अध्याय 121, Verse 1
ब्रह्मोवाच ।
विदर्भासंगमं पुण्यं रेवतीसंगमं तथा ।
तत्र यद् वृत्तमाख्यास्ये यत् पुराणविदो विदुः ॥ १२१.१॥
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
विदर्भासंगमं पुण्यं रेवतीसंगमं तथा ।
तत्र यद् वृत्तमाख्यास्ये यत् पुराणविदो विदुः ॥ १२१.१॥
भरद्वाज इति ख्यात ऋषिरासीत् तपोधिकः ।
तस्य स्वसा रेवतीति कुरूपा विकृतस्वरा ॥ १२१.२॥
तां दृष्ट्वा विकृतां भ्राता भरद्वाजः प्रतापवान् ।
चिन्तया परया युक्तो गङ्गाया दक्षिणे तटे ॥ १२१.३॥
कस्मै दद्यामिमां कन्यां स्वसारं भीषणाकृतिम् ।
न कश्चित् प्रतिगृह्णाति दातव्या च स्वसा तथा ॥ १२१.४॥
अहो भूयान् न कस्यापि कन्या दुःखैककारणम् ।
मरणं जीवतोऽप्यस्य प्राणिनस्तु पदे पदे ॥ १२१.५॥
एवं विमृशतस्तस्य स्वाश्रमे चातिशोभने ।
द्रष्टुं मुनिवरः प्रायाद् भरद्वाजं यतव्रतम् ॥ १२१.६॥
द्व्यष्टवर्षः शुभवपुः शान्तो दान्तो गुणाकरः ।
नाम्ना कठ इति ख्यातो भरद्वाजं ननाम सः ॥ १२१.७॥
विधिवत् पूज्य तं विप्रं भरद्वाजः कठं तदा ।
तस्यागमनकार्यं च पप्रच्छ पुरतः स्थितः ॥ १२१.८॥
कठोऽप्याह भरद्वाजं विद्यार्थ्यहमुपागतः ।
तथा च दर्शनाकाङ्क्षी यद् युक्तं तद् विधीयताम् ॥ १२१.९॥
भरद्वाजः कठं प्राह अधीष्व यद् अभीप्सितम् ।
पुराणं स्मृतयो वेदा धर्मस्थानान्यनेकशः ॥ १२१.१०॥
सर्वं वेद्मि महाप्राज्ञ रुचिरं वद मा चिरम् ।
कुलीनो धर्मनिरतो गुरुशुश्रूषणे रतः ।
अभिमानी श्रुतधरः शिष्यः पुण्यैरवाप्यते ॥ १२१.११॥
कठ उवाच ।
अध्यापयस्व भो ब्रह्मञ् शिष्यं मां वीतकल्मषम् ।
शुश्रूषणरतं भक्तं कुलीनं सत्यवादिनम् ॥ १२१.१२॥
ब्रह्मोवाच ।
तथेत्युक्त्वा भरद्वाजः प्रादाद् विद्यामशेषतः ।
प्राप्तविद्यः कठः प्रीतो भरद्वाजमथाब्रवीत् ॥ १२१.१३॥
कठ उवाच ।
इच्छेयं दक्षिणां दातुं गुरो तव मनःप्रियाम् ।
वदस्व दुर्लभं वापि गुरो तुभ्यं नमोऽस्तु ते ॥ १२१.१४॥
विद्यां प्राप्यापि ये मोहात् स्वगुरोः पारितोषिकम् ।
न प्रयच्छन्ति निरयं ते यान्त्याचन्द्रतारकम् ॥ १२१.१५॥
भरद्वाज उवाच ।
गृहाण कन्यां विधिवद् भार्यां कुरु मम स्वसाम् ।
अस्यां प्रीत्या वर्तितव्यं याचेयं दक्षिणामिमाम् ॥ १२१.१६॥
कठ उवाच ।
भ्रातृवत् पुत्रवच्चापि शिष्यः स्यात् तु गुरोः सदा ।
गुरुश्च पितृवच्च स्यात् सम्बन्धोऽत्र कथं भवेत् ॥ १२१.१७॥
भरद्वाज उवाच ।
मद्वाक्यं कुरु सत्यं त्वं ममाज्ञा तव दक्षिणा ।
सर्वं स्मृत्वा कठाद्य त्वं रेवतीं भर तन्मनाः ॥ १२१.१८॥
ब्रह्मोवाच ।
तथेत्युक्त्वा गुरोर्वाक्यात् कठो जग्राह पाणिना ।
रेवतीं विधिवद् दत्तां तां समीक्ष्य कठस्त्वथ ॥ १२१.१९॥
तत्रैव पूजयामास देवेशं शंकरं तदा ।
रेवत्या रूपसम्पत्त्यै शिवप्रीत्यै च रेवती ॥ १२१.२०॥
सुरूपा चारुसर्वाङ्गी न रूपेणोपमीयते ।
अभिषेकोदकं तत्र रेवत्या यद् विनिःसृतम् ॥ १२१.२१॥
साभवत् तत्र गङ्गायां तस्मात् तन्नामतो नदी ।
रेवतीति समाख्याता रूपसौभाग्यदायिनी ॥ १२१.२२॥
पुनर्दर्भैश्च विविधैरभिषेकं चकार सः ।
पुण्यरूपत्वसंसिद्ध्यै विदर्भा तद् अभून् नदी ॥ १२१.२३॥
श्रद्धया संगमे स्नात्वा रेवतीगङ्गयोर्नरः ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ १२१.२४॥
तथा विदर्भागौतम्योः संगमे श्रद्धया मुने ।
स्नानं करोत्यसौ याति भुक्तिं मुक्तिं च तत्क्षणात् ॥ १२१.२५॥
उभयोस्तीरयोस्तत्र तीर्थानां शतमुत्तमम् ।
सर्वपापक्षयकरं सर्वसिद्धिप्रदायकम् ॥ १२१.२६॥