अध्याय 114, Verse 1
ब्रह्मोवाच ।
अविघ्नं तीर्थमाख्यातं सर्वविघ्नविनाशनम् ।
तत्रापि वृत्तमाख्यास्ये शृणु नारद भक्तितः ॥ ११४.१॥
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
अविघ्नं तीर्थमाख्यातं सर्वविघ्नविनाशनम् ।
तत्रापि वृत्तमाख्यास्ये शृणु नारद भक्तितः ॥ ११४.१॥
देवसत्त्रे प्रवृत्ते तु गौतम्याश्चोत्तरे तटे ।
समाप्तिर्नैव सत्त्रस्य संजाता विघ्नदोषतः ॥ ११४.२॥
ततः सुरगणाः सर्वे मामवोचन् हरिं तदा ।
ततो ध्यानगतोऽहं तान् अवोचं वीक्ष्य कारणम् ॥ ११४.३॥
विनायककृतैर्विघ्नैर्नैतत् सत्त्रं समाप्यते ।
तस्मात् स्तुवन्तु ते सर्वे आदिदेवं विनायकम् ॥ ११४.४॥
तथेत्युक्त्वा सुरगणाः स्नात्वा ते गौतमीतटे ।
अस्तुवन् भक्तितो देवा आदिदेवं गणेश्वरम् ॥ ११४.५॥
देवा ऊचुः ।
यः सर्वकार्येषु सदा सुराणाम् ।
अपीशविष्ण्वम्बुजसम्भवानाम् ।
पूज्यो नमस्यः परिचिन्तनीयस्- ।
तं विघ्नराजं शरणं व्रजामः ॥ ११४.६॥
न विघ्नराजेन समोऽस्ति कश्चिद् ।
देवो मनोवाञ्छितसम्प्रदाता ।
निश्चित्य चैतत् त्रिपुरान्तकोऽपि ।
तं पूजयामास वधे पुराणाम् ॥ ११४.७॥
करोतु सोऽस्माकमविघ्नमस्मिन् ।
महाक्रतौ सत्वरमाम्बिकेयः ।
ध्यातेन येनाखिलदेहभाजाम् ।
पूर्णा भविष्यन्ति मनोभिलाषाः ॥ ११४.८॥
महोत्सवोऽभूद् अखिलस्य देव्या ।
जातः सुतश्चिन्तितमात्र एव ।
अतोऽवदन् सुरसंघाः कृतार्थाः ।
सद्योजातं विघ्नराजं नमन्तः ॥ ११४.९॥
यो मातुरुत्सङ्गगतोऽथ मात्रा ।
निवार्यमाणोऽपि बलाच्च चन्द्रम् ।
संगोपयामास पितुर्जटासु ।
गणाधिनाथस्य विनोद एषः ॥ ११४.१०॥
पपौ स्तनं मातुरथापि तृप्तो ।
यो भ्रातृमात्सर्यकषायबुद्धिः ।
लम्बोदरस्त्वं भव विघ्नराजो ।
लम्बोदरं नाम चकार शम्भुः ॥ ११४.११॥
संवेष्टितो देवगणैर्महेशः ।
प्रवर्ततां नृत्यमितीत्युवाच ।
संतोषितो नूपुररावमात्राद् ।
गणेश्वरत्वेऽभिषिषेच पुत्रम् ॥ ११४.१२॥
यो विघ्नपाशं च करेण बिभ्रत् ।
स्कन्धे कुठारं च तथा परेण ।
अपूजितो विघ्नमथोऽपि मातुः ।
करोति को विघ्नपतेः समोऽन्यः ॥ ११४.१३॥
धर्मार्थकामादिषु पूर्वपूज्यो ।
देवासुरैः पूज्यत एव नित्यम् ।
यस्यार्चनं नैव विनाशमस्ति ।
तं पूर्वपूज्यं प्रथमं नमामि ॥ ११४.१४॥
यस्यार्चनात् प्रार्थनयानुरूपाम् ।
दृष्ट्वा तु सर्वस्य फलस्य सिद्धिम् ।
स्वतन्त्रसामर्थ्यकृतातिगर्वम् ।
भ्रातृप्रियं त्वाखुरथं तमीडे ॥ ११४.१५॥
यो मातरं सरसैर्नृत्यगीतैस्- ।
तथाभिलाषैरखिलैर्विनोदैः ।
संतोषयामास तदातितुष्टम् ।
तं श्रीगणेशं शरणं प्रपद्ये ॥ ११४.१६॥
सुरोपकारैरसुरैश्च युद्धैः ।
स्तोत्रैर्नमस्कारपरैश्च मन्त्रैः ।
पितृप्रसादेन सदा समृद्धम् ।
तं श्रीगणेशं शरणं प्रपद्ये ॥ ११४.१७॥
जये पुराणामकरोत् प्रतीपम् ।
पित्रापि हर्षात् प्रतिपूजितो यः ।
निर्विघ्नतां चापि पुनश्चकार ।
तस्मै गणेशाय नमस्करोमि ॥ ११४.१८॥
ब्रह्मोवाच ।
इति स्तुतः सुरगणैर्विघ्नेशः प्राह तान् पुनः ॥ ११४.१९॥
गणेश उवाच ।
इतो निर्विघ्नता सत्त्रे मत्तः स्याद्
ब्रह्मोवाच ।
देवसत्त्रे निवृत्ते तु गणेशः प्राह तान्
गणेश उवाच ।
स्तोत्रेणानेन ये भक्त्या मां स्तोष्यन्ति यतव्रताः ।
तेषां दारिद्र्यदुःखानि न भवेयुः कदाचन ॥ ११४.२२॥
अत्र ये भक्तितः स्नानं दानं कुर्युरतन्द्रिताः ।
तेषां सर्वाणि कार्याणि भवेयुरिति मन्यताम् ॥ ११४.२३॥
ब्रह्मोवाच ।
तद्वाक्यसमकालं तु तथेत्यूचुः सुरा अपि ।
निवृत्ते तु मखे तस्मिन् सुरा जग्मुः स्वमालयम् ॥ ११४.२४॥
ततः प्रभृति तत् तीर्थमविघ्नमिति गद्यते ।
सर्वकामप्रदं पुंसां सर्वविघ्नविनाशनम् ॥ ११४.२५॥