अध्याय 116, Verse 1
ब्रह्मोवाच ।
महानलमिति ख्यातं वडवानलमुच्यते ।
महानलो यत्र देवो वडवा यत्र सा नदी ॥ ११६.१॥
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
महानलमिति ख्यातं वडवानलमुच्यते ।
महानलो यत्र देवो वडवा यत्र सा नदी ॥ ११६.१॥
तत् तीर्थं पुत्र वक्ष्यामि मृत्युदोषजरापहम् ।
पुरासन् नैमिषारण्ये ऋषयः सत्त्रकारिणः ॥ ११६.२॥
शमितारं च ऋषयो मृत्युं चक्रुस्तपस्विनः ।
वर्तमाने सत्त्रयागे मृत्यौ शमितरि स्थिते ॥ ११६.३॥
न ममार तदा कश्चिद् उभयं स्थास्नु जङ्गमम् ।
विना पशून् मुनिश्रेष्ठ मर्त्यं चामर्त्यतां गतम् ॥ ११६.४॥
ततस्त्रिविष्टपे शून्ये मर्त्ये चैवातिसम्भृते ।
मृत्युनोपेक्षिते देवा राक्षसान् ऊचिरे तदा ॥ ११६.५॥
देवा ऊचुः ।
गच्छध्वम् ऋषिसत्त्रं तन् नाशयध्वं महाध्वरम् ।
ब्रह्मोवाच ।
इति देववचः श्रुत्वा प्रोचुस्ते राक्षसाः सुरान् ॥ ११६.६॥
असुरा ऊचुः ।
विध्वंसयामस्तं यज्ञमस्माकं किं फलं ततः ।
प्रवर्तते विना हेतुं न कोऽपि क्वापि जातुचित् ॥ ११६.७॥
ब्रह्मोवाच ।
देवा अप्यसुरान् ऊचुर्यज्ञार्धं भवतामपि ।
भवेद् एव ततो यान्तु ऋषीणां सत्त्रमुत्तमम् ॥ ११६.८॥
ते श्रुत्वा त्वरिताः सर्वे यत्र यज्ञः प्रवर्तते ।
जग्मुस्तत्र विनाशाय देववाक्याद् विशेषतः ॥ ११६.९॥
तज्ज्ञात्वा ऋषयो मृत्युमाहुः किं कुर्महे वयम् ।
आगता देववचनाद् राक्षसा यज्ञनाशिनः ॥ ११६.१०॥
मृत्युना सह सम्मन्त्र्य नैमिषारण्यवासिनः ।
सर्वे त्यक्त्वा स्वाश्रमं तं शमित्रा सह नारद ॥ ११६.११॥
अग्निमात्रमुपादाय त्यक्त्वा पात्रादिकं तु यत् ।
क्रतुनिष्पत्तये जग्मुर्गौतमीं प्रति सत्वराः ॥ ११६.१२॥
तत्र स्नात्वा महेशानं रक्षणायोपतस्थिरे ।
कृताञ्जलिपुटास्ते तु तुष्टुवुस्त्रिदशेश्वरम् ॥ ११६.१३॥
ऋषय ऊचुः ।
यो लीलया विश्वमिदं चकार ।
धाता विधाता भुवनत्रयस्य ।
यो विश्वरूपः सदसत्परो यः ।
सोमेश्वरं तं शरणं व्रजामः ॥ ११६.१४॥
मृत्युरुवाच ।
इच्छामात्रेण यः सर्वं हन्ति पाति करोति च ।
तमहं त्रिदशेशानं शरणं यामि शंकरम् ॥ ११६.१५॥
महानलं महाकायं महानागविभूषणम् ।
महामूर्तिधरं देवं शरणं यामि शंकरम् ॥ ११६.१६॥
ब्रह्मोवाच ।
ततः प्रोवाच भगवान् मृत्यो का प्रीतिरस्तु
मृत्युरुवाच ।
राक्षसेभ्यो भयं घोरमापन्नं त्रिदशेश्वर ।
यज्ञमस्मांश्च रक्षस्व यावत् सत्त्रं समाप्यते ॥ ११६.१८॥
ब्रह्मोवाच ।
तथा चकार भगवांस्त्रिनेत्रो वृषभध्वजः ।
शमित्रा मृत्युना सत्त्रम् ऋषीणां पूर्णतां ययौ ॥ ११६.१९॥
हविषां भागधेयाय आजग्मुरमराः क्रमात् ।
तान् अवोचन् मुनिगणाः संक्षुब्धा मृत्युना सह ॥ ११६.२०॥
ऋषय ऊचुः ।
अस्मन्मखविनाशाय राक्षसाः प्रेषिता यतः ।
तस्माद् भवद्भ्यः पापिष्ठा राक्षसाः सन्तु शत्रवः ॥ ११६.२१॥
ब्रह्मोवाच ।
ततः प्रभृति देवानां राक्षसा वैरिणोऽभवन् ।
कृत्यां च वडवां तत्र देवाश्च ऋषयोऽमलाः ॥ ११६.२२॥
मृत्योर्भार्या भव त्वं तामित्युक्त्वा तेऽभ्यषेचयन् ।
अभिषेकोदकं यत् तु सा नदी वडवाभवत् ॥ ११६.२३॥
मृत्युना स्थापितं लिङ्गं महानलमिति श्रुतम् ।
ततः प्रभृति तत् तीर्थं वडवासंगमं विदुः ॥ ११६.२४॥
महानलो यत्र देवस्तत् तीर्थं भुक्तिमुक्तिदम् ।
सहस्रं तत्र तीर्थानां सर्वाभीष्टप्रदायिनाम् ।
उभयोस्तीरयोस्तत्र स्मरणाद् अघघातिनाम् ॥ ११६.२५॥