अध्याय 110, Verse 1
ब्रह्मोवाच ।
पिप्पलं तीर्थमाख्यातं चक्रतीर्थाद् अनन्तरम् ।
यत्र चक्रेश्वरो देवश्चक्रमाप यतो हरिः ॥ ११०.१॥
Containing 228 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
पिप्पलं तीर्थमाख्यातं चक्रतीर्थाद् अनन्तरम् ।
यत्र चक्रेश्वरो देवश्चक्रमाप यतो हरिः ॥ ११०.१॥
यत्र विष्णुः स्वयं स्थित्वा चक्रार्थं शंकरं विभुम् ।
पूजयामास तत् तीर्थं चक्रतीर्थमुदाहृतम् ॥ ११०.२॥
यत्र प्रीतोऽभवद् विष्णोः शम्भुस्तत् पिप्पलं विदुः ।
महिमानं यस्य वक्तुं न क्षमोऽप्यहिनायकः ॥ ११०.३॥
चक्रेश्वरो पिप्पलेशो नामधेयस्य कारणम् ।
शृणु नारद तद् भक्त्या साक्षाद् वेदोदितं मया ॥ ११०.४॥
दधीचिरिति विख्यातो मुनिरासीद् गुणान्वितः ।
तस्य भार्या महाप्राज्ञा कुलीना च पतिव्रता ॥ ११०.५॥
लोपामुद्रेति या ख्याता स्वसा तस्या गभस्तिनी ।
इति नाम्ना च विख्याता वडवेति प्रकीर्तिता ॥ ११०.६॥
दधीचेः सा प्रिया नित्यं तपस्तेपे तया महत् ।
दधीचिरग्निमान् नित्यं गृहधर्मपरायणः ॥ ११०.७॥
भागीरथीं समाश्रित्य देवातिथिपरायणः ।
स्वकलत्ररतः शान्तः कुम्भयोनिरिवापरः ॥ ११०.८॥
तस्य प्रभावात् तं देशं नारयो दैत्यदानवाः ।
आजग्मुर्मुनिशार्दूल यत्रागस्त्यस्य चाश्रमः ॥ ११०.९॥
तत्र देवाः समाजग्मू रुद्रादित्यास्तथाश्विनौ ।
इन्द्रो विष्णुर्यमोऽग्निश्च जित्वा दैत्यान् उपागतान् ॥ ११०.१०॥
जयेन जातसंहर्षाः स्तुताश्चैव मरुद्गणैः ।
दधीचिं मुनिशार्दूलं दृष्ट्वा नेमुः सुरेश्वराः ॥ ११०.११॥
दधीचिर्जातसंहर्षः सुरान् पूज्य पृथक् पृथक् ।
गृहकृत्यं ततश्चक्रे सुरेभ्यो भार्यया सह ॥ ११०.१२॥
पृष्टाश्च कुशलं तेन कथाश्चक्रुः सुरा अपि ।
दधीचिमब्रुवन् देवा भार्यया सुखितं पुनः ॥ ११०.१३॥
आसीनं हृष्टमनस ऋषिं नत्वा पुनः पुनः ॥ ११०.१४॥
देवा ऊचुः ।
किमद्य दुर्लभं लोके ऋषेऽस्माकं भविष्यति ।
त्वादृशः सकृपो येषु मुनिर्भूकल्पपादपः ॥ ११०.१५॥
एतद् एव फलं पुंसां जीवतां मुनिसत्तम ।
तीर्थाप्लुतिर्भूतदया दर्शनं च भवादृशाम् ॥ ११०.१६॥
यत् स्नेहाद् उच्यतेऽस्माभिरवधारय तन् मुने ।
जित्वा दैत्यान् इह प्राप्ता हत्वा राक्षसपुंगवान् ॥ ११०.१७॥
वयं च सुखिनो ब्रह्मंस्त्वयि दृष्टे विशेषतः ।
नायुधैः फलमस्माकं वोढुं नैव क्षमा वयम् ॥ ११०.१८॥
स्थाप्यदेशं न पश्याम आयुधानां मुनीश्वर ।
स्वर्गे सुरद्विषो ज्ञात्वा स्थापितानि हरन्ति च ॥ ११०.१९॥
नयेयुरायुधानीति तथैव च रसातले ।
तस्मात् तवाश्रमे पुण्ये स्थाप्यन्तेऽस्त्राणि मानद ॥ ११०.२०॥
नैवात्र किंचिद् भयमस्ति विप्र ।
न दानवेभ्यो राक्षसेभ्यश्च घोरम् ।
त्वदाज्ञया रक्षितपुण्यदेशो ।
न विद्यते तपसा ते समानः ॥ ११०.२१॥
जितारयो ब्रह्मविदां वरिष्ठम् ।
वयं च पूर्वं निहता दैत्यसंघाः ।
अस्त्रैरलं भारभूतैः कृतार्थैः ।
स्थाप्यं स्थानं ते समीपे मुनीश ॥ ११०.२२॥
दिव्यान् भोगान् कामिनीभिः समेतान् ।
देवोद्याने नन्दने सम्भजामः ।
ततो यामः कृतकार्याः सहेन्द्राः ।
स्वं स्वं स्थानं चायुधानां च रक्षा ॥ ११०.२३॥
त्वया कृता जायतां तत् प्रशाधि ।
समर्थस्त्वं रक्षणे धारणे च ॥ ११०.२४॥
ब्रह्मोवाच ।
तद्वाक्यमाकर्ण्य दधीचिरेवम् ।
वाक्यं जगौ विबुधान् एवमस्तु ।
निवार्यमाणः प्रियशीलया स्त्रिया ।
किं देवकार्येण विरुद्धकारिणा ॥ ११०.२५॥
ये ज्ञातशास्त्राः परमार्थनिष्ठाः ।
संसारचेष्टासु गतानुरागाः ।
तेषां परार्थव्यसनेन किं मुने ।
येनात्र वामुत्र सुखं न किंचित् ॥ ११०.२६॥
देवद्विषो द्वेषमनुप्रयान्ति ।
दत्ते स्थाने विप्रवर्य शृणुष्व ।
नष्टे हृते चायुधानां मुनीश ।
कुप्यन्ति देवा रिपवस्ते भवन्ति ॥ ११०.२७॥
तस्मान् नेदं वेदविदां वरिष्ठ ।
युक्तं द्रव्ये परकीये ममत्वम् ।
तावच्च मैत्री द्रव्यभावश्च तावन् ।
नष्टे हृते रिपवस्ते भवन्ति ॥ ११०.२८॥
चेद् अस्ति शक्तिर्द्रव्यदाने ततस्ते ।
दातव्यमेवार्थिने किं विचार्यम् ।
नो चेत् सन्तः परकार्याणि कुर्युर् ।
वाग्भिर्मनोभिः कृतिभिस्तथैव ॥ ११०.२९॥
परस्वसंधारणमेतद् एव ।
सद्भिर्निरस्तं त्यज कान्त सद्यः ॥ ११०.३०॥