अध्याय 120, Verse 1
ब्रह्मोवाच ।
धान्यतीर्थमिति ख्यातं सर्वकामप्रदं नृणाम् ।
सुभिक्षं क्षेमदं पुंसां सर्वापद्विनिवारणम् ॥ १२०.१॥
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
धान्यतीर्थमिति ख्यातं सर्वकामप्रदं नृणाम् ।
सुभिक्षं क्षेमदं पुंसां सर्वापद्विनिवारणम् ॥ १२०.१॥
ओषध्यः सोमराजानं पतिं प्राप्य मुदान्विताः ।
ऊचुः सर्वस्य लोकस्य गङ्गायाश्चेप्सितं वचः ॥ १२०.२॥
ओषध्य ऊचुः ।
वैदिकी पुण्यगाथास्ति यां वै वेदविदो विदुः ।
भूमिं सस्यवतीं कश्चिन् मातरं मातृसम्मिताम् ॥ १२०.३॥
गङ्गासमीपे यो दद्यात् सर्वकामान् अवाप्नुयात् ।
भूमिं सस्यवतीं गाश्च ओषधीश्च मुदान्वितः ॥ १२०.४॥
विष्णुब्रह्मेशरूपाय यो दद्याद् भक्तिमान् नरः ।
सर्वं तद् अक्षयं विद्यात् सर्वकामान् अवाप्नुयात् ॥ १२०.५॥
ओषध्यः सोमराजन्याः सोमश्चाप्योषधीपतिः ।
इति ज्ञात्वा ब्रह्मविद ओषधीर्यः प्रदास्यति ॥ १२०.६॥
सर्वान् कामान् अवाप्नोति ब्रह्मलोके महीयते ।
ता एव सोमराजन्याः प्रीताः प्रोचुः पुनः पुनः ॥ १२०.७॥
ओषध्य ऊचुः ।
योऽस्मान् ददाति गङ्गायां तं राजन् पारयामसि ।
त्वमुत्तमश्चौषधीश त्वदधीनं चराचरम् ॥ १२०.८॥
ओषधयः संवदन्ते सोमेन सह राज्ञा ।
योऽस्मान् ददाति विप्रेभ्यस्तं राजन् पारयामसि ॥ १२०.९॥
वयं च ब्रह्मरूपिण्यः प्राणरूपिण्य एव च ।
योऽस्मान् ददाति विप्रेभ्यस्तं राजन् पारयामसि ॥ १२०.१०॥
अस्मान् ददाति यो नित्यं ब्राह्मणेभ्यो जितव्रतः ।
उपास्तिरस्ति सास्माकं तं राजन् पारयामसि ॥ १२०.११॥
स्थावरं जङ्गमं किंचिद् अस्माभिर्व्यापृतं जगत् ।
योऽस्मान् ददाति विप्रेभ्यस्तं राजन् पारयामसि ॥ १२०.१२॥
हव्यं कव्यं यद् अमृतं यत् किंचिद् उपभुज्यते ।
तद्गरीयश्च यो दद्यात् तं राजन् पारयामसि ॥ १२०.१३॥
इत्येतां वैदिकीं गाथां यः शृणोति स्मरेत वा ।
पठते भक्तिमापन्नस्तं राजन् पारयामसि ॥ १२०.१४॥
ब्रह्मोवाच ।
यत्रैषा पठिता गाथा सोमेन सह राज्ञा ।
गङ्गातीरे चौषधीभिर्धान्यतीर्थं तद् उच्यते ॥ १२०.१५॥
ततः प्रभृति तत् तीर्थमौषध्यं सौम्यमेव च ।
अमृतं वेदगाथं च मातृतीर्थं तथैव च ॥ १२०.१६॥
एषु स्नानं जपो होमो दानं च पितृतर्पणम् ।
अन्नदानं तु यः कुर्यात् तद् आनन्त्याय कल्पते ॥ १२०.१७॥
षट्शताधिकसाहस्रं तीर्थानां तीरयोर्द्वयोः ।
सर्वपापनिहन्तृणां सर्वसम्पद्विवर्धनम् ॥ १२०.१८॥