अध्याय 106, Verse 1
ब्रह्मोवाच ।
प्रवरासंगमो नाम श्रेष्ठा चैव महानदी ।
यत्र सिद्धेश्वरो देवः सर्वलोकोपकारकृत् ॥ १०६.१॥
Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
प्रवरासंगमो नाम श्रेष्ठा चैव महानदी ।
यत्र सिद्धेश्वरो देवः सर्वलोकोपकारकृत् ॥ १०६.१॥
देवानां दानवानां च संगमोऽभूत् सुदारुणः ।
तेषां परस्परं वापि प्रीतिश्चाभून् महामुने ॥ १०६.२॥
तेऽप्येवं मन्त्रयामासुर्देवा वै दानवा मिथः ।
मेरुपर्वतमासाद्य परस्परहितैषिणः ॥ १०६.३॥
देवदैत्या ऊचुः ।
अमृतेनामरत्वं स्याद् उत्पाद्यामृतमुत्तमम् ।
पिबामः सर्व एवैते भवामश्चामरा वयम् ॥ १०६.४॥
एकीभूत्वा वयं लोकान् पालयामः सुखानि च ।
प्राप्स्यामः संगरं हित्वा संगरो दुःखकारणम् ॥ १०६.५॥
प्रीत्या चैवार्जितान् अर्थान् भोक्ष्यामो गतमत्सराः ।
यतः स्नेहेन वृत्तिर्या सास्माकं सुखदा सदा ॥ १०६.६॥
वैपरीत्यं तु यद् वृत्तं न स्मर्तव्यं कदाचन ।
न च त्रैलोक्यराज्येऽपि कैवल्ये वा सुखं मनाक् ।
तद् ऊर्ध्वमपि वा यत् तु निर्वैरत्वाद् अवाप्यते ॥ १०६.७॥
ब्रह्मोवाच ।
एवं परस्परं प्रीताः सन्तो देवाश्च दानवाः ।
एकीभूताश्च सुप्रीता विमथ्य वरुणालयम् ॥ १०६.८॥
मन्थानं मन्दरं कृत्वा रज्जुं कृत्वा तु वासुकिम् ।
देवाश्च दानवाः सर्वे ममन्थुर्वरुणालयम् ॥ १०६.९॥
उत्पन्नं च ततः पुण्यममृतं सुरवल्लभम् ।
निष्पन्ने चामृते पुण्ये ते च प्रोचुः परस्परम् ॥ १०६.१०॥
यामः स्वं स्वमधिष्ठानं कृतकार्याः श्रमं गताः ।
सर्वे समं च सर्वेभ्यो यथायोग्यं विभज्यताम् ॥ १०६.११॥
यदा सर्वागमो यत्र यस्मिंल्लग्ने शुभावहे ।
विभज्यतामिदं पुण्यममृतं सुरसत्तमाः ॥ १०६.१२॥
इत्युक्त्वा ते ययुः सर्वे दैत्यदानवराक्षसाः ।
गतेषु दैत्यसंघेषु देवाः सर्वेऽन्वमन्त्रयन् ॥ १०६.१३॥
देवा ऊचुः ।
गतास्ते रिपवोऽस्माकं दैवयोगाद् अरिंदमाः ।
रिपूणाममृतं नैव देयं भवति सर्वथा ॥ १०६.१४॥
ब्रह्मोवाच ।
बृहस्पतिस्तथेत्याह पुनराह सुरान् इदम् ॥ १०६.१५॥
बृहस्पतिरुवाच ।
न जानन्ति यथा पापा पिबध्वं च तथामृतम् ।
अयमेवोचितो मन्त्रो यच्छत्रूणां पराभवः ॥ १०६.१६॥
द्वेष्याः सर्वात्मना द्वेष्या इति नीतिविदो विदुः ।
न विश्वास्या न चाख्येया नैव मन्त्र्याश्च शत्रवः ॥ १०६.१७॥
तेभ्यो न देयममृतं भवेयुरमरास्ततः ।
अमरेषु च जातेषु तेषु दैत्येषु शत्रुषु ।
ताञ् जेतुं नैव शक्ष्यामो न देयममृतं ततः ॥ १०६.१८॥
ब्रह्मोवाच ।
इति सम्मन्त्र्य ते देवा वाचस्पतिमथाब्रुवन् ॥ १०६.१९॥
देवा ऊचुः ।
क्व यामः कुत्र मन्त्रः स्यात् क्व पिबामः क्व संस्थितिः ।
कुर्मस्तद् एव प्रथमं वद वाचस्पते तथा ॥ १०६.२०॥
बृहस्पतिरुवाच ।
यान्तु ब्रह्माणममराः पृच्छन्त्वत्र गतिं पराम् ।
स तु ज्ञाता च वक्ता च दाता चैव पितामहः ॥ १०६.२१॥
ब्रह्मोवाच ।
बृहस्पतेर्वचः श्रुत्वा मदन्तिकमथागमन् ।
नमस्य मां सुराः सर्वे यद् वृत्तं तन् न्यवेदयन् ॥ १०६.२२॥
तद् देववचनात् पुत्र तैः सुरैरगमं हरिम् ।
विष्णवे कथितं सर्वं शम्भवे विषहारिणे ॥ १०६.२३॥
अहं विष्णुश्च शम्भुश्च देवगन्धर्वकिंनरैः ।
मेरुकन्दरमागत्य न जानन्ति यथासुराः ॥ १०६.२४॥
रक्षकं च हरिं कृत्वा सोमपानाय तस्थिरे ।
आदित्यस्तत्र विज्ञाता सोमभोज्यान् अथेतरान् ॥ १०६.२५॥
सोमो दातामृतं भागं चक्रधृग् रक्षकस्तथा ।
नैव जानन्ति तद् दैत्या दनुजा राक्षसास्तथा ॥ १०६.२६॥
विना राहुं महाप्राज्ञं सैंहिकेयं च सोमपम् ।
कामरूपधरो राहुर्मरुतां मध्यमाविशत् ॥ १०६.२७॥
मरुद्रूपं समास्थाय पानपात्रधरस्तथा ।
ज्ञात्वा दिवाकरो दैत्यं तं सोमाय न्यवेदयत् ॥ १०६.२८॥
तदा तद् अमृतं तस्मै दैत्यायादैत्यरूपिणे ।
दत्त्वा सोमं तदा सोमो विष्णवे तन् न्यवेदयत् ॥ १०६.२९॥
विष्णुः पीतामृतं दैत्यं चक्रेणोद्यम्य तच्छिरः ।
चिच्छेद तरसा वत्स तच्छिरस्त्वमरं त्वभूत् ॥ १०६.३०॥