अध्याय 107, Verse 1
ब्रह्मोवाच ।
वृद्धासंगममाख्यातं यत्र वृद्धेश्वरः शिवः ।
तस्याख्यानं प्रवक्ष्यामि शृणु पापप्रणाशनम् ॥ १०७.१॥
Containing 69 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
वृद्धासंगममाख्यातं यत्र वृद्धेश्वरः शिवः ।
तस्याख्यानं प्रवक्ष्यामि शृणु पापप्रणाशनम् ॥ १०७.१॥
गौतमो वृद्ध इत्युक्तो मुनिरासीन् महातपाः ।
यदा पुराभवद् बालो गौतमस्य सुतो द्विजः ॥ १०७.२॥
अनासः स पुरोत्पन्नस्तस्माद् विकृतरूपधृक् ।
स वैराग्याज्जगामाथ देशं तीर्थमितस्ततः ॥ १०७.३॥
उपाध्यायेन नैवासील्लज्जितस्य समागमः ।
शिष्यैरन्यैः सहाध्यायो लज्जितस्य च नाभवत् ॥ १०७.४॥
उपनीतः कथंचिच्च पित्रा वै गौतमेन सः ।
एतावता गौतमोऽपि व्यगमच्चरितुं बहिः ॥ १०७.५॥
एवं बहुतिथे काले ब्रह्ममात्रा धृते द्विजे ।
नैव चाध्ययनं तस्य संजातं गौतमस्य हि ॥ १०७.६॥
नैव शास्त्रस्य चाभ्यासो गौतमस्याभवत् तदा ।
अग्निकार्यं ततश्चक्रे नित्यमेव यतव्रतः ॥ १०७.७॥
गायत्र्यभ्यासमात्रेण ब्राह्मणो नामधारकः ।
अग्न्युपासनमात्रं च गायत्र्यभ्यसनं तथा ॥ १०७.८॥
एतावता ब्राह्मणत्वं गौतमस्याभवन् मुने ।
उपासतोऽग्निं विधिवद् गायत्रीं च महात्मनः ॥ १०७.९॥
तस्यायुर्ववृधे पुत्र गौतमस्य चिरायुषः ।
न दारसंग्रहं लेभे नैव दातास्ति कन्यकाम् ॥ १०७.१०॥
तथा चरंस्तीर्थदेशे वनेषु विविधेषु च ।
आश्रमेषु च पुण्येषु अटन्न् आस्ते स गौतमः ॥ १०७.११॥
एवं भ्रमञ् शीतगिरिमाश्रित्यास्ते स गौतमः ।
तत्रापश्यद् गुहां रम्यां वल्लीविटपमालिनीम् ॥ १०७.१२॥
तत्रोपविश्य विप्रेन्द्रो वस्तुं समकरोन् मतिम् ।
चिन्तयंस्तु प्रविष्टोऽसावपश्यत् स्त्रियमुत्तमाम् ॥ १०७.१३॥
शिथिलाङ्गीमथ कृशां वृद्धां च तपसि स्थिताम् ।
ब्रह्मचर्येण वर्तन्तीं विरागां रहसि स्थिताम् ॥ १०७.१४॥
स तां दृष्ट्वा मुनिश्रेष्ठो नमस्काराय तस्थिवान् ।
नमस्यन्तं मुनिश्रेष्ठं तं गौतममवारयत् ॥ १०७.१५॥
वृद्धोवाच ।
गुरुस्त्वं भविता मह्यं न मां वन्दितुमर्हसि ।
आयुर्विद्या धनं कीर्तिर्धर्मः स्वर्गादिकं च यत् ।
तस्य नश्यति वै सर्वं यं नमस्यति वै गुरुः ॥ १०७.१६॥
ब्रह्मोवाच ।
कृताञ्जलिपुटस्तां वै गौतमः प्राह
गौतम उवाच ।
तपस्विनी त्वं वृद्धा च गुणज्येष्ठा च भामिनी ।
अल्पविद्यस्त्वल्पवया अहं तव गुरुः कथम् ॥ १०७.१८॥
वृद्धोवाच ।
आर्ष्टिषेणप्रियपुत्र ऋतध्वज इति श्रुतः ।
गुणवान् मतिमाञ् शूरः क्षत्रधर्मपरायणः ॥ १०७.१९॥
स कदाचिद् वनं प्रायान् मृगयाकृष्टचेतनः ।
विश्राममकरोद् अस्यां गुहायां स ऋतध्वजः ॥ १०७.२०॥
युवा स मतिमान् दक्षो बलेन महता वृतः ।
तं विश्रान्तं नृपवरमप्सरा ददृशे ततः ॥ १०७.२१॥
गन्धर्वराजस्य सुता सुश्यामा इति विश्रुता ।
तां दृष्ट्वा चकमे राजा राजानं चकमे च सा ॥ १०७.२२॥
इति क्रीडा समभवत् तया राज्ञो महामते ।
निवृत्तकामो राजेन्द्रस्तामापृच्छ्यागमद् गृहम् ॥ १०७.२३॥
उत्पन्नाहं ततस्तस्यां सुश्यामायां महामते ।
गच्छन्ती मां तदा माता इदमाह तपोधन ॥ १०७.२४॥
सुश्यामोवाच ।
यस्त्वस्यां प्रविशेद् भद्रे स ते भर्ता
वृद्धोवाच ।
इत्युक्त्वा सा जगमाथ माता मम महामते ।
तस्माद् अत्र प्रविष्टस्त्वं पुमान् नान्यः कदाचन ॥ १०७.२६॥
सहस्राणि तथाशीतिं कृत्वा राज्यं पिता मम ।
अत्रैव च तपस्तप्त्वा ततः स्वर्गमुपेयिवान् ॥ १०७.२७॥
स्वर्गं यातेऽपि पितरि सहस्राणि तथा दश ।
वर्षाणि मुनिशार्दूल राज्यं कृत्वा तथा परः ॥ १०७.२८॥
स्वर्गे यातो मम भ्राता अहमत्रैव संस्थिता ।
अहं ब्रह्मन् नान्यवृत्ता न माता न पिता मम ॥ १०७.२९॥
अहमात्मेश्वरी ब्रह्मन् निविष्टा क्षत्रकन्यका ।
तस्माद् भजस्व मां ब्रह्मन् व्रतस्थां पुरुषार्थिनीम् ॥ १०७.३०॥