अध्याय 108, Verse 1
ब्रह्मोवाच ।
इलातीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् ।
ब्रह्महत्यादिपापानां पावनं सर्वकामदम् ॥ १०८.१॥
Containing 123 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
इलातीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् ।
ब्रह्महत्यादिपापानां पावनं सर्वकामदम् ॥ १०८.१॥
वैवस्वतान्वये जात इलो नाम जनेश्वरः ।
महत्या सेनया सार्धं जगाम मृगयावनम् ॥ १०८.२॥
परिबभ्राम गहनं बहुव्यालसमाकुलम् ।
नानाकारद्विजयुतं विटपैः परिशोभितम् ॥ १०८.३॥
वनेचरं नृपश्रेष्ठो मृगयागतमानसः ।
तत्रैव मतिमाधत्त इलोऽमात्यान् अथाब्रवीत् ॥ १०८.४॥
इल उवाच ।
गच्छन्तु नगरं सर्वे मम पुत्रेण पालितम् ।
देशं कोशं बलं राज्यं पालयन्तु पुनश्च तम् ॥ १०८.५॥
वसिष्ठोऽपि तथा यातु आदायाग्नीन् पितेव नः ।
पत्नीभिः सहितो धीमान् अरण्येऽहं वसाम्यथ ॥ १०८.६॥
अरण्यभोगभुग्भिश्च वाजिवारणमानुषैः ।
मृगयाशीलिभिः कैश्चिद् यान्तु सर्व इतः पुरीम् ॥ १०८.७॥
ब्रह्मोवाच ।
तथेत्युक्त्वा ययुस्तेऽपि स्वयं प्रायाच्छनैर्गिरिम् ।
हिमवन्तं रत्नमयं वसंस्तत्र इलो नृपः ॥ १०८.८॥
ददर्श कन्दरं तत्र नानारत्नविचित्रितम् ।
तत्र यक्षेश्वरः कश्चित् समन्युरिति विश्रुतः ॥ १०८.९॥
तस्य भार्या समानाम्नी भर्तृव्रतपरायणा ।
तस्मिन् वसत्यसौ यक्षो रमणीये नगोत्तमे ॥ १०८.१०॥
मृगरूपेण व्यचरद् भार्यया स महामतिः ।
स्वेच्छया स्ववने यक्षः क्रीडते नृत्यगीतकैः ॥ १०८.११॥
इत्थं स यक्षो जानाति मृगरूपधरोऽपि च ।
इलस्तु तं न जानाति कन्दरं यक्षपालितम् ॥ १०८.१२॥
यक्षस्य गेहं विपुलं नानारत्नविचित्रितम् ।
तत्रोपविष्टो नृपतिर्महत्या सेनया वृतः ॥ १०८.१३॥
वासं चक्रे स तत्रैव गेहे यक्षस्य धीमतः ।
स यक्षोऽधर्मकोपेन भार्यया मृगरूपधृक् ॥ १०८.१४॥
इलं जेतुं न शक्नोमि याचितो न ददाति च ।
हृतं गेहं ममानेन किं करोमीत्यचिन्तयत् ॥ १०८.१५॥
युधि मत्तं कथं हन्यां चेति स्थित्वा स यक्षराट् ।
आत्मीयान् प्रेषयामास यक्षाञ् शूरान् धनुर्धरान् ॥ १०८.१६॥
यक्ष उवाच ।
युद्धे जित्वा च राजानमिलमुद्धतदन्तिनम् ।
गृहाद् यथान्यतो याति मम तत् कर्तुमर्हथ ॥ १०८.१७॥
ब्रह्मोवाच ।
यक्षेश्वरस्य तद् वाक्याद् यक्षास्ते युद्धदुर्मदाः ।
इलं गत्वाब्रुवन् सर्वे निर्गच्छास्माद् गुहालयात् ॥ १०८.१८॥
न चेद् युद्धात् परिभ्रष्टः पलाय्य क्व गमिष्यसि ।
तद् यक्षवचनात् कोपाद् युद्धं चक्रे स राजराट् ॥ १०८.१९॥
जित्वा यक्षान् बहुविधान् उवास दश शर्वरीः ।
यक्षेश्वरो मृगो भूत्वा भार्ययापि वने वसन् ॥ १०८.२०॥
हृतगेहो वनं प्राप्तो हृतभृत्यः स यक्षिणीम् ।
प्राह चिन्तापरो भूत्वा मृगीरूपधरां प्रियाम् ॥ १०८.२१॥
यक्ष उवाच ।
राजाऽयं दुर्मनाः कान्ते व्यसनासक्तमानसः ।
कथमायाति विपदं तत्रोपायो विचिन्त्यताम् ॥ १०८.२२॥
पापर्द्धिव्यसनान्तानि राज्यान्यखिलभूभुजाम् ।
प्रापयोमावनं सुभ्रूर्मृगी भूत्वा मनोहरा ॥ १०८.२३॥
प्रविशेत् तत्र राजायं स्त्री भविष्यत्यसंशयम् ।
करणीयं त्वया भद्रे न चैतद् युज्यते मम ।
अहं तु पुरुषो येन त्वं पुनः स्त्री च यक्षिणी ॥ १०८.२४॥
यक्षिण्युवाच ।
कथं त्वया न गन्तव्यमुमावनमनुत्तमम् ।
गतेऽपि त्वयि को दोषस्तन् मे कथय तत्त्वतः ॥ १०८.२५॥
यक्ष उवाच ।
हिमवत्पर्वतश्रेष्ठ उमया सहितः शिवः ।
देवैर्गणैरनुवृतो विचचार यथासुखम् ।
पार्वती शंकरं प्राह कदाचिद् रहसि स्थितम् ॥ १०८.२६॥
पार्वत्युवाच ।
स्त्रीणामेष स्वभावोऽस्ति रतं गोपायितं भवेत् ।
तस्मान् मे नियतं देशमाज्ञया रक्षितं तव ॥ १०८.२७॥
देहि मे त्रिदशेशान उमावनमिति श्रुतम् ।
विना त्वया गणेशेन कार्त्तिकेयेन नन्दिना ॥ १०८.२८॥
यस्त्वत्र प्रविशेन् नाथ स्त्रीत्वं तस्य भवेद् इति ॥ १०८.२९॥
यक्ष उवाच ।
इत्याज्ञोमावने दत्ता प्रसन्नेनेन्दुमौलिना ।
किं करोमि पुमान् कान्ते त्वया प्रणयनार्दितः ।
तस्मान् मया न गन्तव्यमुमाया वनमुत्तमम् ॥ १०८.३०॥