Brahma Purana

अध्याय 11

Containing 61 sacred Sanskrit shlokas with multi-author commentaries and translations.

Brahma Purana

अध्याय 11, Verse 1

लोमहर्षण उवाच ।

आयोः पुत्राश्च ते पञ्च सर्वे वीरा महारथाः ।

स्वर्भानुतनयायां च प्रभायां जज्ञिरे नृपाः ॥ ११.१॥

Brahma Purana

अध्याय 11, Verse 2

नहुषः प्रथमं जज्ञे वृद्धशर्मा ततः परम् ।

रम्भो रजिरनेनाश्च त्रिषु लोकेषु विश्रुताः ॥ ११.२॥

Brahma Purana

अध्याय 11, Verse 3

रजिः पुत्रशतानीह जनयामास पञ्च वै ।

राजेयमिति विख्यातं क्षत्रमिन्द्रभयावहम् ॥ ११.३॥

Brahma Purana

अध्याय 11, Verse 4

यत्र दैवासुरे युद्धे समुत्पन्ने सुदारुणे ।

देवाश्चैवासुराश्चैव पितामहमथाब्रुवन् ॥ ११.४॥

Brahma Purana

अध्याय 11, Verse 5

देवासुरा ऊचुः ।

आवयोर्भगवन् युद्धे को विजेता भविष्यति ।

ब्रूहि नः सर्वभूतेश श्रोतुमिच्छाम तत्त्वतः ॥ ११.५॥

Brahma Purana

अध्याय 11, Verse 6

ब्रह्मोवाच ।

येषामर्थाय संग्रामे रजिरात्तायुधः प्रभुः ।

योत्स्यते ते विजेष्यन्ति त्रींल्लोकान् नात्र संशयः ॥ ११.६॥

Brahma Purana

अध्याय 11, Verse 7

यतो रजिर्धृतिस्तत्र श्रीश्च तत्र यतो धृतिः ।

यतो धृतिश्च श्रीश्चैव धर्मस्तत्र जयस्तथा ॥ ११.७॥

Brahma Purana

अध्याय 11, Verse 8

ते देवा दानवाः प्रीता देवेनोक्ता रजिं तदा ।

अभ्ययुर्जयमिच्छन्तो वृण्वानास्तं नरर्षभम् ॥ ११.८॥

Brahma Purana

अध्याय 11, Verse 9

स हि स्वर्भानुदौहित्रः प्रभायां समपद्यत ।

राजा परमतेजस्वी सोमवंशविवर्धनः ॥ ११.९॥

Brahma Purana

अध्याय 11, Verse 10

ते हृष्टमनसः सर्वे रजिं वै देवदानवाः ।

ऊचुरस्मज्जयाय त्वं गृहाण वरकार्मुकम् ॥ ११.१०॥

Brahma Purana

अध्याय 11, Verse 11

अथोवाच रजिस्तत्र तयोर्वै देवदैत्ययोः ।

अर्थज्ञः स्वार्थमुद्दिश्य यशः स्वं च प्रकाशयन् ॥ ११.११॥

Brahma Purana

अध्याय 11, Verse 12

रजिरुवाच ।

यदि दैत्यगणान् सर्वाञ् जित्वा वीर्येण वासवः ।

इन्द्रो भवामि धर्मेण ततो योत्स्यामि संयुगे ॥ ११.१२॥

Brahma Purana

अध्याय 11, Verse 13

देवाः प्रथमतो विप्राः प्रतीयुर्हृष्टमानसाः ।

एवं यथेष्टं नृपते कामः सम्पद्यतां तव ॥ ११.१३॥

Brahma Purana

अध्याय 11, Verse 14

श्रुत्वा सुरगणानां तु वाक्यं राजा रजिस्तदा ।

पप्रच्छासुरमुख्यांस्तु यथा देवान् अपृच्छत ॥ ११.१४॥

Brahma Purana

अध्याय 11, Verse 15

दानवा दर्पसम्पूर्णाः स्वार्थमेवावगम्य ह ।

प्रत्यूचुस्तं नृपवरं साभिमानमिदं वचः ॥ ११.१५॥

Brahma Purana

अध्याय 11, Verse 16

दानवा ऊचुः ।

अस्माकमिन्द्रः प्रह्रादो यस्यार्थे विजयामहे ।

अस्मिंस्तु समरे राजंस्तिष्ठ त्वं राजसत्तम ॥ ११.१६॥

Brahma Purana

अध्याय 11, Verse 17

स तथेति ब्रुवन्न् एव देवैरप्यतिचोदितः ।

भविष्यसीन्द्रो जित्वैनं देवैरुक्तस्तु पार्थिवः ॥ ११.१७॥

Brahma Purana

अध्याय 11, Verse 18

जघान दानवान् सर्वान् येऽवध्या वज्रपाणिनः ।

स विप्रनष्टां देवानां परमश्रीः श्रियं वशी ॥ ११.१८॥

Brahma Purana

अध्याय 11, Verse 19

निहत्य दानवान् सर्वान् आजहार रजिः प्रभुः ।

ततो रजिं महावीर्यं देवैः सह शतक्रतुः ॥ ११.१९॥

Brahma Purana

अध्याय 11, Verse 20

रजिपुत्रोऽहमित्युक्त्वा पुनरेवाब्रवीद् वचः ।

इन्द्रोऽसि तात देवानां सर्वेषां नात्र संशयः ॥ ११.२०॥

Brahma Purana

अध्याय 11, Verse 21

यस्याहमिन्द्रः पुत्रस्ते ख्यातिं यास्यामि कर्मभिः ।

स तु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया ॥ ११.२१॥

Brahma Purana

अध्याय 11, Verse 22

तथैवेत्यब्रवीद् राजा प्रीयमाणः शतक्रतुम् ।

तस्मिंस्तु देवैः सदृशो दिवं प्राप्ते महीपतौ ॥ ११.२२॥

Brahma Purana

अध्याय 11, Verse 23

दायाद्यमिन्द्राद् आजह्रू राज्यं तत्तनया रजेः ।

पञ्च पुत्रशतान्यस्य तद् वै स्थानं शतक्रतोः ॥ ११.२३॥

Brahma Purana

अध्याय 11, Verse 24

समाक्रामन्त बहुधा स्वर्गलोकं त्रिविष्टपम् ।

ते यदा तु स्वसम्मूढा रागोन्मत्ता विधर्मिणः ॥ ११.२४॥

Brahma Purana

अध्याय 11, Verse 25

ब्रह्मद्विषश्च संवृत्ता हतवीर्यपराक्रमाः ।

ततो लेभे स्वमैश्वर्यमिन्द्रः स्थानं तथोत्तमम् ॥ ११.२५॥

Brahma Purana

अध्याय 11, Verse 26

हत्वा रजिसुतान् सर्वान् कामक्रोधपरायणान् ।

य इदं च्यावनं स्थानात् प्रतिष्ठानं शतक्रतोः ।

श‍ृणुयाद् धारयेद् वापि न स दौर्गत्यमाप्नुयात् ॥ ११.२६॥

Brahma Purana

अध्याय 11, Verse 27

लोमहर्षण उवाच ।

रम्भोऽनपत्यस्त्वासीच्च वंशं अनेनसः सुतो राजा प्रतिक्षत्रो महायशाः ॥ ११.२७॥

Brahma Purana

अध्याय 11, Verse 28

प्रतिक्षत्रसुतश्चासीत् संजयो नाम विश्रुतः ।

संजयस्य जयः पुत्रो विजयस्तस्य चात्मजः ॥ ११.२८॥

Brahma Purana

अध्याय 11, Verse 29

विजयस्य कृतिः पुत्रस्तस्य हर्यत्वतः सुतः ।

हर्यत्वतसुतो राजा सहदेवः प्रतापवान् ॥ ११.२९॥

Brahma Purana

अध्याय 11, Verse 30

सहदेवस्य धर्मात्मा नदीन इति विश्रुतः ।

नदीनस्य जयत्सेनो जयत्सेनस्य संकृतिः ॥ ११.३०॥