अध्याय 112, Verse 1
ब्रह्मोवाच ।
मातृतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् ।
आधिभिर्मुच्यते जन्तुस्तत्तीर्थस्मरणाद् अपि ॥ ११२.१॥
Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
मातृतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् ।
आधिभिर्मुच्यते जन्तुस्तत्तीर्थस्मरणाद् अपि ॥ ११२.१॥
देवानामसुराणां च संगरोऽभूत् सुदारुणः ।
नाशक्नुवंस्तदा जेतुं देवा दानवसंगरम् ॥ ११२.२॥
तदाहमगमं देवैस्तिष्ठन्तं शूलपाणिनम् ।
अस्तवं विविधैर्वाक्यैः कृताञ्जलिपुटः शनैः ॥ ११२.३॥
सम्मन्त्र्य देवैरसुरैश्च सर्वैर् ।
यदाहृतं सम्मथितुं समुद्रम् ।
यत् कालकूटं समभून् महेश ।
तत् त्वां विना को ग्रसितुं समर्थः ॥ ११२.४॥
पुष्पप्रहारेण जगत्त्रयं यः ।
स्वाधीनमापादयितुं समर्थः ।
मारो हरेऽप्यन्यसुरादिवन्द्यो ।
वितायमानो विलयं प्रयातः ॥ ११२.५॥
विमथ्य वारीशमनङ्गशत्रो ।
यद् उत्तमं तत् तु दिवौकसेभ्यः ।
दत्त्वा विषं संहरन् नीलकण्ठ ।
को वा धर्तुं त्वाम् ऋते वै समर्थः ॥ ११२.६॥
ततश्च तुष्टो भगवान् आदिकर्ता त्रिलोचनः ॥ ११२.७॥
शिव उवाच ।
दास्येऽहं यद् अभीष्टं वो ब्रुवन्तु
देवा ऊचुः ।
दानवेभ्यो भयं घोरं तत्रैहि वृषभध्वज ।
जहि शत्रून् सुरान् पाहि नाथवन्तस्त्वया प्रभो ॥ ११२.९॥
निष्कारणः सुहृच्छम्भो नाभविष्यद् भवान् यदि ।
तदाकरिष्यन् किमिव दुःखार्ताः सर्वदेहिनः ॥ ११२.१०॥
ब्रह्मोवाच ।
इत्युक्तस्तत्क्षणात् प्रायाद् यत्र ते देवशत्रवः ।
तत्र तद् युद्धमभवच्छंकरेण सुरद्विषाम् ॥ ११२.११॥
ततस्त्रिलोचनः श्रान्तस्तमोरूपधरः शिवः ।
ललाटाद् व्यपतंस्तस्य युध्यतः स्वेदबिन्दवः ॥ ११२.१२॥
स संहरन् दैत्यगणांस्तामसीं मूर्तिमाश्रितः ।
तां मूर्तिमसुरा दृष्ट्वा मेरुपृष्ठाद् भुवं ययुः ॥ ११२.१३॥
स संहरन् सर्वदैत्यांस्तदागच्छद् भुवं हरः ।
इतश्चेतश्च भीतास्तेऽधावन् सर्वां महीमिमाम् ॥ ११२.१४॥
तथैव कोपाद् रुद्रोऽपि शत्रूंस्तान् अनुधावति ।
तथैव युध्यतः शम्भोः पतिताः स्वेदबिन्दवः ॥ ११२.१५॥
यत्र यत्र भुवं प्राप्तो बिन्दुर्माहेश्वरो मुने ।
तत्र तत्र शिवाकारा मातरो जज्ञिरे ततः ॥ ११२.१६॥
प्रोचुर्महेश्वरं सर्वाः खादामस्त्वसुरान् इति ।
ततः प्रोवाच भगवान् सर्वैः सुरगणैर्वृतः ॥ ११२.१७॥
शिव उवाच ।
स्वर्गाद् भुवमनुप्राप्ता राक्षसास्ते रसातलम् ।
अनुप्राप्तास्ततः सर्वाः शृण्वन्तु मम भाषितम् ॥ ११२.१८॥
यत्र यत्र द्विषो यान्ति तत्र गच्छन्तु मातरः ।
रसातलमनुप्राप्ता इदानीं मद्भयाद् द्विषः ।
भवत्योऽप्यनुगच्छन्तु रसातलमनु द्विषः ॥ ११२.१९॥
ब्रह्मोवाच ।
ताश्च जग्मुर्भुवं भित्त्वा यत्र ते दैत्यदानवाः ।
तान् हत्वा मातरः सर्वान् देवारीन् अतिभीषणान् ॥ ११२.२०॥
पुनर्देवान् उपाजग्मुः पथा तेनैव मातरः ।
गताश्च मातरो यावद् यावच्च पुनरागताः ॥ ११२.२१॥
तावद् देवाः स्थिता आसन् गौतमीतीरमाश्रिताः ।
प्रस्थानात् तत्र मातृणां सुराणां च प्रतिष्ठितेः ॥ ११२.२२॥
प्रतिष्ठानं तु तत् क्षेत्रं पुण्यं विजयवर्धनम् ।
मातृणां यत्र चोत्पत्तिर्मातृतीर्थं पृथक् पृथक् ॥ ११२.२३॥
तत्र तत्र बिलान्यासन् रसातलगतानि च ।
सुरास्ताभ्यो वरान् प्रोचुर्लोके पूजां यथा शिवः ॥ ११२.२४॥
प्राप्नोति तद्वन् मातृभ्यः पूजा भवतु सर्वदा ।
इत्युक्त्वान्तर्दधुर्देवा आसंस्तत्रैव मातरः ॥ ११२.२५॥
यत्र यत्र स्थिता देव्यो मातृतीर्थं ततो विदुः ।
सुराणामपि सेव्यानि किं पुनर्मानुषादिभिः ॥ ११२.२६॥
तेषु स्नानमथो दानं पितृणां चैव तर्पणम् ।
सर्वं तद् अक्षयं ज्ञेयं शिवस्य वचनं यथा ॥ ११२.२७॥
यस्त्विदं शृणुयान् नित्यं स्मरेद् अपि पठेत् तथा ।
आख्यानं मातृतीर्थानामायुष्मान् स सुखी भवेत् ॥ ११२.२८॥