अध्याय 122, Verse 1
ब्रह्मोवाच ।
पूर्णतीर्थमिति ख्यातं गङ्गाया उत्तरे तटे ।
तत्र स्नात्वा नरोऽज्ञानात् तथापि शुभमाप्नुयात् ॥ १२२.१॥
Containing 105 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
पूर्णतीर्थमिति ख्यातं गङ्गाया उत्तरे तटे ।
तत्र स्नात्वा नरोऽज्ञानात् तथापि शुभमाप्नुयात् ॥ १२२.१॥
पूर्णतीर्थस्य माहात्म्यं वर्ण्यते केन जन्तुना ।
स्वयं संस्थीयते यत्र चक्रिणा च पिनाकिना ॥ १२२.२॥
पुरा धन्वन्तरिर्नाम कल्पादावायुषः सुतः ।
इष्ट्वा बहुविधैर्यज्ञैरश्वमेधपुरःसरैः ॥ १२२.३॥
दत्त्वा दानान्यनेकानि भुक्त्वा भोगांश्च पुष्कलान् ।
विज्ञाय भोगवैषम्यं परं वैराग्यमाश्रितः ॥ १२२.४॥
गिरिशृङ्गेऽम्बुधेः पारे तथा गङ्गानदीतटे ।
शिवविष्ण्वोर्गृहे वापि विशेषात् पुण्यसंगमे ॥ १२२.५॥
तप्तं हुतं च जप्तं च सर्वमक्षयतां व्रजेत् ।
धन्वन्तरिरिति ज्ञात्वा तत्र तेपे तपो महत् ॥ १२२.६॥
ज्ञानवैराग्यसम्पन्नो भीमेशचरणाश्रयः ।
तपश्चकार विपुलं गङ्गासागरसंगमे ॥ १२२.७॥
पुरा च निकृतो राज्ञा रणं हित्वा महासुरः ।
सहस्रमेकं वर्षाणां समुद्रं प्राविशद् भयात् ॥ १२२.८॥
धन्वन्तरौ वनं प्राप्ते राज्यं प्राप्ते तु तत्सुते ।
विरागं च गते राज्ञि ततः प्रायाद् अथार्णवात् ॥ १२२.९॥
तपस्यन्तं तमो नाम बलवान् असुरो मुने ।
गङ्गातीरं समाश्रित्य राजा धन्वन्तरिर्यतः ॥ १२२.१०॥
जपहोमरतो नित्यं ब्रह्मज्ञानपरायणः ।
तं रिपुं नाशयामीति तमः प्रायाद् अथार्णवात् ॥ १२२.११॥
नाशितो बहुशोऽनेन राज्ञा बलवता त्वहम् ।
तं रिपुं नाशयामीति तमः प्रायाद् अथार्णवात् ॥ १२२.१२॥
मायया प्रमदारूपं कृत्वा राजानमभ्यगात् ।
नृत्यगीतवती सुभ्रूर्हसन्ती चारुदर्शना ॥ १२२.१३॥
तां दृष्ट्वा चारुसर्वाङ्गीं बहुकालं नयान्विताम् ।
शान्तामनुव्रतां भक्तां कृपया चाब्रवीन् नृपः ॥ १२२.१४॥
नृप उवाच ।
कासि त्वं कस्य हेतोर्वा वर्तसे गहने वने ।
कं दृष्ट्वा हर्षसीव त्वं वद कल्याणि पृच्छते ॥ १२२.१५॥
ब्रह्मोवाच ।
प्रमदा चापि तद्वाक्यं श्रुत्वा राजानमब्रवीत् ॥ १२२.१६॥
प्रमदोवाच ।
त्वयि तिष्ठति को लोके हेतुर्हर्षस्य मे भवेत् ।
अहमिन्द्रस्य या लक्ष्मीस्त्वां दृष्ट्वा कामसम्भृतम् ॥ १२२.१७॥
हर्षाच्चरामि पुरतो राजंस्तव पुनः पुनः ।
अगण्यपुण्यविरहाद् अहं सर्वस्य दुर्लभा ॥ १२२.१८॥
ब्रह्मोवाच ।
एतद् वचो निशम्याशु तपस्त्यक्त्वा सुदुष्करम् ।
तामेव मनसा ध्यायंस्तन्निष्ठस्तत्परायणः ॥ १२२.१९॥
तदेकशरणो राजा बभूव स यदा तमः ।
अन्तर्धानं गतो ब्रह्मन् नाशयित्वा तपो बृहत् ॥ १२२.२०॥
एतस्मिन्न् अन्तरेऽहं वै वरान् दातुं समभ्यगाम् ।
तं दृष्ट्वा विह्वलीभूतं तपोभ्रष्टं यथा मृतम् ॥ १२२.२१॥
तमाश्वास्याथ विविधैर्हेतुभिर्नृपसत्तमम् ।
तव शत्रुस्तमो नाम कृत्वा तां तपसश्च्युतिम् ॥ १२२.२२॥
चरितार्थो गतो राजन् न त्वं शोचितुमर्हसि ।
आनन्दयन्ति प्रमदास्तापयन्ति च मानवम् ॥ १२२.२३॥
सर्वा एव विशेषेण किमु मायामयी तु सा ।
ततः कृताञ्जली राजा मामाह विगतभ्रमः ॥ १२२.२४॥
राजोवाच ।
किं करोमि कथं ब्रह्मंस्तपसः पारमाप्नुयाम् ॥ १२२.२५॥
ब्रह्मोवाच ।
ततस्तस्योत्तरं प्रादां देवदेवं जनार्दनम् ।
स्तुहि सर्वप्रयत्नेन ततः सिद्धिमवाप्स्यसि ॥ १२२.२६॥
स ह्यशेषजगत्स्रष्टा वेदवेद्यः पुरातनः ।
सर्वार्थसिद्धिदः पुंसां नान्योऽस्ति भुवनत्रये ॥ १२२.२७॥
स जगाम नगश्रेष्ठं हिमवन्तं नृपोत्तमः ।
कृताञ्जलिपुटो भूत्वा विष्णुं तुष्टाव भक्तितः ॥ १२२.२८॥
धन्वन्तरिरुवाच ।
जय विष्णो जयाचिन्त्य जय जिष्णो जयाच्युत ।
जय गोपाल लक्ष्मीश जय कृष्ण जगन्मय ॥ १२२.२९॥
जय भूतपते नाथ जय पन्नगशायिने ।
जय सर्वग गोविन्द जय विश्वकृते नमः ॥ १२२.३०॥