अध्याय 105, Verse 1
ब्रह्मोवाच ।
सोमतीर्थमिति ख्यातं पितृणां प्रीतिवर्धनम् ।
तत्र वृत्तं महापुण्यं शृणु यत्नेन नारद ॥ १०५.१॥
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
सोमतीर्थमिति ख्यातं पितृणां प्रीतिवर्धनम् ।
तत्र वृत्तं महापुण्यं शृणु यत्नेन नारद ॥ १०५.१॥
सोमो राजामृतमयो गन्धर्वाणां पुराभवत् ।
न देवानां तदा देवा मामभ्येत्येदमब्रुवन् ॥ १०५.२॥
देवा ऊचुः ।
गन्धर्वैराहृतः सोमो देवानां प्राणदः पुरा ।
तमध्यायन् सुरगणा ऋषयस्त्वतिदुःखिताः ।
यथा स्यात् सोमो ह्यस्माकं तथा नीतिर्विधीयताम् ॥ १०५.३॥
ब्रह्मोवाच ।
तत्र वाग् विबुधान् आह गन्धर्वाः स्त्रीषु कामुकाः ।
तेभ्यो दत्त्वाथ मां देवाः सोममाहर्तुमर्हथ ॥ १०५.४॥
वाचं प्रत्यूचुरमरास्त्वां दातुं न क्षमा वयम् ।
विना तेनापि न स्थातुं शक्यं नैव त्वया विना ॥ १०५.५॥
पुनर्वाग् अब्रवीद् देवान् पुनरेष्याम्यहं त्विह ।
अत्र बुद्धिर्विधातव्या क्रियतां क्रतुरुत्तमः ॥ १०५.६॥
गौतम्या दक्षिणे तीरे भवेद् देवागमो यदि ।
मखं तु विषयं कृत्वा आयान्तु सुरसत्तमाः ॥ १०५.७॥
गन्धर्वाः स्त्रीप्रिया नित्यं पणध्वं तं मया सह ।
तथेत्युक्त्वा सुरगणाः सरस्वत्या वचःस्थिताः ॥ १०५.८॥
देवदूतैः पृथग् देवान् यक्षान् गन्धर्वपन्नगान् ।
आह्वानं चक्रिरे तत्र पुण्ये देवगिरौ तदा ॥ १०५.९॥
ततो देवगिरिर्नाम पर्वतस्याभवन् मुने ।
तत्रागमन् सुरगणा गन्धर्वा यक्षकिंनराः ॥ १०५.१०॥
देवाः सिद्धाश्च ऋषयस्तथाष्टौ देवयोनयः ।
ऋषिभिर्गौतमीतीरे क्रियमाणे महाध्वरे ॥ १०५.११॥
तत्र देवैः परिवृतः सहस्राक्षोऽभ्यभाषत ॥ १०५.१२॥
इन्द्र उवाच ।
गन्धर्वान् अथ सम्पूज्य सरस्वत्याः समीपतः ।
सरस्वत्या पणध्वं नो युष्माकममृतात्मना ॥ १०५.१३॥
ब्रह्मोवाच ।
तच्छक्रवचनात् ते वै गन्धर्वाः स्त्रीषु कामुकाः ।
सोमं दत्त्वा सुरेभ्यस्तु जगृहुस्तां सरस्वतीम् ॥ १०५.१४॥
सोमोऽभवच्चामराणां गन्धर्वाणां सरस्वती ।
अवसत् तत्र वागीशा तथापि च सुरान्तिके ॥ १०५.१५॥
आयाति च रहो नित्यमुपांशु क्रियतामिति ।
अत एव हि सोमस्य क्रयो भवति नारद ॥ १०५.१६॥
उपांशुना वर्तितव्यं सोमक्रयण एव हि ।
ततोऽभवद् देवतानां सोमश्चापि सरस्वती ॥ १०५.१७॥
गन्धर्वाणां नैव सोमो नैवासीच्च सरस्वती ।
तत्रागमन् सर्व एव सोमार्थं गौतमीतटम् ॥ १०५.१८॥
गावो देवाः पर्वता यक्षरक्षाः ।
सिद्धाः साध्या मुनयो गुह्यकाश्च ।
गन्धर्वास्ते मरुतः पन्नगाश्च ।
सर्वौषध्यो मातरो लोकपालाः ।
रुद्रादित्या वसवश्चाश्विनौ च ।
येऽन्ये देवा यज्ञभागस्य योग्याः ॥ १०५.१९॥
पञ्चविंशतिनद्यस्तु गङ्गायां संगता मुने ।
पूर्णाहुतिर्यत्र दत्ता पूर्णाख्यानं तद् उच्यते ॥ १०५.२०॥
गौतम्यां संगता यास्तु सर्वाश्चापि यथोदिताः ।
तन्नामधेयतीर्थानि संक्षेपाच्छृणु नारद ॥ १०५.२१॥
सोमतीर्थं च गान्धर्वं देवतीर्थमतः परम् ।
पूर्णातीर्थं ततः शालं श्रीपर्णासंगमं तथा ॥ १०५.२२॥
स्वागतासंगमं पुण्यं कुसुमायाश्च संगमम् ।
पुष्टिसंगममाख्यातं कर्णिकासंगमं शुभम् ॥ १०५.२३॥
वैणवीसंगमश्चैव कृशरासंगमस्तथा ।
वासवीसंगमश्चैव शिवशर्या तथा शिखी ॥ १०५.२४॥
कुसुम्भिका उपारथ्या शान्तिजा देवजा तदा ।
अजो वृद्धः सुरो भद्रो गौतम्या सह संगताः ॥ १०५.२५॥
एते चान्ये च बहवो नदीनदसहायगाः ।
पृथिव्यां यानि तीर्थानि ह्यगमन् देवपर्वते ॥ १०५.२६॥
सोमार्थं वै तथा चान्येऽप्यागमन् मखमण्डपम् ।
तानि तीर्थानि गङ्गायां संगतानि यथाक्रमम् ॥ १०५.२७॥
नदीरूपेण कान्येव नदरूपेण कानिचित् ।
सरोरूपेण कान्यत्र स्तवरूपेण कानिचित् ॥ १०५.२८॥
तान्येव सर्वतीर्थानि विख्यातानि पृथक् पृथक् ।
तेषु स्नानं जपो होमः पितृतर्पणमेव च ॥ १०५.२९॥
सर्वकामप्रदं पुंसां भुक्तिदं मुक्तिभाजनम् ।
एतेषां पठनं चापि स्मरणं वा करोति यः ।
सर्वपापविनिर्मुक्तो याति विष्णुपुरं जनः ॥ १०५.३०॥