अध्याय 104, Verse 1
ब्रह्मोवाच ।
विश्वामित्रं हरिश्चन्द्रं शुनःशेपं च रोहितम् ।
वारुणं ब्राह्ममाग्नेयमैन्द्रमैन्दवमैश्वरम् ॥ १०४.१॥
Containing 90 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
विश्वामित्रं हरिश्चन्द्रं शुनःशेपं च रोहितम् ।
वारुणं ब्राह्ममाग्नेयमैन्द्रमैन्दवमैश्वरम् ॥ १०४.१॥
मैत्रं च वैष्णवं चैव याम्यमाश्विनमौशनम् ।
एतेषां पुण्यतीर्थानां नामधेयं शृणुष्व मे ॥ १०४.२॥
हरिश्चन्द्र इति त्वासीद् इक्ष्वाकुप्रभवो नृपः ।
तस्य गृहे मुनी प्राप्तौ नारदः पर्वतस्तथा ।
कृत्वातिथ्यं तयोः सम्यग् *घरिश्चन्द्रोऽब्रवीद् ऋषी ॥ १०४.३॥
हरिश्चन्द्र उवाच ।
पुत्रार्थं क्लिश्यते लोकः किं ज्ञानी वाप्यथवाज्ञानी उत्तमो मध्यमोऽथवा ।
एतं मे संशयं नित्यं ब्रूताम् ऋषिवरावुभौ ॥ १०४.४॥
ब्रह्मोवाच ।
तावूचतुर्हरिश्चन्द्रं पर्वतो नारदस्तथा ॥ १०४.५॥
नारदपर्वतावूचतुः ।
एकधा दशधा राजञ् शतधा च सहस्रधा ।
उत्तरं विद्यते सम्यक् तथाप्येतद् उदीर्यते ॥ १०४.६॥
नापुत्रस्य परो लोको विद्यते नृपसत्तम ।
जाते पुत्रे पिता स्नानं यः करोति जनाधिप ॥ १०४.७॥
दशानामश्वमेधानामभिषेकफलं लभेत् ।
आत्मप्रतिष्ठा पुत्रात् स्याज्जायते चामरोत्तमः ॥ १०४.८॥
अमृतेनामरा देवाः पुत्रेण ब्राह्मणादयः ।
त्रिऋणान् मोचयेत् पुत्रः पितरं च पितामहान् ॥ १०४.९॥
किं तु मूलं किमु जलं किं तु श्मश्रूणि किं तपः ।
विना पुत्रेण राजेन्द्र स्वर्गो मुक्तिः सुतात् स्मृताः ॥ १०४.१०॥
पुत्र एव परो लोको धर्मः कामोऽर्थ एव च ।
पुत्रो मुक्तिः परं ज्योतिस्तारकः सर्वदेहिनाम् ॥ १०४.११॥
विना पुत्रेण राजेन्द्र स्वर्गमोक्षौ सुदुर्लभौ ।
पुत्र एव परो लोके धर्मकामार्थसिद्धये ॥ १०४.१२॥
विना पुत्रेण यद् दत्तं विना पुत्रेण यद् धुतम् ।
विना पुत्रेण यज्जन्म व्यर्थं तद् अवभाति मे ॥ १०४.१३॥
तस्मात् पुत्रसमं किंचित् काम्यं नास्ति जगत्त्रये ।
तच्छ्रुत्वा विस्मयवांस्तावुवाच नृपः पुनः ॥ १०४.१४॥
हरिश्चन्द्र उवाच ।
कथं मे स्यात् सुतो ब्रूतां यत्र येन केनाप्युपायेन कृत्वा किंचित् तु पौरुषम् ।
मन्त्रेण यागदानाभ्यामुत्पाद्योऽसौ सुतो मया ॥ १०४.१५॥
ब्रह्मोवाच ।
तावूचतुर्नृपश्रेष्ठं हरिश्चन्द्रं सुतार्थिनम् ।
ध्यात्वा क्षणं तथा सम्यग् गौतमीं याहि मानद ॥ १०४.१६॥
तत्रापाम्पतिरुत्कृष्टं ददाति मनसीप्सितम् ।
वरुणः सर्वदाता वै मुनिभिः परिकीर्तितः ॥ १०४.१७॥
स तु प्रीतः शनैः काले तव पुत्रं प्रदास्यति ।
एतच्छ्रुत्वा नृपश्रेष्ठो मुनिवाक्यं तथाकरोत् ॥ १०४.१८॥
तोषयामास वरुणं गौतमीतीरमाश्रितः ।
ततश्च तुष्टो वरुणो हरिश्चन्द्रमुवाच ह ॥ १०४.१९॥
वरुण उवाच ।
पुत्रं दास्यामि ते राजंल्लोकत्रयविभूषणम् ।
यदि यक्ष्यसि तेनैव तव पुत्रो भवेद् ध्रुवम् ॥ १०४.२०॥
ब्रह्मोवाच ।
हरिश्चन्द्रोऽपि वरुणं यक्ष्ये तेनेत्यवोचत ।
ततो गत्वा हरिश्चन्द्रश्चरुं कृत्वा तु वारुणम् ॥ १०४.२१॥
भार्यायै नृपतिः प्रादात् ततो जातः सुतो नृपात् ।
जाते पुत्रे अपामीशः प्रोवाच वदतां वरः ॥ १०४.२२॥
वरुण उवाच ।
अद्यैव पुत्रो यष्टव्यः स्मरसे वचनं
ब्रह्मोवाच ।
हरिश्चन्द्रोऽपि वरुणं प्रोवाचेदं
हरिश्चन्द्र उवाच ।
निर्दशो मेध्यतां याति
ब्रह्मोवाच ।
तच्छ्रुत्वा वचनं राज्ञो वरुणोऽगात् स्वमालयम् ।
निर्दशे पुनरभ्येत्य यजस्वेत्याह तं नृपम् ॥ १०४.२६॥
राजापि वरुणं प्राह निर्दन्तो निष्फलः पशुः ।
पशोर्दन्तेषु जातेषु एहि गच्छाधुनाप्पते ॥ १०४.२७॥
तच्छ्रुत्वा राजवचनं पुनः प्रायाद् अपाम्पतिः ।
जातेषु चैव दन्तेषु सप्तवर्षेषु नारद ॥ १०४.२८॥
पुनरप्याह राजानं यजस्वेति ततोऽब्रवीत् ।
राजापि वरुणं प्राह पत्स्यन्तीमे अपाम्पते ॥ १०४.२९॥
सम्पत्स्यन्ति तथा चान्ये ततो यक्ष्ये व्रजाधुना ।
पुनः प्रायात् स वरुणः पुनर्दन्तेषु नारद ।
यजस्वेति नृपं प्राह राजा प्राह त्वपाम्पतिम् ॥ १०४.३०॥