्माद् रक्ष सुरश्रेष्ठ पुत्रान् भर्तारमेव च ॥ १२५.२८॥
ब्रह्मोवाच ।
तद्वाक्यात् कृपया युक्तो यमः प्राह पुनः
यम उवाच ।
पाशानां चापि दण्डस्य स्थानं वद