अध्याय 124, Verse 1
ब्रह्मोवाच ।
पुत्रतीर्थमिति ख्यातं पुण्यतीर्थं तद् उच्यते ।
सर्वान् कामान् अवाप्नोति यन्महिम्नः श्रुतेरपि ॥ १२४.१॥
Containing 140 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
पुत्रतीर्थमिति ख्यातं पुण्यतीर्थं तद् उच्यते ।
सर्वान् कामान् अवाप्नोति यन्महिम्नः श्रुतेरपि ॥ १२४.१॥
तस्य स्वरूपं वक्ष्यामि शृणु यत्नेन नारद ।
दितेः पुत्राश्च दनुजाः परिक्षीणा यदाभवन् ।
अदितेस्तु सुता ज्येष्ठाः सर्वभावेन नारद ॥ १२४.२॥
तदा दितिः पुत्रवियोगदुःखात् ।
संस्पर्धमाना दनुमाजगाम ॥ १२४.३॥
दितिरुवाच ।
क्षीणाः सुता आवयोरेव भद्रे ।
किं कुर्महे कर्म लोके गरीयः ।
पश्यादितेर्वंशमभिन्नमुत्तमम् ।
सौराज्ययुक्तं यशसा जयश्रिया ॥ १२४.४॥
जितारिमभ्युन्नतकीर्तिधर्मम् ।
मच्चित्तसंहर्षविनाशदक्षम् ।
समानभर्तृत्वसमानधर्मे ।
समानगोत्रेऽपि समानरूपे ॥ १२४.५॥
न जीवयेयं श्रियमुन्नतिं च ।
जीर्णास्मि दृष्ट्वा त्वदितिप्रसूतान् ।
कामप्यवस्थामनुयामि दुःस्था ।
दावप्रवेशोऽपि सुखाय नूनम् ।
स्वप्नेऽप्यवेक्ष्या न सपत्नलक्ष्मीः ॥ १२४.६॥
ब्रह्मोवाच ।
एवं ब्रुवाणामतिदीनवक्त्राम् ।
विनिश्वसन्तीं परमेष्ठिपुत्रः ।
कृताभिपूजो विगतश्रमस्ताम् ।
स सान्त्वयन्न् आह मनोभिरामाम् ॥ १२४.७॥
परमेष्ठिपुत्र उवाच ।
खेदो न कार्यः समभीप्सितं यत् ।
तत् प्राप्यते पुण्यत एव भद्रे ।
तत्साधनं वेत्ति महानुभावः ।
प्रजापतिस्ते स तु वक्ष्यतीति ॥ १२४.८॥
साध्व्येतत् सर्वभावेन प्रश्रयावनता सती ॥ १२४.९॥
ब्रह्मोवाच ।
एवं ब्रुवाणां च दितिं दनुः प्रोवाच नारद ॥ १२४.१०॥
दनुरुवाच ।
भर्तारं कश्यपं भद्रे तोषयस्व निजैर्गुणैः ।
तुष्टो यदि भवेद् भर्ता ततः कामान् अवाप्स्यसि ॥ १२४.११॥
ब्रह्मोवाच ।
तथेत्युक्त्वा सर्वभावैस्तोषयामास कश्यपम् ।
दितिं प्रोवाच भगवान् कश्यपोऽथ प्रजापतिः ॥ १२४.१२॥
कश्यप उवाच ।
किं ददामि वदाभीष्टं दिते वरय सुव्रते ॥ १२४.१३॥
ब्रह्मोवाच ।
दितिरप्याह भर्तारं पुत्रं बहुगुणान्वितम् ।
जेतारं सर्वलोकानां सर्वलोकनमस्कृतम् ॥ १२४.१४॥
येन जातेन लोकेऽस्मिन् भवेयं वीरपुत्रिणी ।
तं वरेयं सुरपितरित्याह विनयान्विता ॥ १२४.१५॥
कश्यप उवाच ।
उपदेक्ष्ये व्रतं श्रेष्ठं द्वादशाब्दफलप्रदम् ।
तत आगत्य ते गर्भमाधास्ये यन् मनोगतम् ।
निष्पापतायां जातायां सिध्यन्ति हि मनोरथाः ॥ १२४.१६॥
ब्रह्मोवाच ।
भर्तृवाक्याद् दितिः प्रीता तं नमस्यायतेक्षणा ।
उपदिष्टं व्रतं चक्रे भर्त्रादिष्टं यथाविधि ॥ १२४.१७॥
तीर्थसेवापात्रदान+ ।
व्रतचर्यादिवर्जिताः ।
कथमासादयिष्यन्ति प्राणिनोऽत्र मनोरथान् ॥ १२४.१८॥
ततश्चीर्णे व्रते तस्यां दित्यां गर्भमधारयत् ।
पुनः कान्तामथोवाच कश्यपस्तां दितिं रहः ॥ १२४.१९॥
कश्यप उवाच ।
न प्राप्नुवन्ति यत्कामान् मुनयोऽपि तपस्स्थिताः ।
यथाविहितकर्माङ्ग+ ऽवज्ञया तच्छुचिस्मिते ॥ १२४.२०॥
निन्दितं च न कर्तव्यं संध्ययोरुभयोरपि ।
न स्वप्तव्यं न गन्तव्यं मुक्तकेशी च नो भव ॥ १२४.२१॥
भोक्तव्यं सुभगे नैव क्षुतं वा जृम्भणं तथा ।
संध्याकाले न कर्तव्यं भूतसंघसमाकुले ॥ १२४.२२॥
सान्तर्धानं सदा कार्यं हसितं तु विशेषतः ।
गृहान्तदेशे संध्यासु न स्थातव्यं कदाचन ॥ १२४.२३॥
मुशलोलूखलादीनि शूर्पपीठपिधानकम् ।
नैवातिक्रमणीयानि दिवा रात्रौ सदा प्रिये ॥ १२४.२४॥
उदक्षीर्षं तु शयनं न संध्यासु विशेषतः ।
वक्तव्यं नानृतं किंचिन् नान्यगेहाटनं तथा ॥ १२४.२५॥
कान्ताद् अन्यो न वीक्ष्यस्तु प्रयत्नेन नरः क्वचित् ।
इत्यादिनियमैर्युक्ता यदि त्वमनुवर्तसे ।
ततस्ते भविता पुत्रस्त्रैलोक्यैश्वर्यभाजनम् ॥ १२४.२६॥
ब्रह्मोवाच ।
तथेति प्रतिजज्ञे सा भर्तारं लोकपूजितम् ।
गतश्च कश्यपो ब्रह्मन्न् इतश्चेतः सुरान् प्रति ॥ १२४.२७॥
दितेर्गर्भोऽपि ववृधे बलवान् पुण्यसम्भवः ।
एतत् सर्वं मयो दैत्यो मायया वेत्ति तत्त्वतः ॥ १२४.२८॥
इन्द्रस्य सख्यमभवन् मयेन प्रीतिपूर्वकम् ।
मयो गत्वा रहः प्राह इन्द्रं स विनयान्वितः ॥ १२४.२९॥
दितेर्दनोरभिप्रायं व्रतं गर्भस्य वर्धनम् ।
तस्य वीर्यं च विविधं प्रीत्येन्द्राय न्यवेदयत् ॥ १२४.३०॥