अध्याय 109, Verse 1
ब्रह्मोवाच ।
चक्रतीर्थमिति ख्यातं ब्रह्महत्यादिनाशनम् ।
यत्र चक्रेश्वरो देवश्चक्रमाप यतो हरिः ॥ १०९.१॥
Containing 55 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
चक्रतीर्थमिति ख्यातं ब्रह्महत्यादिनाशनम् ।
यत्र चक्रेश्वरो देवश्चक्रमाप यतो हरिः ॥ १०९.१॥
यत्र विष्णुः स्वयं स्थित्वा चक्रार्थं शंकरं प्रभुः ।
पूजयामास तत् तीर्थं चक्रतीर्थमुदाहृतम् ॥ १०९.२॥
यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ।
दक्षक्रतौ प्रवृत्ते तु देवानां च समागमे ॥ १०९.३॥
दक्षेण दूषिते देवे शिवे शर्वे महेश्वरे ।
अनाह्वाने सुरेशस्य दक्षचित्ते मलीमसे ॥ १०९.४॥
दाक्षायण्या श्रुते वाक्ये अनाह्वानस्य कारणे ।
अहल्यायां चोक्तवत्यां कुपिताभूत् सुरेश्वरी ॥ १०९.५॥
पितरं नाशये पापं क्षमेयं न कथंचन ।
शृण्वती दोषवाक्यानि पित्रा चोक्तानि भर्तरि ॥ १०९.६॥
पत्युः शृण्वन्ति या निन्दां तासां पापावधिः कुतः ।
यादृशस्तादृशो वापि पतिः स्त्रीणां परा गतिः ॥ १०९.७॥
किं पुनः सकलाधीशो महादेवो जगद्गुरुः ।
श्रुतं तन्निन्दनं तर्हि धारयामि न देहकम् ॥ १०९.८॥
तस्मात् त्यक्ष्य इमं देहमित्युक्त्वा सा महासती ।
कोपेन महताविष्टा प्रजज्वाल सुरेश्वरी ॥ १०९.९॥
शिवैकचेतना देहं बलाद् योगाच्च तत्यजे ।
महेश्वरोऽपि सकलं वृत्तमाकर्ण्य नारदात् ॥ १०९.१०॥
दृष्ट्वा चुकोप पप्रच्छ जयां च विजयां तथा ।
ते ऊचतुरुभे देवं दक्षक्रतुविनाशनम् ॥ १०९.११॥
दाक्षायण्या इति श्रुत्वा मखं प्रायान् महेश्वरः ।
भीमैर्गणैः परिवृतो भूतनाथैः समं ययौ ॥ १०९.१२॥
मखस्तैर्वेष्टितः सर्वो देवब्रह्मपुरस्कृतः ।
दक्षेण यजमानेन शुद्धभावेन रक्षितः ॥ १०९.१३॥
वसिष्ठादिभिरत्युग्रैर्मुनिभिः परिवारितः ।
इन्द्रादित्याद्यैर्वसुभिः सर्वतःपरिपालितः ॥ १०९.१४॥
ऋग्यजुःसामवेदैश्च स्वाहाशब्दैरलंकृतः ।
श्रद्धा पुष्टिस्तथा तुष्टिः शान्तिर्लज्जा सरस्वती ॥ १०९.१५॥
भूमिर्द्यौः शर्वरी क्षान्तिरुषा आशा जया मतिः ।
एताभिश्च तथान्याभिः सर्वतः समलंकृतः ॥ १०९.१६॥
त्वष्ट्रा महात्मना चापि कारितो विश्वकर्मणा ।
सुरभिर्नन्दिनी धेनुः कामधुक् कामदोहिनी ॥ १०९.१७॥
एताभिः कामवर्षाभिः सर्वकामसमृद्धिमान् ।
कल्पवृक्षः पारिजातो लताः कल्पलतादिकाः ॥ १०९.१८॥
यद् यद् इष्टतमं किंचित् तत्र तस्मिन् मखे स्थितम् ।
स्वयं मघवता पूष्णा हरिणा परिरक्षितः ॥ १०९.१९॥
दीयतां भुज्यतां वापि क्रियतां स्थीयतां सुखम् ।
एतैश्च सर्वतो वाक्यैर्दक्षस्य पूजितं मखम् ॥ १०९.२०॥
आदौ तु वीरभद्रोऽसौ भद्रकाल्या युतो ययौ ।
शोककोपपरीतात्मा पश्चाच्छूलपिनाकधृक् ॥ १०९.२१॥
अभ्याययौ महादेवो महाभूतैरलंकृतः ।
तानि भूतानि परितो मखे वेष्ट्य महेश्वरम् ॥ १०९.२२॥
क्रतुं विध्वंसयामासुस्तत्र क्षोभो महान् अभूत् ।
पलायन्त ततः केचित् केचिद् गत्वा ततः शिवम् ॥ १०९.२३॥
केचित् स्तुवन्ति देवेशं केचित् कुप्यन्ति शंकरम् ।
एवं विध्वंसितं यज्ञं दृष्ट्वा पूषा समभ्यगात् ॥ १०९.२४॥
पूष्णो दन्तान् अथोत्पाट्य इन्द्रं व्यद्रावयत् क्षणात् ।
भगस्य चक्षुषी विप्र वीरभद्रो व्यपाटयत् ॥ १०९.२५॥
दिवाकरं पुनर्दोर्भ्यां परिभ्राम्य समाक्षिपत् ।
ततः सुरगणाः सर्वे विष्णुं ते शरणं ययुः ॥ १०९.२६॥
देवा ऊचुः ।
त्राहि त्राहि गदापाणे भूतनाथकृताद् भयात् ।
महेश्वरगणः कश्चित् प्रमथानां तु नायकः ।
तेन दग्धो मखः सर्वो वैष्णवः पश्यतो हरेः ॥ १०९.२७॥
ब्रह्मोवाच ।
हरिणा चक्रमुत्सृष्टं भूतनाथवधं प्रति ।
भूतनाथोऽपि तच्चक्रमापतच्च तदाग्रसत् ॥ १०९.२८॥
ग्रस्ते चक्रे ततो विष्णोर्लोकपाला भयाद् ययुः ।
तथा स्थितान् अवेक्ष्याथ दक्षो यज्ञं सुरान् अपि ।
तुष्टाव शंकरं देवं दक्षो भक्त्या प्रजापतिः ॥ १०९.२९॥
दक्ष उवाच ।
जय शंकर सोमेश जय सर्वज्ञ शम्भवे ।
जय कल्याणभृच्छम्भो जय कालात्मने नमः ॥ १०९.३०॥