अध्याय 115, Verse 1
ब्रह्मोवाच ।
शेषतीर्थमिति ख्यातं सर्वकामप्रदायकम् ।
तस्य रूपं प्रवक्ष्यामि यन् मया परिभाषितम् ॥ ११५.१॥
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
शेषतीर्थमिति ख्यातं सर्वकामप्रदायकम् ।
तस्य रूपं प्रवक्ष्यामि यन् मया परिभाषितम् ॥ ११५.१॥
शेषो नाम महानागो रसातलपतिः प्रभुः ।
सर्वनागैः परिवृतो रसातलमथाभ्यगात् ॥ ११५.२॥
राक्षसा दैत्यदनुजाः प्रविष्टा ये रसातलम् ।
तैर्निरस्तो भोगिपतिर्मामुवाचाथ विह्वलः ॥ ११५.३॥
शेष उवाच ।
रसातलं त्वया दत्तं राक्षसानां ममापि च ।
ते मे स्थानं न दास्यन्ति तस्मात् त्वां शरणं गतः ॥ ११५.४॥
ततोऽहमब्रवं नागं गौतमीं याहि पन्नग ।
तत्र स्तुत्वा महादेवं लप्स्यसे त्वं मनोरथम् ॥ ११५.५॥
नान्योऽस्ति लोकत्रितये मनोरथसमर्पकः ।
मद्वाक्यप्रेरितो नागो गङ्गामाप्लुत्य यत्नतः ।
कृताञ्जलिपुटो भूत्वा तुष्टाव त्रिदशेश्वरम् ॥ ११५.६॥
शेष उवाच ।
नमस्त्रैलोक्यनाथाय दक्षयज्ञविभेदिने ।
आदिकर्त्रे नमस्तुभ्यं नमस्त्रैलोक्यरूपिणे ॥ ११५.७॥
नमः सहस्रशिरसे नमः संहारकारिणे ।
सोमसूर्याग्निरूपाय जलरूपाय ते नमः ॥ ११५.८॥
सर्वदा सर्वरूपाय कालरूपाय ते नमः ।
पाहि शंकर सर्वेश पाहि सोमेश सर्वग ।
जगन्नाथ नमस्तुभ्यं देहि मे मनसेप्सितम् ॥ ११५.९॥
ब्रह्मोवाच ।
ततो महेश्वरः प्रीतः प्रादान् नागेप्सितान् वरान् ।
विनाशाय सुरारीणां दैत्यदानवरक्षसाम् ॥ ११५.१०॥
शेषाय प्रददौ शूलं जह्यनेनारिपुंगवान् ।
ततः प्रोक्तः शिवेनासौ शेषः शूलेन भोगिभिः ॥ ११५.११॥
रसातलमथो गत्वा निजघान रिपून् रणे ।
निहत्य नागः शूलेन दैत्यदानवराक्षसान् ॥ ११५.१२॥
न्यवर्तत पुनर्देवो यत्र शेषेश्वरो हरः ।
पथा येन समायातो देवं द्रष्टुं स नागराट् ॥ ११५.१३॥
रसातलाद् यत्र देवो बिलं तत्र व्यजायत ।
तस्माद् बिलतलाद् यातं गाङ्गं वार्यतिपुण्यदम् ॥ ११५.१४॥
तद् वारि गङ्गामगमद् गङ्गायाः संगमस्ततः ।
देवस्य पुरतश्चापि कुण्डं तत्र सुविस्तरम् ॥ ११५.१५॥
नागस्तत्राकरोद् धोमं यत्र चाग्निः सदा स्थितः ।
सोष्णं तद् अभवद् वारि गङ्गायास्तत्र संगमः ॥ ११५.१६॥
देवदेवं समाराध्य नागः प्रीतो महायशाः ।
रसातलं ततोऽभीष्टं शिवात् प्राप्य तलं ययौ ॥ ११५.१७॥
ततः प्रभृति तत् तीर्थं नागतीर्थमुदाहृतम् ।
सर्वकामप्रदं पुण्यं रोगदारिद्र्यनाशनम् ॥ ११५.१८॥
आयुर्लक्ष्मीकरं पुण्यं स्नानदानाच्च मुक्तिदम् ।
शृणुयाद् वा पठेद् भक्त्या यो वापि स्मरते तु तत् ॥ ११५.१९॥
तीर्थं शेषेश्वरो यत्र यत्र शक्तिप्रदः शिवः ।
एकविंशतितीर्थानामुभयोस्तत्र तीरयोः ।
शतानि मुनिशार्दूल सर्वसम्पत्प्रदायिनाम् ॥ ११५.२०॥