अध्याय 123, Verse 1
ब्रह्मोवाच ।
रामतीर्थमिति ख्यातं भ्रूणहत्याविनाशनम् ।
तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ १२३.१॥
Containing 217 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
रामतीर्थमिति ख्यातं भ्रूणहत्याविनाशनम् ।
तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ १२३.१॥
इक्ष्वाकुवंशप्रभवः क्षत्रियो लोकविश्रुतः ।
बलवान् मतिमाञ् शूरो यथा शक्रः पुरंदरः ॥ १२३.२॥
पितृपैतामहं राज्यं कुर्वन्न् आस्ते यथा बलिः ।
तस्य तिस्रो महिष्यः स्यू राज्ञो दशरथस्य हि ॥ १२३.३॥
कौशल्या च सुमित्रा च कैकेयी च महामते ।
एताः कुलीनाः सुभगा रूपलक्षणसंयुताः ॥ १२३.४॥
तस्मिन् राजनि राज्ये तु स्थितेऽयोध्यापतौ मुने ।
वसिष्ठे ब्रह्मविच्छ्रेष्ठे पुरोधसि विशेषतः ॥ १२३.५॥
न च व्याधिर्न दुर्भिक्षं न चावृष्टिर्न चाधयः ।
ब्रह्मक्षत्रविशां नित्यं शूद्राणां च विशेषतः ॥ १२३.६॥
आश्रमाणां तु सर्वेषामानन्दोऽभूत् पृथक् पृथक् ।
तस्मिञ् शासति राजेन्द्र इक्ष्वाकूणां कुलोद्वहे ॥ १२३.७॥
देवानां दानवानां तु राज्यार्थे विग्रहोऽभवत् ।
क्वापि तत्र जयं प्रापुर्देवाः क्वापि तथेतरे ॥ १२३.८॥
एवं प्रवर्तमाने तु त्रैलोक्यमतिपीडितम् ।
अभून् नारद तत्राहमवदं दैत्यदानवान् ॥ १२३.९॥
देवांश्चापि विशेषेण न कृतं तैर्मदीरितम् ।
पुनश्च संगरस्तेषां बभूव सुमहान् मिथः ॥ १२३.१०॥
विष्णुं गत्वा सुराः प्रोचुस्तथेशानं जगन्मयम् ।
तावूचतुरुभौ देवान् असुरान् दैत्यदानवान् ॥ १२३.११॥
तपसा बलिनो यान्तु पुनः कुर्वन्तु संगरम् ।
तथेत्याहुर्ययुः सर्वे तपसे नियतव्रताः ॥ १२३.१२॥
ययुस्तु राक्षसान् देवाः पुनस्ते मत्सरान्विताः ।
देवानां दानवानां च संगरोऽभूत् सुदारुणः ॥ १२३.१३॥
न तत्र देवा जेतारो नैव दैत्याश्च दानवाः ।
संयुगे वर्तमाने तु वाग् उवाचाशरीरिणी ॥ १२३.१४॥
आकाशवाग् उवाच ।
येषां दशरथो राजा ते जेतारो न
ब्रह्मोवाच ।
इति श्रुत्वा जयायोभौ जग्मतुर्देवदानवौ ।
तत्र वायुस्त्वरन् प्राप्तो राजानमवदत् तदा ॥ १२३.१६॥
वायुरुवाच ।
आगन्तव्यं त्वया राजन् देवदानवसंगरे ।
यत्र राजा दशरथो जयस्तत्रेति विश्रुतम् ॥ १२३.१७॥
तस्मात् त्वं देवपक्षे स्या भवेयुर्जयिनः सुराः ॥ १२३.१८॥
ब्रह्मोवाच ।
तद् वायुवचनं श्रुत्वा राजा दशरथो नृपः ।
आगम्यते मया सत्यं गच्छ वायो यथासुखम् ॥ १२३.१९॥
गते वायौ तदा दैत्या आजग्मुर्भूपतिं प्रति ।
तेऽप्यूचुर्भगवन्न् अस्मत्+ ।
साहाय्यं कर्तुमर्हसि ॥ १२३.२०॥
राजन् दशरथ श्रीमन् विजयस्त्वयि संस्थितः ।
तस्मात् त्वं वै दैत्यपतेः साहाय्यं कर्तुमर्हसि ॥ १२३.२१॥
ततः प्रोवाच नृपतिर्वायुना प्रार्थितः पुरा ।
प्रतिज्ञातं मया तच्च यान्तु दैत्याश्च दानवाः ॥ १२३.२२॥
स तु राजा तथा चक्रे गत्वा चैव त्रिविष्टपम् ।
युद्धं चक्रे तथा दैत्यैर्दानवैः सह राक्षसैः ॥ १२३.२३॥
पश्यत्सु देवसंघेषु नमुचेर्भ्रातरस्तदा ।
विविधुर्निशितैर्बाणैरथाक्षं नृपतेस्तथा ॥ १२३.२४॥
भिन्नाक्षं तं रथं राजा न जानाति स सम्भ्रमात् ।
राजान्तिके स्थिता सुभ्रूः कैकेय्याज्ञायि नारद ॥ १२३.२५॥
न ज्ञापितं तया राज्ञे स्वयमालोक्य सुव्रता ।
भग्नमक्षं समालक्ष्य चक्रे हस्तं तदा स्वकम् ॥ १२३.२६॥
अक्षवन् मुनिशार्दूल तद् एतन् महद् अद्भुतम् ।
रथेन रथिनां श्रेष्ठस्तया दत्तकरेण च ॥ १२३.२७॥
जितवान् दैत्यदनुजान् देवैः प्राप्य वरान् बहून् ।
ततो देवैरनुज्ञातस्त्वयोध्यां पुनरभ्यगात् ॥ १२३.२८॥
स तु मध्ये महाराजो मार्गे वीक्ष्य तदा प्रियाम् ।
कैकेय्याः कर्म तद् दृष्ट्वा विस्मयं परमं गतः ॥ १२३.२९॥
ततस्तस्यै वरान् प्रादात् त्रींस्तु नारद सा अपि ।
अनुमान्य नृपप्रोक्तं कैकेयी वाक्यमब्रवीत् ॥ १२३.३०॥