अध्याय 111, Verse 1
ब्रह्मोवाच ।
नागतीर्थमिति ख्यातं सर्वकामप्रदं शुभम् ।
यत्र नागेश्वरो देवः शृणु तस्यापि विस्तरम् ॥ १११.१॥
Containing 86 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
नागतीर्थमिति ख्यातं सर्वकामप्रदं शुभम् ।
यत्र नागेश्वरो देवः शृणु तस्यापि विस्तरम् ॥ १११.१॥
प्रतिष्ठानपुरे राजा शूरसेन इति श्रुतः ।
सोमवंशभवः श्रीमान् मतिमान् गुणसागरः ॥ १११.२॥
पुत्रार्थं स महायत्नमकरोत् प्रियया सह ।
तस्य पुत्रश्चिराद् आसीत् सर्पो वै भीषणाकृतिः ॥ १११.३॥
पुत्रं तं गोपयामास शूरसेनो महीपतिः ।
राज्ञः पुत्रः सर्प इति न कश्चिद् विन्दते जनः ॥ १११.४॥
अन्तर्वर्ती परो वापि मातरं पितरं विना ।
धात्रेय्यपि न जानाति नामात्यो न पुरोहितः ॥ १११.५॥
तं दृष्ट्वा भीषणं सर्पं सभार्यो नृपसत्तमः ।
संतापं नित्यमाप्नोति सर्पाद् वरमपुत्रता ॥ १११.६॥
एतद् अस्ति महासर्पो वक्ति नित्यं मनुष्यवत् ।
स सर्पः पितरं प्राह कुरु चूडामपि क्रियाम् ॥ १११.७॥
तथोपनयनं चापि वेदाध्ययनमेव च ।
यावद् वेदं न चाधीते तावच्छूद्रसमो द्विजः ॥ १११.८॥
ब्रह्मोवाच ।
एतच्छ्रुत्वा पुत्रवचः शूरसेनोऽतिदुःखितः ।
ब्राह्मणं कंचनानीय संस्कारादि तदाकरोत् ।
अधीतवेदः सर्पोऽपि पितरं चाब्रवीद् इदम् ॥ १११.९॥
सर्प उवाच ।
विवाहं कुरु मे राजन् स्त्रीकामोऽहं नृपोत्तम ।
अन्यथापि च कृत्यं ते न सिध्येद् इति मे मतिः ॥ १११.१०॥
जनयित्वात्मजान् वेद+ ।
विधिनाखिलसंस्कृतीः ।
न कुर्याद् यः पिता तस्य नरकान् नास्ति निष्कृतिः ॥ १११.११॥
ब्रह्मोवाच ।
विस्मितः स पिता प्राह सुतं तमुरगाकृतिम् ॥ १११.१२॥
शूरसेन उवाच ।
यस्य शब्दाद् अपि त्रासं यान्ति शूराश्च पूरुषाः ।
तस्मै कन्यां तु को दद्याद् वद पुत्र करोमि किम् ॥ १११.१३॥
ब्रह्मोवाच ।
तत् पितुर्वचनं श्रुत्वा सर्पः प्राह
सर्प उवाच ।
विवाहा बहवो राजन् राज्ञां सन्ति जनेश्वर ।
प्रसह्याहरणं चापि शस्त्रैर्वैवाह एव च ॥ १११.१५॥
जाते विवाहे पुत्रस्य पितासौ कृतकृद् भवेत् ।
नो चेद् अत्रैव गङ्गायां मरिष्ये नात्र संशयः ॥ १११.१६॥
ब्रह्मोवाच ।
तत् पुत्रनिश्चयं ज्ञात्वा अपुत्रो नृपसत्तमः ।
विवाहार्थममात्यांस्तान् आहूयेदं वचोऽब्रवीत् ॥ १११.१७॥
शूरसेन उवाच ।
नागेश्वरो मम सुतो युवराजो गुणाकरः ।
गुणवान् मतिमाञ् शूरो दुर्जयः शत्रुतापनः ॥ १११.१८॥
रथे नागे स धनुषि पृथिव्यां नोपमीयते ।
विवाहस्तस्य कर्तव्यो ह्यहं वृद्धस्तथैव च ॥ १११.१९॥
राज्यभारं सुते न्यस्य निश्चिन्तोऽहं भवाम्यतः ।
न दारसंग्रहो यावत् तावत् पुत्रो मम प्रियः ॥ १११.२०॥
बालभावं नो जहाति तस्मात् सर्वेऽनुमन्य च ।
विवाहायाथ कुर्वन्तु यत्नं मम हिते रताः ॥ १११.२१॥
न मे काचित् तदा चिन्ता कृतोद्वाहो यदात्मजः ।
सुते न्यस्तभरा यान्ति कृतिनस्तपसे वनम् ॥ १११.२२॥
ब्रह्मोवाच ।
अमात्या राजवचनं श्रुत्वा सर्वे विनीतवत् ।
ऊचुः प्राञ्जलयो हर्षाद् राजानं भूरितेजसम् ॥ १११.२३॥
अमात्या ऊचुः ।
तव पुत्रो गुणज्येष्ठस्त्वं च सर्वत्र विश्रुतः ।
विवाहे तव पुत्रस्य किं मन्त्र्यं किं तु चिन्त्यते ॥ १११.२४॥
ब्रह्मोवाच ।
अमात्येषु तथोक्तेषु गम्भीरो नृपसत्तमः ।
पुत्रं सर्पं त्वमात्यानां न चाख्याति न ते विदुः ॥ १११.२५॥
राजा पुनस्तान् उवाच का स्यात् कन्या गुणाधिका ।
महावंशभवः श्रीमान् को राजा स्याद् गुणाश्रयः ॥ १११.२६॥
सम्बन्धयोग्यः शूरश्च यत्सम्बन्धः प्रशस्यते ।
तद् राजवचनं श्रुत्वा अमात्यानां महामतिः ॥ १११.२७॥
कुलीनः साधुरत्यन्तं राजकार्यहिते रतः ।
राज्ञो मतिं विदित्वा तु इङ्गितज्ञोऽब्रवीद् इदम् ॥ १११.२८॥
अमात्य उवाच ।
पूर्वदेशे महाराज विजयो नाम भूपतिः ।
वाजिवारणरत्नानां यस्य संख्या न विद्यते ॥ १११.२९॥
अष्टौ पुत्रा महेष्वासा महाराजस्य धीमतः ।
तेषां स्वसा भोगवती साक्षाल्लक्ष्मीरिवापरा ।
तव पुत्रस्य योग्या सा भार्या राजन् मयोदिता ॥ १११.३०॥