अध्याय 119, Verse 1
ब्रह्मोवाच ।
सोमतीर्थमिति ख्यातं तद् अप्युक्तं महात्मभिः ।
तत्र स्नानेन दानेन सोमपानफलं लभेत् ॥ ११९.१॥
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
सोमतीर्थमिति ख्यातं तद् अप्युक्तं महात्मभिः ।
तत्र स्नानेन दानेन सोमपानफलं लभेत् ॥ ११९.१॥
जगतां मातरः पूर्वमोषध्यो जीवसम्मताः ।
ममापि मातरो देव्यः पूर्वासां पूर्ववत्तराः ॥ ११९.२॥
आसु प्रतिष्ठितो धर्मः स्वाध्यायो यज्ञकर्म च ।
आभिरेव धृतं सर्वं त्रैलोक्यं सचराचरम् ॥ ११९.३॥
अशेषरोगोपशमो भवत्याभिरसंशयम् ।
अन्नमेताभिरेव स्याद् अशेषप्राणरक्षणम् ।
अत्रौषध्यो जगद्वन्द्या मामूचुरनहंकृताः ॥ ११९.४॥
ओषध्य ऊचुः ।
अस्माकं त्वं पतिं देहि राजानं सुरसत्तम ॥ ११९.५॥
ब्रह्मोवाच ।
तच्छ्रुत्वा वचनं तासां मयोक्ता ओषधीरिदम् ।
पतिं प्राप्स्यथ सर्वाश्च राजानं प्रीतिवर्धनम् ॥ ११९.६॥
राजानमिति तच्छ्रुत्वा ता मामूचुः पुनर्मुने ।
गन्तव्यं क्व पुनश्चोक्ता गौतमीं यान्तु मातरः ॥ ११९.७॥
तुष्टायामथ तस्यां वो राजा स्याल्लोकपूजितः ।
ताश्च गत्वा मुनिश्रेष्ठ तुष्टुवुर्गौतमीं नदीम् ॥ ११९.८॥
ओषध्य ऊचुः ।
किं वाकरिष्यन् भववर्तिनो जना ।
नानाघसंघाभिभवाच्च दुःखिताः ।
न चागमिष्यद् भवती भुवं चेत् ।
पुण्योदके गौतमि शम्भुकान्ते ॥ ११९.९॥
को वेत्ति भाग्यं नरदेहभाजाम् ।
महीगतानां सरितामधीशे ।
एषां महापातकसंघहन्त्री ।
त्वमम्ब गङ्गे सुलभा सदैव ॥ ११९.१०॥
न ते विभूतिं ननु वेत्ति कोऽपि ।
त्रैलोक्यवन्द्ये जगदम्ब गङ्गे ।
गौरीसमालिङ्गितविग्रहोऽपि ।
धत्ते स्मरारिः शिरसापि यत् त्वाम् ॥ ११९.११॥
नमोऽस्तु ते मातरभीष्टदायिनि ।
नमोऽस्तु ते ब्रह्ममयेऽघनाशिनि ।
नमोऽस्तु ते विष्णुपदाब्जनिःसृते ।
नमोऽस्तु ते शम्भुजटाविनिःसृते ॥ ११९.१२॥
ब्रह्मोवाच ।
इत्येवं स्तुवतामीशा किं ददामीत्यवोचत ॥ ११९.१३॥
ओषध्य ऊचुः ।
पतिं देहि जगन्माता राजानमतितेजसम् ॥ ११९.१४॥
ब्रह्मोवाच ।
तदोवाच नदी गङ्गा ओषधीस्ता इदं वचः ॥ ११९.१५॥
गङ्गोवाच ।
अहं चामृतरूपास्मि ओषध्यो मातरोऽमृताः ।
तादृशं चामृतात्मानं पतिं सोमं ददामि वः ॥ ११९.१६॥
ब्रह्मोवाच ।
देवाश्च ऋषयो वाक्यं मेनिरे सोम एव च ।
ओषध्यश्चापि तद् वाक्यं ततो जग्मुः स्वमालयम् ॥ ११९.१७॥
यत्र चापुर्महौषध्यो राजानममृतात्मकम् ।
सोमं समस्तसंताप+ ।
पापसंघनिवारकम् ॥ ११९.१८॥
सोमतीर्थं तु तत् ख्यातं सोमपानफलप्रदम् ।
तत्र स्नानेन दानेन पितरः स्वर्गमाप्नुयुः ॥ ११९.१९॥
य इदं शृणुयान् नित्यं पठेद् वा भक्तितः स्मरेत् ।
दीर्घमायुरवाप्नोति स पुत्री धनवान् भवेत् ॥ ११९.२०॥