Brahma Purana

अध्याय 118

Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.

Brahma Purana

अध्याय 118, Verse 1

ब्रह्मोवाच ।

अश्वत्थतीर्थमाख्यातं पिप्पलं च ततः परम् ।

उत्तरे मन्दतीर्थं तु तत्र व्युष्टिमितः श‍ृणु ॥ ११८.१॥

Brahma Purana

अध्याय 118, Verse 2

पुरा त्वगस्त्यो भगवान् दक्षिणाशापतिः प्रभुः ।

देवैस्तु प्रेरितः पूर्वं विन्ध्यस्य प्रार्थनं प्रति ॥ ११८.२॥

Brahma Purana

अध्याय 118, Verse 3

स शनैर्विन्ध्यमभ्यागात् सहस्रमुनिभिर्वृतः ।

तमागत्य नगश्रेष्ठं बहुवृक्षसमाकुलम् ॥ ११८.३॥

Brahma Purana

अध्याय 118, Verse 4

स्पर्धिनं मेरुभानुभ्यां विन्ध्यं श‍ृङ्गशतैर्वृतम् ।

अत्युन्नतं नगं धीरो लोपामुद्रापतिर्मुनिः ॥ ११८.४॥

Brahma Purana

अध्याय 118, Verse 5

कृतातिथ्यो द्विजैः सार्धं प्रशस्य च नगं पुनः ।

इदमाह मुनिश्रेष्ठो देवकार्यार्थसिद्धये ॥ ११८.५॥

Brahma Purana

अध्याय 118, Verse 6

अगस्त्य उवाच ।

अहं यामि नगश्रेष्ठ मुनिभिस्तत्त्वदर्शिभिः ।

तीर्थयात्रां करोमीति दक्षिणाशां व्रजाम्यहम् ॥ ११८.६॥

Brahma Purana

अध्याय 118, Verse 7

देहि मार्गं नगपते आतिथ्यं देहि याचते ।

यावद् आगमनं मे स्यात् स्थातव्यं तावद् एव हि ॥ ११८.७॥

Brahma Purana

अध्याय 118, Verse 8

नान्यथा भवितव्यं ते तथेत्याह नगोत्तमः ।

आक्रामन् दक्षिणामाशां तैर्वृतो मुनिभिर्मुनिः ॥ ११८.८॥

Brahma Purana

अध्याय 118, Verse 9

शनैः स गौतमीमागात् सत्त्रयागाय दीक्षितः ।

यावत् संवत्सरं सत्त्रमकरोद् ऋषिभिर्वृतः ॥ ११८.९॥

Brahma Purana

अध्याय 118, Verse 10

कैटभस्य सुतौ पापौ राक्षसौ धर्मकण्टकौ ।

अश्वत्थः पिप्पलश्चेति विख्यातौ त्रिदशालये ॥ ११८.१०॥

Brahma Purana

अध्याय 118, Verse 11

अश्वत्थोऽश्वत्थरूपेण पिप्पलो ब्रह्मरूपधृक् ।

तावुभावन्तरं प्रेप्सू यज्ञविध्वंसनाय तु ॥ ११८.११॥

Brahma Purana

अध्याय 118, Verse 12

कुरुतां काङ्क्षितं रूपं दानवौ पापचेतसौ ।

अश्वत्थो वृक्षरूपेण पिप्पलो ब्राह्मणाकृतिः ॥ ११८.१२॥

Brahma Purana

अध्याय 118, Verse 13

उभौ तौ ब्राह्मणान् नित्यं पीडयेतां तपोधन ।

आलभन्ते च येऽश्वत्थं तांस्तान् अश्नात्यसौ तरुः ॥ ११८.१३॥

Brahma Purana

अध्याय 118, Verse 14

पिप्पलः सामगो भूत्वा शिष्यान् अश्नाति राक्षसः ।

तस्माद् अद्यापि विप्रेषु सामगोऽतीव निष्कृपः ॥ ११८.१४॥

Brahma Purana

अध्याय 118, Verse 15

क्षीयमाणान् द्विजान् दृष्ट्वा मुनयो राक्षसाविमौ ।

इति बुद्ध्वा महाप्राज्ञा दक्षिणं तीरमाश्रितम् ॥ ११८.१५॥

Brahma Purana

अध्याय 118, Verse 16

सौरिं शनैश्चरं मन्दं तपस्यन्तं धृतव्रतम् ।

गत्वा मुनिगणाः सर्वे रक्षःकर्म न्यवेदयन् ॥ ११८.१६॥

Brahma Purana

अध्याय 118, Verse 17

सौरिर्मुनिगणान् आह पूर्णे तपसि मे द्विजाः ।

राक्षसौ हन्म्यपूर्णे तु तपस्यक्षम एव हि ॥ ११८.१७॥

Brahma Purana

अध्याय 118, Verse 18

पुनः प्रोचुर्मुनिगणा दास्यामस्ते तपो महत् ।

इत्युक्तो ब्राह्मणैः सौरिः कृतमित्याह तान् अपि ॥ ११८.१८॥

Brahma Purana

अध्याय 118, Verse 19

सौरिर्ब्राह्मणवेषेण प्रायाद् अश्वत्थरूपिणम् ।

राक्षसं ब्राह्मणो भूत्वा प्रदक्षिणमथाकरोत् ॥ ११८.१९॥

Brahma Purana

अध्याय 118, Verse 20

प्रदक्षिणं तु कुर्वाणं मेने ब्राह्मणमेव तम् ।

नित्यवद् राक्षसः पापो भक्षयामास मायया ॥ ११८.२०॥

Brahma Purana

अध्याय 118, Verse 21

तस्य कायं समाविश्य चक्षुषान्त्राण्यपश्यत ।

दृष्टः स राक्षसः पापो मन्देन रविसूनुना ॥ ११८.२१॥

Brahma Purana

अध्याय 118, Verse 22

भस्मीभूतः क्षणेनैव गिरिर्वज्रहतो यथा ।

अश्वत्थं भस्मसात् कृत्वा अन्यं ब्राह्मणरूपिणम् ॥ ११८.२२॥

Brahma Purana

अध्याय 118, Verse 23

राक्षसं पापनिलयमेक एव तमभ्यगात् ।

अधीयानो विप्र इव शिष्यरूपो विनीतवत् ॥ ११८.२३॥

Brahma Purana

अध्याय 118, Verse 24

पिप्पलः पूर्ववच्चापि भक्षयामास भानुजम् ।

स भक्षितः पूर्ववच्च कुक्षावन्त्राण्यवैक्षत ॥ ११८.२४॥

Brahma Purana

अध्याय 118, Verse 25

तेनालोकितमात्रोऽसौ राक्षसो भस्मसाद् अभूत् ।

उभौ हत्वा भानुसुतः किं कृत्यं मे वदन्त्वथ ॥ ११८.२५॥

Brahma Purana

अध्याय 118, Verse 26

मुनयो जातसंहर्षाः सर्व एव तपस्विनः ।

ततः प्रसन्ना ह्यभवन्न् ऋषयोऽगस्त्यपूर्वकाः ॥ ११८.२६॥

Brahma Purana

अध्याय 118, Verse 27

वरान् ददुर्यथाकामं सौरये मन्दगामिने ।

स प्रीतो ब्राह्मणान् आह शनिः सूर्यसुतो बली ॥ ११८.२७॥

Brahma Purana

अध्याय 118, Verse 28

सौरिरुवाच ।

मद्द्वारे नियता ये च कुर्वन्त्यश्वत्थलम्भनम् ।

तेषां सर्वाणि कार्याणि स्युः पीडा मद्भवा न च ॥ ११८.२८॥

Brahma Purana

अध्याय 118, Verse 29

तीर्थे चाश्वत्थसंज्ञे वै स्नानं कुर्वन्ति ये नराः ।

तेषां सर्वाणि कार्याणि भवेयुरपरो वरः ॥ ११८.२९॥

Brahma Purana

अध्याय 118, Verse 30

मन्दवारे तु येऽश्वत्थं प्रातरुत्थाय मानवाः ।

आलभन्ते च तेषां वै ग्रहपीडा व्यपोहतु ॥ ११८.३०॥