अध्याय 12, Verse 1
लोमहर्षण उवाच ।
उत्पन्नाः पितृकन्यायां विरजायां महौजसः ।
नहुषस्य तु दायादाः षड् इन्द्रोपमतेजसः ॥ १२.१॥
Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.
लोमहर्षण उवाच ।
उत्पन्नाः पितृकन्यायां विरजायां महौजसः ।
नहुषस्य तु दायादाः षड् इन्द्रोपमतेजसः ॥ १२.१॥
यतिर्ययातिः संयातिर् ।
आयातिः पार्श्वकोऽभवत् ।
यतिर्ज्येष्ठस्तु तेषां वै ययातिस्तु ततः परम् ॥ १२.२॥
ककुत्स्थकन्यां गां नाम लेभे परमधार्मिकः ।
यतिस्तु मोक्षमास्थाय ब्रह्मभूतोऽभवन् मुनिः ॥ १२.३॥
तेषां ययातिः पञ्चानां विजित्य वसुधामिमाम् ।
देवयानीमुशनसः सुतां भार्यामवाप सः ॥ १२.४॥
शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः ।
यदुं च तुर्वसुं चैव देवयानी व्यजायत ॥ १२.५॥
द्रुह्यं चानुं च पुरुं च शर्मिष्ठा वार्षपर्वणी ।
तस्मै शक्रो ददौ प्रीतो रथं परमभास्वरम् ॥ १२.६॥
अङ्गदं काञ्चनं दिव्यं दिव्यैः परमवाजिभिः ।
युक्तं मनोजवैः शुभ्रैर्येन कार्यं समुद्वहन् ॥ १२.७॥
स तेन रथमुख्येन षड्रात्रेणाजयन् महीम् ।
ययातिर्युधि दुर्धर्षस्तथा देवान् सदानवान् ॥ १२.८॥
सरथः कौरवाणां तु सर्वेषामभवत् तदा ।
संवर्तवसुनाम्नस्तु कौरवाज्जनमेजयात् ॥ १२.९॥
कुरोः पुत्रस्य राजेन्द्र+ ।
राज्ञः पारीक्षितस्य ह ।
जगाम स रथो नाशं शापाद् गर्गस्य धीमतः ॥ १२.१०॥
गर्गस्य हि सुतं बालं स राजा जनमेजयः ।
कालेन हिंसयामास ब्रह्महत्यामवाप सः ॥ १२.११॥
स लोहगन्धी राजर्षिः परिधावन्न् इतस्ततः ।
पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित् ॥ १२.१२॥
ततः स दुःखसंतप्तो नालभत् संविदं क्वचित् ।
विप्रेन्द्रं शौनकं राजा शरणं प्रत्यपद्यत ॥ १२.१३॥
याजयामास च ज्ञानी शौनको जनमेजयम् ।
अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः ॥ १२.१४॥
स लोहगन्धो व्यनशत् तस्यावभृथमेत्य च ।
स च दिव्यरथो राज्ञो वशश्चेदिपतेस्तदा ॥ १२.१५॥
दत्तः शक्रेण तुष्टेन लेभे तस्माद् बृहद्रथः ।
बृहद्रथात् क्रमेणैव गतो बार्हद्रथं नृपम् ॥ १२.१६॥
ततो हत्वा जरासंधं भीमस्तं रथमुत्तमम् ।
प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ॥ १२.१७॥
सप्तद्वीपां ययातिस्तु जित्वा पृथ्वीं ससागराम् ।
विभज्य पञ्चधा राज्यं पुत्राणां नाहुषस्तदा ॥ १२.१८॥
ययातिर्दिशि पूर्वस्यां यदुं ज्येष्ठं न्ययोजयत् ।
मध्ये पुरुं च राजानमभ्यषिञ्चत् स नाहुषः ॥ १२.१९॥
दिशि दक्षिणपूर्वस्यां तुर्वसुं मतिमान् नृपः ।
तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ॥ १२.२०॥
यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते ।
प्रजास्तेषां पुरस्तात् तु वक्ष्यामि मुनिसत्तमाः ॥ १२.२१॥
धनुर्न्यस्य पृषत्कांश्च पञ्चभिः पुरुषर्षभैः ।
जरावान् अभवद् राजा भारमावेश्य बन्धुषु ॥ १२.२२॥
निक्षिप्तशस्त्रः पृथिवीं चचार पृथिवीपतिः ।
प्रीतिमान् अभवद् राजा ययातिरपराजितः ॥ १२.२३॥
एवं विभज्य पृथिवीं ययातिर्यदुमब्रवीत् ।
जरां मे प्रतिगृह्णीष्व पुत्र कृत्यान्तरेण वै ॥ १२.२४॥
तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् ।
जरां त्वयि समाधाय तं यदुः प्रत्युवाच ह ॥ १२.२५॥
यदुरुवाच ।
अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता ।
अनपाकृत्य तां राजन् न ग्रहीष्यामि ते जराम् ॥ १२.२६॥
जरायां बहवो दोषाः पानभोजनकारिताः ।
तस्माज्जरां न ते राजन् ग्रहीतुमहमुत्सहे ॥ १२.२७॥
सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप ।
प्रतिग्रहीतुं धर्मज्ञ पुत्रमन्यं वृणीष्व वै ॥ १२.२८॥
स एवमुक्तो यदुना राजा कोपसमन्वितः ।
उवाच वदतां श्रेष्ठो ययातिर्गर्हयन् सुतम् ॥ १२.२९॥
ययातिरुवाच ।
क आश्रमस्तवान्योऽस्ति को वा धर्मो विधीयते ।
मामनादृत्य दुर्बुद्धे यद् अहं तव देशिकः ॥ १२.३०॥