अध्याय 117, Verse 1
ब्रह्मोवाच ।
आत्मतीर्थमिति ख्यातं भुक्तिमुक्तिप्रदं नृणाम् ।
तस्य प्रभावं वक्ष्यामि यत्र ज्ञानेश्वरः शिवः ॥ ११७.१॥
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
आत्मतीर्थमिति ख्यातं भुक्तिमुक्तिप्रदं नृणाम् ।
तस्य प्रभावं वक्ष्यामि यत्र ज्ञानेश्वरः शिवः ॥ ११७.१॥
दत्त इत्यपि विख्यातः सोऽत्रिपुत्रो हरप्रियः ।
दुर्वाससः प्रियो भ्राता सर्वज्ञानविशारदः ।
स गत्वा पितरं प्राह विनयेन प्रणम्य च ॥ ११७.२॥
दत्त उवाच ।
ब्रह्मज्ञानं कथं मे स्यात् कं पृच्छामि
ब्रह्मोवाच ।
तच्छ्रुत्वात्रिः पुत्रवाक्यं ध्यात्वा
अत्रिरुवाच ।
गौतमीं पुत्र गच्छ त्वं तत्र स्तुहि महेश्वरम् ।
स तु प्रीतो यदैव स्यात् तदा ज्ञानमवाप्स्यसि ॥ ११७.५॥
ब्रह्मोवाच ।
तथेत्युक्त्वा तदात्रेयो गङ्गां गत्वा शुचिर्यतः ।
कृताञ्जलिपुटो भूत्वा भक्त्या तुष्टाव शंकरम् ॥ ११७.६॥
दत्त उवाच ।
संसारकूपे पतितोऽस्मि दैवान् ।
मोहेन गुप्तो भवदुःखपङ्के ।
अज्ञाननाम्ना तमसावृतोऽहम् ।
परं न विन्दामि सुराधिनाथ ॥ ११७.७॥
भिन्नस्त्रिशूलेन बलीयसाहम् ।
पापेन चिन्ताक्षुरपाटितश्च ।
तप्तोऽस्मि पञ्चेन्द्रियतीव्रतापैः ।
श्रान्तोऽस्मि संतारय सोमनाथ ॥ ११७.८॥
बद्धोऽस्मि दारिद्र्यमयैश्च बन्धैर् ।
हतोऽस्मि रोगानलतीव्रतापैः ।
क्रान्तोऽस्म्यहं मृत्युभुजंगमेन ।
भीतो भृशं किं करवाणि शम्भो ॥ ११७.९॥
भवाभवाभ्यामतिपीडितोऽहम् ।
तृष्णाक्षुधाभ्यां च रजस्तमोभ्याम् ।
ईदृक्षया जरया चाभिभूतः ।
पश्यावस्थां कृपया मेऽद्य नाथ ॥ ११७.१०॥
कामेन कोपेन च मत्सरेण ।
दम्भेन दर्पादिभिरप्यनेकैः ।
एकैकशः कष्टगतोऽस्मि विद्धस्- ।
त्वं नाथवद् वारय नाथ शत्रून् ॥ ११७.११॥
कस्यापि कश्चित् पतितस्य पुंसो ।
दुःखप्रणोदी भवतीति सत्यम् ।
विना भवन्तं मम सोमनाथ ।
कुत्रापि कारुण्यवचोऽपि नास्ति ॥ ११७.१२॥
तावत् स कोपो भयमोहदुःखान्य् ।
अज्ञानदारिद्र्यरुजस्तथैव ।
कामादयो मृत्युरपीह यावन् ।
नमः शिवायेति न वच्मि वाक्यम् ॥ ११७.१३॥
न मेऽस्ति धर्मो न च मेऽस्ति भक्तिर् ।
नाहं विवेकी करुणा कुतो मे ।
दातासि तेनाशु शरण्य चित्ते ।
निधेहि सोमेति पदं मदीये ॥ ११७.१४॥
याचे न चाहं सुरभूपतित्वम् ।
हृत्पद्ममध्ये मम सोमनाथ ।
श्रीसोमपादाम्बुजसंनिधानम् ।
याचे विचार्यैव च तत् कुरुष्व ॥ ११७.१५॥
यथा तवाहं विदितोऽस्मि पापस्- ।
तथापि विज्ञापनमाशृणुष्व ।
संश्रूयते यत्र वचः शिवेति ।
तत्र स्थितिः स्यान् मम सोमनाथ ॥ ११७.१६॥
गौरीपते शंकर सोमनाथ ।
विश्वेश कारुण्यनिधेऽखिलात्मन् ।
संस्तूयते यत्र सदेति तत्र ।
केषामपि स्यात् कृतिनां निवासः ॥ ११७.१७॥
ब्रह्मोवाच ।
इत्यात्रेयस्तुतिं श्रुत्वा तुतोष भगवान् हरः ।
वरदोऽस्मीति तं प्राह योगिनं विश्वकृद् भवः ॥ ११७.१८॥
आत्रेय उवाच ।
आत्मज्ञानं च मुक्तिं च भुक्तिं च विपुलां त्वयि ।
तीर्थस्यापि च माहात्म्यं वरोऽयं त्रिदशार्चित ॥ ११७.१९॥
ब्रह्मोवाच ।
एवमस्त्विति तं शम्भुरुक्त्वा चान्तरधीयत ।
ततः प्रभृति तत् तीर्थमात्मतीर्थं विदुर्बुधाः ।
तत्र स्नानेन दानेन मुक्तिः स्याद् इह नारद ॥ ११७.२०॥