अध्याय 113, Verse 1
ब्रह्मोवाच ।
इदमप्यपरं तीर्थं देवानामपि दुर्लभम् ।
ब्रह्मतीर्थमिति ख्यातं भुक्तिमुक्तिप्रदं नृणाम् ॥ ११३.१॥
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
इदमप्यपरं तीर्थं देवानामपि दुर्लभम् ।
ब्रह्मतीर्थमिति ख्यातं भुक्तिमुक्तिप्रदं नृणाम् ॥ ११३.१॥
स्थितेषु देवसैन्येषु प्रविष्टेषु रसातलम् ।
दैत्येषु च मुनिश्रेष्ठ तथा मातृषु तान् अनु ॥ ११३.२॥
मदीयं पञ्चमं वक्त्रं गर्दभाकृति भीषणम् ।
तद् वक्त्रं देवसैन्येषु मयि तिष्ठत्युवाच ह ॥ ११३.३॥
हे दैत्याः किं पलायन्ते न भयं वोऽस्तु सत्वरम् ।
आगच्छन्तु सुरान् सर्वान् भक्षयिष्ये क्षणाद् इति ॥ ११३.४॥
निवारयन्तं मामेवं भक्षणायोद्यतं तथा ।
तं दृष्ट्वा विबुधाः सर्वे वित्रस्ता विष्णुमब्रुवन् ॥ ११३.५॥
त्राहि विष्णो जगन्नाथ ब्रह्मणोऽस्य मुखं लुन ।
चक्रधृग् विबुधान् आह *च्छेद्मि चक्रेण वै शिरः ॥ ११३.६॥
किं तु तच्छिन्नमेवेदं संहरेत् सचराचरम् ।
मन्त्रं ब्रूमोऽत्र विबुधाः श्रूयतां सर्वमेव हि ॥ ११३.७॥
त्रिनेत्रः कशिरश्छेत्ता स च धत्ते न संशयः ।
मया च शम्भुः सर्वैश्च स्तुतः प्रोक्तस्तथैव च ॥ ११३.८॥
यागः क्षणी दृष्टफलेऽसमर्थः ।
स नैव कर्तुः फलतीति मत्वा ।
फलस्य दाने प्रतिभूर्जटीति ।
निश्चित्य लोकः प्रतिकर्म यातः ॥ ११३.९॥
ततः सुरेशः संतुष्टो देवानां कार्यसिद्धये ।
लोकानामुपकारार्थं तथेत्याह सुरान् प्रति ॥ ११३.१०॥
तद्वक्त्रं पापरूपं यद् भीषणं लोमहर्षणम् ।
निकृत्य नखशस्त्रैश्च क्व स्थाप्यं चेत्यथाब्रवीत् ॥ ११३.११॥
तत्रेला विबुधान् आह नाहं वोढुं शिरः क्षमा ।
रसातलमथो यास्ये उदधिश्चाप्यथाब्रवीत् ॥ ११३.१२॥
शोषं यास्ये क्षणाद् एव पुनश्चोचुः शिवं सुराः ।
त्वयैवैतद् ब्रह्मशिरो धार्यं लोकानुकम्पया ॥ ११३.१३॥
अच्छेदे जगतां नाशश्छेदे दोषश्च तादृशः ।
एवं विमृश्य सोमेशो दधार कशिरस्तदा ॥ ११३.१४॥
तद् दृष्ट्वा दुष्करं कर्म गौतमीं प्राप्य पावनीम् ।
अस्तुवञ् जगतामीशं प्रणयाद् भक्तितः सुराः ॥ ११३.१५॥
देवेष्वमित्रं कशिरोऽतिभीमम् ।
तान् भक्षणायोपगतं निकृत्य ।
नखाग्रसूच्या शकलेन्दुमौलिस्- ।
त्यागेऽपि दोषात् कृपयानुधत्ते ॥ ११३.१६॥
तत्र ते विबुधाः सर्वे स्थिता ये ब्रह्मणोऽन्तिके ।
तुष्टुवुर्विबुधेशानं कर्म दृष्ट्वातिदैवतम् ॥ ११३.१७॥
ततः प्रभृति तत् तीर्थं ब्रह्मतीर्थमिति श्रुतम् ।
अद्यापि ब्रह्मणो रूपं चतुर्मुखमवस्थितम् ॥ ११३.१८॥
शिरोमात्रं तु यः पश्येत् स गच्छेद् ब्रह्मणः पदम् ।
यत्र स्थित्वा स्वयं रुद्रो लूनवान् ब्रह्मणः शिरः ॥ ११३.१९॥
रुद्रतीर्थं तद् एव स्यात् तत्र साक्षाद् दिवाकरः ।
देवानां च स्वरूपेण स्थितो यस्मात् तद् उत्तमम् ॥ ११३.२०॥
सौर्यं तीर्थं तद् आख्यातं सर्वक्रतुफलप्रदम् ।
तत्र स्नात्वा रविं दृष्ट्वा पुनर्जन्म न विद्यते ॥ ११३.२१॥
महादेवेन यच्छिन्नं ब्रह्मणः पञ्चमं शिरः ।
क्षेत्रेऽविमुक्ते संस्थाप्य देवतानां हितं कृतम् ॥ ११३.२२॥
ब्रह्मतीर्थे शिरोमात्रं यो दृष्ट्वा गौतमीतटे ।
क्षेत्रेऽविमुक्ते तस्यैव स्थापितं योऽनुपश्यति ।
कपालं ब्रह्मणः पुण्यं ब्रह्महा पूततां व्रजेत् ॥ ११३.२३॥